chevron_left अनुशासन पर्व अध्याय १४२
भीष्म उवाच:
तूष्णीमासीदर्जुनस्तु पवनस्त्वव्रवीत्पुनः |
१ क
भीष्म उवाच:
शृणु मे व्राह्मणेष्वेव मुख्यं कर्म जनाधिप ||
१ ख
भीष्म उवाच:
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः |
२ क
भीष्म उवाच:
तदेय़ं च्यवनेनेह हृता तेषां वसुन्धरा ||
२ ख
भीष्म उवाच:
उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन् |
३ क
भीष्म उवाच:
शोकार्ताश्च महात्मानं व्रह्माणं शरणं यय़ुः ||
३ ख
देवा ऊचुः:
मदास्यव्यतिषिक्तानामस्माकं लोकपूजित |
४ क
देवा ऊचुः:
च्यवनेन हृता भूमिः कपैश्चापि दिवं प्रभो ||
४ ख
व्रह्मो उवाच:
गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः |
५ क
व्रह्मो उवाच:
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा ||
५ ख
व्रह्मो उवाच:
ते यय़ुः शरणं विप्रांस्त ऊचुः काञ्जय़ामहे |
६ क
व्रह्मो उवाच:
इत्युक्तास्ते द्विजान्प्राहुर्जय़तेह कपानिति |
६ ख
व्रह्मो उवाच:
भूगतान्हि विजेतारो वय़मित्येव पार्थिव ||
६ ग
व्रह्मो उवाच:
ततः कर्म समारव्धं व्राह्मणैः कपनाशनम् |
७ क
व्रह्मो उवाच:
तच्छ्रुत्वा प्रेषितो दूतो व्राह्मणेभ्यो धनी कपैः ||
७ ख
व्रह्मो उवाच:
स च तान्व्राह्मणानाह धनी कपवचो यथा |
८ क
व्रह्मो उवाच:
भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते ||
८ ख
व्रह्मो उवाच:
सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुय़ाजिनः |
९ क
व्रह्मो उवाच:
सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः ||
९ ख
व्रह्मो उवाच:
श्रीश्चैव रमते तेषु धारय़न्ति श्रिय़ं च ते |
१० क
व्रह्मो उवाच:
वृथा दारान्न गच्छन्ति वृथामांसं न भुञ्जते ||
१० ख
व्रह्मो उवाच:
दीप्तमग्निं जुह्वति च गुरूणां वचने स्थिताः |
११ क
व्रह्मो उवाच:
सर्वे च निय़तात्मानो वालानां संविभागिनः ||
११ ख
व्रह्मो उवाच:
उपेत्य शकटैर्यान्ति न सेवन्ति रजस्वलाम् |
१२ क
व्रह्मो उवाच:
अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते ||
१२ ख
व्रह्मो उवाच:
एतैश्चान्यैश्च वहुभिर्गुणैर्युक्तान्कथं कपान् |
१३ क
व्रह्मो उवाच:
विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः ||
१३ ख
व्राह्मणा ऊचुः:
कपान्वय़ं विजेष्यामो ये देवास्ते वय़ं स्मृताः |
१४ क
व्राह्मणा ऊचुः:
तस्माद्वध्याः कपास्माकं धनिन्याहि यथागतम् ||
१४ ख
व्राह्मणा ऊचुः:
धनी गत्वा कपानाह न वो विप्राः प्रिय़ङ्कराः |
१५ क
व्राह्मणा ऊचुः:
गृहीत्वास्त्राण्यथो विप्रान्कपाः सर्वे समाद्रवन् ||
१५ ख
व्राह्मणा ऊचुः:
समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातय़ः |
१६ क
व्राह्मणा ऊचुः:
व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् ||
१६ ख
व्राह्मणा ऊचुः:
व्रह्मसृष्टा हव्यभुजः कपान्भुक्त्वा सनातनाः |
१७ क
व्राह्मणा ऊचुः:
नभसीव यथाभ्राणि व्यराजन्त नराधिप |
१७ ख
व्राह्मणा ऊचुः:
प्रशशंसुर्द्विजांश्चैव व्रह्माणं च यशस्विनम् ||
१७ ग
व्राह्मणा ऊचुः:
तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः |
१८ क
व्राह्मणा ऊचुः:
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ||
१८ ख
व्राह्मणा ऊचुः:
इत्युक्तवचनं वाय़ुमर्जुनः प्रत्यभाषत |
१९ क
व्राह्मणा ऊचुः:
प्रतिपूज्य महावाहो यत्तच्छृणु नराधिप ||
१९ ख
व्राह्मणा ऊचुः:
जीवाम्यहं व्राह्मणार्थे सर्वथा सततं प्रभो |
२० क
व्राह्मणा ऊचुः:
व्रह्मणे व्राह्मणेभ्यश्च प्रणमामि च नित्यशः ||
२० ख
व्राह्मणा ऊचुः:
दत्तात्रेय़प्रसादाच्च मय़ा प्राप्तमिदं यशः |
२१ क
व्राह्मणा ऊचुः:
लोके च परमा कीर्तिर्धर्मश्च चरितो महान् ||
२१ ख
व्राह्मणा ऊचुः:
अहो व्राह्मणकर्माणि यथा मारुत तत्त्वतः |
२२ क
व्राह्मणा ऊचुः:
त्वय़ा प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रय़तेन ह ||
२२ ख
वाय़ुरु उवाच:
व्राह्मणान्क्षत्रधर्मेण पालय़स्वेन्द्रिय़ाणि च |
२३ क
वाय़ुरु उवाच:
भृगुभ्यस्ते भय़ं घोरं तत्तु कालाद्भविष्यति ||
२३ ख