chevron_left विराट पर्व अध्याय १४
वैशम्पाय़न उवाच:
प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽव्रवीत् |
१ क
वैशम्पाय़न उवाच:
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ||
१ ख
वैशम्पाय़न उवाच:
यथा कैकेय़ि सैरन्ध्र्या समेय़ां तद्विधीय़ताम् |
२ क
वैशम्पाय़न उवाच:
तां सुदेष्णे परीप्सस्व माहं प्राणान्प्रहासिषम् ||
२ ख
वैशम्पाय़न उवाच:
तस्य तां वहुशः श्रुत्वा वाचं विलपतस्तदा |
३ क
वैशम्पाय़न उवाच:
विराटमहिषी देवी कृपां चक्रे मनस्विनी ||
३ ख
वैशम्पाय़न उवाच:
स्वमर्थमभिसन्धाय़ तस्यार्थमनुचिन्त्य च |
४ क
वैशम्पाय़न उवाच:
उद्वेगं चैव कृष्णाय़ाः सुदेष्णा सूतमव्रवीत् ||
४ ख
वैशम्पाय़न उवाच:
पर्विणीं त्वं समुद्दिष्य सुरामन्नं च कारय़ |
५ क
वैशम्पाय़न उवाच:
तत्रैनां प्रेषय़िष्यामि सुराहारीं तवान्तिकम् ||
५ ख
वैशम्पाय़न उवाच:
तत्र सम्प्रेषितामेनां विजने निरवग्रहाम् |
६ क
वैशम्पाय़न उवाच:
सान्त्वय़ेथा यथाकामं सान्त्व्यमाना रमेद्यदि ||
६ ख
वैशम्पाय़न उवाच:
कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा |
७ क
वैशम्पाय़न उवाच:
सुरामाहारय़ामास राजार्हां सुपरिस्रुताम् ||
७ ख
वैशम्पाय़न उवाच:
आजौरभ्रं च सुभृशं वहूंश्चोच्चावचान्मृगान् |
८ क
वैशम्पाय़न उवाच:
कारय़ामास कुशलैरन्नपानं सुशोभनम् ||
८ ख
वैशम्पाय़न उवाच:
तस्मिन्कृते तदा देवी कीचकेनोपमन्त्रिता |
९ क
वैशम्पाय़न उवाच:
सुदेष्णा प्रेषय़ामास सैरन्ध्रीं कीचकालय़म् ||
९ ख
सुदेष्णो उवाच:
उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम् |
१० क
सुदेष्णो उवाच:
पानमानय़ कल्याणि पिपासा मां प्रवाधते ||
१० ख
द्रौपद्यु उवाच:
न गच्छेय़महं तस्य राजपुत्रि निवेशनम् |
११ क
द्रौपद्यु उवाच:
त्वमेव राज्ञि जानासि यथा स निरपत्रपः ||
११ ख
द्रौपद्यु उवाच:
न चाहमनवद्याङ्गि तव वेश्मनि भामिनि |
१२ क
द्रौपद्यु उवाच:
कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी ||
१२ ख
द्रौपद्यु उवाच:
त्वं चैव देवि जानासि यथा स समय़ः कृतः |
१३ क
द्रौपद्यु उवाच:
प्रविशन्त्या मय़ा पूर्वं तव वेश्मनि भामिनि ||
१३ ख
द्रौपद्यु उवाच:
कीचकश्च सुकेशान्ते मूढो मदनदर्पितः |
१४ क
द्रौपद्यु उवाच:
सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने ||
१४ ख
द्रौपद्यु उवाच:
सन्ति वह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः |
१५ क
द्रौपद्यु उवाच:
अन्यां प्रेषय़ भद्रं ते स हि मामवमंस्यते ||
१५ ख
सुदेष्णो उवाच:
नैव त्वां जातु हिंस्यात्स इतः सम्प्रेषितां मय़ा |
१६ क
वैशम्पाय़न उवाच:
इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मय़म् |
१७ क
वैशम्पाय़न उवाच:
सा शङ्कमाना रुदती दैवं शरणमीय़ुषी |
१७ ख
वैशम्पाय़न उवाच:
प्रातिष्ठत सुराहारी कीचकस्य निवेशनम् ||
१७ ग
द्रौपद्यु उवाच:
यथाहमन्यं पाण्डुभ्यो नाभिजानामि कञ्चन |
१८ क
द्रौपद्यु उवाच:
तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः ||
१८ ख
वैशम्पाय़न उवाच:
उपातिष्ठत सा सूर्यं मुहूर्तमवला ततः |
१९ क
वैशम्पाय़न उवाच:
स तस्यास्तनुमध्याय़ाः सर्वं सूर्योऽववुद्धवान् ||
१९ ख
वैशम्पाय़न उवाच:
अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत् |
२० क
वैशम्पाय़न उवाच:
तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम् ||
२० ख
वैशम्पाय़न उवाच:
तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम् |
२१ क
वैशम्पाय़न उवाच:
उदतिष्ठन्मुदा सूतो नावं लव्ध्वेव पारगः ||
२१ ख