chevron_left उद्योग पर्व अध्याय १४०
सञ्जय़ उवाच:
कर्णस्य वचनं श्रुत्वा केशवः परवीरहा |
१ क
सञ्जय़ उवाच:
उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा ||
१ ख
सञ्जय़ उवाच:
अपि त्वां न तपेत्कर्ण राज्यलाभोपपादना |
२ क
सञ्जय़ उवाच:
मय़ा दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ||
२ ख
सञ्जय़ उवाच:
ध्रुवो जय़ः पाण्डवानामितीदं; न संशय़ः कश्चन विद्यतेऽत्र |
३ क
सञ्जय़ उवाच:
जय़ध्वजो दृश्यते पाण्डवस्य; समुच्छ्रितो वानरराज उग्रः ||
३ ख
सञ्जय़ उवाच:
दिव्या माय़ा विहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा |
४ क
सञ्जय़ उवाच:
दिव्यानि भूतानि भय़ावहानि; दृश्यन्ति चैवात्र भय़ानकानि ||
४ ख
सञ्जय़ उवाच:
न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग्योजनमात्ररूपः |
५ क
सञ्जय़ उवाच:
श्रीमान्ध्वजः कर्ण धनञ्जय़स्य; समुच्छ्रितः पावकतुल्यरूपः ||
५ ख
सञ्जय़ उवाच:
यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् |
६ क
सञ्जय़ उवाच:
ऐन्द्रमस्त्रं विकुर्वाणमुभे चैवाग्निमारुते ||
६ ख
सञ्जय़ उवाच:
गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः |
७ क
सञ्जय़ उवाच:
न तदा भविता त्रेता न कृतं द्वापरं न च ||
७ ख
सञ्जय़ उवाच:
यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् |
८ क
सञ्जय़ उवाच:
जपहोमसमाय़ुक्तं स्वां रक्षन्तं महाचमूम् ||
८ ख
सञ्जय़ उवाच:
आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् |
९ क
सञ्जय़ उवाच:
न तदा भविता त्रेता न कृतं द्वापरं न च ||
९ ख
सञ्जय़ उवाच:
यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महावलम् |
१० क
सञ्जय़ उवाच:
दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ||
१० ख
सञ्जय़ उवाच:
प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् |
११ क
सञ्जय़ उवाच:
न तदा भविता त्रेता न कृतं द्वापरं न च ||
११ ख
सञ्जय़ उवाच:
यदा द्रक्ष्यसि सङ्ग्रामे माद्रीपुत्रौ महारथौ |
१२ क
सञ्जय़ उवाच:
वाहिनीं धार्तराष्ट्राणां क्षोभय़न्तौ गजाविव ||
१२ ख
सञ्जय़ उवाच:
विगाढे शस्त्रसम्पाते परवीररथारुजौ |
१३ क
सञ्जय़ उवाच:
न तदा भविता त्रेता न कृतं द्वापरं न च ||
१३ ख
सञ्जय़ उवाच:
यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् |
१४ क
सञ्जय़ उवाच:
सुय़ोधनं च राजानं सैन्धवं च जय़द्रथम् ||
१४ ख
सञ्जय़ उवाच:
युद्धाय़ापततस्तूर्णं वारितान्सव्यसाचिना |
१५ क
सञ्जय़ उवाच:
न तदा भविता त्रेता न कृतं द्वापरं न च ||
१५ ख
सञ्जय़ उवाच:
व्रूय़ाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् |
१६ क
सञ्जय़ उवाच:
सौम्योऽय़ं वर्तते मासः सुप्रापय़वसेन्धनः ||
१६ ख
सञ्जय़ उवाच:
पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः |
१७ क
सञ्जय़ उवाच:
निष्पङ्को रसवत्तोय़ो नात्युष्णशिशिरः सुखः ||
१७ ख
सञ्जय़ उवाच:
सप्तमाच्चापि दिवसादमावास्या भविष्यति |
१८ क
सञ्जय़ उवाच:
सङ्ग्रामं योजय़ेत्तत्र तां ह्याहुः शक्रदेवताम् ||
१८ ख
सञ्जय़ उवाच:
तथा राज्ञो वदेः सर्वान्ये युद्धाय़ाभ्युपागताः |
१९ क
सञ्जय़ उवाच:
यद्वो मनीषितं तद्वै सर्वं सम्पादय़ामि वः ||
१९ ख
सञ्जय़ उवाच:
राजानो राजपुत्राश्च दुर्योधनवशानुगाः |
२० क
सञ्जय़ उवाच:
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ||
२० ख