chevron_left द्रोण पर्व अध्याय १४
धृतराष्ट्र उवाच:
वहूनि सुविचित्राणि द्वन्द्वय़ुद्धानि सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
त्वय़ोक्तानि निशम्याहं स्पृहय़ामि सचक्षुषाम् ||
१ ख
धृतराष्ट्र उवाच:
आश्चर्यभूतं लोकेषु कथय़िष्यन्ति मानवाः |
२ क
धृतराष्ट्र उवाच:
कुरूणां पाण्डवानां च युद्धं देवासुरोपमम् ||
२ ख
धृतराष्ट्र उवाच:
न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम् |
३ क
धृतराष्ट्र उवाच:
तस्मादार्ताय़नेर्युद्धं सौभद्रस्य च शंस मे ||
३ ख
सञ्जय़ उवाच:
सादितं प्रेक्ष्य यन्तारं शल्यः सर्वाय़षीं गदाम् |
४ क
सञ्जय़ उवाच:
समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात् ||
४ ख
सञ्जय़ उवाच:
तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् |
५ क
सञ्जय़ उवाच:
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ||
५ ख
सञ्जय़ उवाच:
सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम् |
६ क
सञ्जय़ उवाच:
एह्येहीत्यव्रवीच्छल्यं यत्नाद्भीमेन वारितः ||
६ ख
सञ्जय़ उवाच:
वारय़ित्वा तु सौभद्रं भीमसेनः प्रतापवान् |
७ क
सञ्जय़ उवाच:
शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः ||
७ ख
सञ्जय़ उवाच:
तथैव मद्रराजोऽपि भीमं दृष्ट्वा महावलम् |
८ क
सञ्जय़ उवाच:
ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम् ||
८ ख
सञ्जय़ उवाच:
ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः |
९ क
सञ्जय़ उवाच:
सिंहनादाश्च सञ्जज्ञुर्भेरीणां च महास्वनाः ||
९ ख
सञ्जय़ उवाच:
पश्यतां शतशो ह्यासीदन्योन्यसमचेतसाम् |
१० क
सञ्जय़ उवाच:
पाण्डवानां कुरूणां च साधु साध्विति निस्वनः ||
१० ख
सञ्जय़ उवाच:
न हि मद्राधिपादन्यः सर्वराजसु भारत |
११ क
सञ्जय़ उवाच:
सोढुमुत्सहते वेगं भीमसेनस्य संय़ुगे ||
११ ख
सञ्जय़ उवाच:
तथा मद्राधिपस्यापि गदावेगं महात्मनः |
१२ क
सञ्जय़ उवाच:
सोढुमुत्सहते लोके कोऽन्यो युधि वृकोदरात् ||
१२ ख
सञ्जय़ उवाच:
पट्टैर्जाम्वूनदैर्वद्धा वभूव जनहर्षिणी |
१३ क
सञ्जय़ उवाच:
प्रजज्वाल तथाविद्धा भीमेन महती गदा ||
१३ ख
सञ्जय़ उवाच:
तथैव चरतो मार्गान्मण्डलानि च भागशः |
१४ क
सञ्जय़ उवाच:
महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा ||
१४ ख
सञ्जय़ उवाच:
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः |
१५ क
सञ्जय़ उवाच:
आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ ||
१५ ख
सञ्जय़ उवाच:
मण्डलावर्तमार्गेषु गदाविहरणेषु च |
१६ क
सञ्जय़ उवाच:
निर्विशेषमभूद्युद्धं तय़ोः पुरुषसिंहय़ोः ||
१६ ख
सञ्जय़ उवाच:
ताडिता भीमसेनेन शल्यस्य महती गदा |
१७ क
सञ्जय़ उवाच:
साग्निज्वाला महारौद्रा गदाचूर्णमशीर्यत ||
१७ ख
सञ्जय़ उवाच:
तथैव भीमसेनस्य द्विषताभिहता गदा |
१८ क
सञ्जय़ उवाच:
वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवावभौ ||
१८ ख
सञ्जय़ उवाच:
गदा क्षिप्ता तु समरे मद्रराजेन भारत |
