chevron_left उद्योग पर्व अध्याय १४
शल्य उवाच:
अथैनां रुपिणीं साध्वीमुपातिष्ठदुपश्रुतिः |
१ क
शल्य उवाच:
तां वय़ोरूपसम्पन्नां दृष्ट्वा देवीमुपस्थिताम् ||
१ ख
शल्य उवाच:
इन्द्राणी सम्प्रहृष्टा सा सम्पूज्यैनामपृच्छत |
२ क
शल्य उवाच:
इच्छामि त्वामहं ज्ञातुं का त्वं व्रूहि वरानने ||
२ ख
उपश्रुतिरु उवाच:
उपश्रुतिरहं देवि तवान्तिकमुपागता |
३ क
उपश्रुतिरु उवाच:
दर्शनं चैव सम्प्राप्ता तव सत्येन तोषिता ||
३ ख
उपश्रुतिरु उवाच:
पतिव्रतासि युक्ता च यमेन निय़मेन च |
४ क
उपश्रुतिरु उवाच:
दर्शय़िष्यामि ते शक्रं देवं वृत्रनिषूदनम् |
४ ख
उपश्रुतिरु उवाच:
क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् ||
४ ग
शल्य उवाच:
ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात् |
५ क
शल्य उवाच:
देवारण्यान्यतिक्रम्य पर्वतांश्च वहूंस्ततः |
५ ख
शल्य उवाच:
हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत् ||
५ ग
शल्य उवाच:
समुद्रं च समासाद्य वहुय़ोजनविस्तृतम् |
६ क
शल्य उवाच:
आससाद महाद्वीपं नानाद्रुमलतावृतम् ||
६ ख
शल्य उवाच:
तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम् |
७ क
शल्य उवाच:
शतय़ोजनविस्तीर्णं तावदेवाय़तं शुभम् ||
७ ख
शल्य उवाच:
तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत |
८ क
शल्य उवाच:
षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः ||
८ ख
शल्य उवाच:
पद्मस्य भित्त्वा नालं च विवेश सहिता तय़ा |
९ क
शल्य उवाच:
विसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् ||
९ ख
शल्य उवाच:
तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् |
१० क
शल्य उवाच:
सूक्ष्मरूपधरा देवी वभूवोपश्रुतिश्च सा ||
१० ख
शल्य उवाच:
इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः |
११ क
शल्य उवाच:
स्तूय़मानस्ततो देवः शचीमाह पुरन्दरः ||
११ ख
शल्य उवाच:
किमर्थमसि सम्प्राप्ता विज्ञातश्च कथं त्वहम् |
१२ क
शल्य उवाच:
ततः सा कथय़ामास नहुषस्य विचेष्टितम् ||
१२ ख
शल्य उवाच:
इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितः |
१३ क
शल्य उवाच:
दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो |
१३ ख
शल्य उवाच:
उपतिष्ठ मामिति क्रूरः कालं च कृतवान्मम ||
१३ ग
शल्य उवाच:
यदि न त्रास्यसि विभो करिष्यति स मां वशे |
१४ क
शल्य उवाच:
एतेन चाहं सन्तप्ता प्राप्ता शक्र तवान्तिकम् |
१४ ख
शल्य उवाच:
जहि रौद्रं महावाहो नहुषं पापनिश्चय़म् ||
१४ ग
शल्य उवाच:
प्रकाशय़स्व चात्मानं दैत्यदानवसूदन |
१५ क
शल्य उवाच:
तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च ||
१५ ख