chevron_left द्रोण पर्व अध्याय १४१
सञ्जय़ उवाच:
द्वितीय़ं च तृतीय़ं च चतुर्थं पञ्चमं तथा ||
४९ ख
सञ्जय़ उवाच:
आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् |
५० क
सञ्जय़ उवाच:
तव पुत्रो महाराज जितकाशी मदोत्कटः ||
५० ख
सञ्जय़ उवाच:
स तदा छिद्यमानेषु कार्मुकेषु पुनः पुनः |
५१ क
सञ्जय़ उवाच:
शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम् ||
५१ ख
सञ्जय़ उवाच:
अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः |
५२ क
सञ्जय़ उवाच:
पश्यतः सर्वलोकस्य भीमस्य च महात्मनः ||
५२ ख
सञ्जय़ उवाच:
ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् |
५३ क
सञ्जय़ उवाच:
चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति ||
५३ ख
सञ्जय़ उवाच:
ततः सा सहसा वाहांस्तव पुत्रस्य संय़ुगे |
५४ क
सञ्जय़ उवाच:
सारथिं च गदा गुर्वी ममर्द भरतर्षभ ||
५४ ख
सञ्जय़ उवाच:
पुत्रस्तु तव राजेन्द्र रथाद्धेमपरिष्कृतात् |
५५ क
सञ्जय़ उवाच:
आप्लुतः सहसा यानं नन्दकस्य महात्मनः ||
५५ ख
सञ्जय़ उवाच:
ततो भीमो हतं मत्वा तव पुत्रं महारथम् |
५६ क
सञ्जय़ उवाच:
सिंहनादं महच्चक्रे तर्जय़न्निव कौरवान् ||
५६ ख
सञ्जय़ उवाच:
तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् |
५७ क
सञ्जय़ उवाच:
ततो विचुक्रुशुः सर्वे हा हेति च समन्ततः ||
५७ ख
सञ्जय़ उवाच:
तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वय़ोधिनाम् |
५८ क
सञ्जय़ उवाच:
भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः ||
५८ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा हतं मत्वा सुय़ोधनम् |
५९ क
सञ्जय़ उवाच:
अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः ||
५९ ख
सञ्जय़ उवाच:
पाञ्चालाः केकय़ा मत्स्याः सृञ्जय़ाश्च विशां पते |
६० क
सञ्जय़ उवाच:
सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युय़ुत्सय़ा ||
६० ख
सञ्जय़ उवाच:
तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह |
६१ क
सञ्जय़ उवाच:
घोरे तमसि मग्नानां निघ्नतामितरेतरम् ||
६१ ख