१९ क
सञ्जय़ उवाच:
व्योम सन्दीपय़ाना सा ससृजे पावकं वहु ||
१९ ख
सञ्जय़ उवाच:
तथैव भीमसेनेन द्विषते प्रेषिता गदा |
२० क
सञ्जय़ उवाच:
तापय़ामास तत्सैन्यं महोल्का पतती यथा ||
२० ख
सञ्जय़ उवाच:
ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम् |
२१ क
सञ्जय़ उवाच:
श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम् ||
२१ ख
सञ्जय़ उवाच:
नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ |
२२ क
सञ्जय़ उवाच:
तौ विचेरतुरासाद्य गदाभ्यां च परस्परम् ||
२२ ख
सञ्जय़ उवाच:
ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ |
२३ क
सञ्जय़ उवाच:
ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ||
२३ ख
सञ्जय़ उवाच:
शुश्रुवे दिक्षु सर्वासु तय़ोः पुरुषसिंहय़ोः |
२४ क
सञ्जय़ उवाच:
गदाभिघातसंह्रादः शक्राशनिरिवोपमः ||
२४ ख
सञ्जय़ उवाच:
गदय़ा मद्रराजेन सव्यदक्षिणमाहतः |
२५ क
सञ्जय़ उवाच:
नाकम्पत तदा भीमो भिद्यमान इवाचलः ||
२५ ख
सञ्जय़ उवाच:
तथा भीमगदावेगैस्ताड्यमानो महावलः |
२६ क
सञ्जय़ उवाच:
धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः ||
२६ ख
सञ्जय़ उवाच:
आपेततुर्महावेगौ समुच्छ्रितमहागदौ |
२७ क
सञ्जय़ उवाच:
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः ||
२७ ख
सञ्जय़ उवाच:
अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव |
२८ क
सञ्जय़ उवाच:
सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः ||
२८ ख
सञ्जय़ उवाच:
तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ |
२९ क
सञ्जय़ उवाच:
युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव ||
२९ ख
सञ्जय़ उवाच:
ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः |
३० क
सञ्जय़ उवाच:
शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः ||
३० ख
सञ्जय़ उवाच:
दृष्ट्वा चैनं महाराज गदय़ाभिनिपीडितम् |
३१ क
सञ्जय़ उवाच:
विचेष्टन्तं यथा नागं मूर्छय़ाभिपरिप्लुतम् ||
३१ ख
सञ्जय़ उवाच:
ततः सगदमारोप्य मद्राणामधिपं रथम् |
३२ क
सञ्जय़ उवाच:
अपोवाह रणात्तूर्णं कृतवर्मा महारथः ||
३२ ख
सञ्जय़ उवाच:
क्षीववद्विह्वलो वीरो निमेषात्पुनरुत्थितः |
३३ क
सञ्जय़ उवाच:
भीमोऽपि सुमहावाहुर्गदापाणिरदृश्यत ||
३३ ख
सञ्जय़ उवाच:
ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् |
३४ क
सञ्जय़ उवाच:
सनागरथपत्त्यश्वाः समकम्पन्त मारिष ||
३४ ख
सञ्जय़ उवाच:
ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः |
३५ क
सञ्जय़ उवाच:
भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव ||
३५ ख
सञ्जय़ उवाच:
निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेय़ा महारथाः |
३६ क
सञ्जय़ उवाच:
व्यरोचन्त रणे राजन्दीप्यमाना यशस्विनः ||
३६ ख
सञ्जय़ उवाच:
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च हर्षिताः |
३७ क
सञ्जय़ उवाच:
भेरीश्च वादय़ामासुर्मृदङ्गांश्चानकैः सह ||
३७ ख