chevron_left वन पर्व अध्याय १४
वासुदेव उवाच:
नेदं कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप |
१ क
वासुदेव उवाच:
यद्यहं द्वारकाय़ां स्यां राजन्संनिहितः पुरा ||
१ ख
वासुदेव उवाच:
आगच्छेय़महं द्यूतमनाहूतोऽपि कौरवैः |
२ क
वासुदेव उवाच:
आम्विकेय़ेन दुर्धर्ष राज्ञा दुर्योधनेन च ||
२ ख
वासुदेव उवाच:
वारय़ेय़महं द्यूतं वहून्दोषान्प्रदर्शय़न् |
३ क
वासुदेव उवाच:
भीष्मद्रोणौ समानाय़्य कृपं वाह्लीकमेव च ||
३ ख
वासुदेव उवाच:
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव |
४ क
वासुदेव उवाच:
पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो ||
४ ख
वासुदेव उवाच:
तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः |
५ क
वासुदेव उवाच:
वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा ||
५ ख
वासुदेव उवाच:
अभक्षितविनाशं च देवनेन विशां पते |
६ क
वासुदेव उवाच:
सातत्यं च प्रसङ्गस्य वर्णय़ेय़ं यथातथम् ||
६ ख
वासुदेव उवाच:
स्त्रिय़ोऽक्षा मृगय़ा पानमेतत्कामसमुत्थितम् |
७ क
वासुदेव उवाच:
व्यसनं चतुष्टय़ं प्रोक्तं यै राजन्भ्रश्यते श्रिय़ः ||
७ ख
वासुदेव उवाच:
तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः |
८ क
वासुदेव उवाच:
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ||
८ ख
वासुदेव उवाच:
एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च |
९ क
वासुदेव उवाच:
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ||
९ ख
वासुदेव उवाच:
एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदय़म् |
१० क
वासुदेव उवाच:
द्यूते व्रूय़ां महावाहो समासाद्याम्विकासुतम् ||
१० ख
वासुदेव उवाच:
एवमुक्तो यदि मय़ा गृह्णीय़ाद्वचनं मम |
११ क
वासुदेव उवाच:
अनामय़ं स्याद्धर्मस्य कुरूणां कुरुनन्दन ||
११ ख
वासुदेव उवाच:
न चेत्स मम राजेन्द्र गृह्णीय़ान्मधुरं वचः |
१२ क
वासुदेव उवाच:
पथ्यं च भरतश्रेष्ठ निगृह्णीय़ां वलेन तम् ||
१२ ख
वासुदेव उवाच:
अथैनानभिनीय़ैवं सुहृदो नाम दुर्हृदः |
१३ क
वासुदेव उवाच:
सभासदश्च तान्सर्वान्भेदय़ेय़ं दुरोदरान् ||
१३ ख
वासुदेव उवाच:
असांनिध्यं तु कौरव्य ममानर्तेष्वभूत्तदा |
१४ क
वासुदेव उवाच:
येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् ||
१४ ख
वासुदेव उवाच:
सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन |
१५ क
वासुदेव उवाच:
अश्रौषं त्वां व्यसनिनं युय़ुधानाद्यथातथम् ||
१५ ख
वासुदेव उवाच:
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः |
१६ क
वासुदेव उवाच:
तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशां पते ||
१६ ख
वासुदेव उवाच:
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ |
१७ क
वासुदेव उवाच:
ये वय़ं त्वां व्यसनिनं पश्यामः सह सोदरैः ||
१७ ख