chevron_left अनुशासन पर्व अध्याय १४१
भीष्म उवाच:
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वाय़ुस्तमव्रवीत् |
१ क
भीष्म उवाच:
शृणु मे हैहय़श्रेष्ठ कर्मात्रेः सुमहात्मनः ||
१ ख
भीष्म उवाच:
घोरे तमस्ययुध्यन्त सहिता देवदानवाः |
२ क
भीष्म उवाच:
अविध्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ ||
२ ख
भीष्म उवाच:
अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः |
३ क
भीष्म उवाच:
देवा नृपतिशार्दूल सहैव वलिभिस्तदा ||
३ ख
भीष्म उवाच:
असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः |
४ क
भीष्म उवाच:
अपश्यन्त तपस्यन्तमत्रिं विप्रं महावने ||
४ ख
भीष्म उवाच:
अथैनमव्रुवन्देवाः शान्तक्रोधं जितेन्द्रिय़म् |
५ क
भीष्म उवाच:
असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ ||
५ ख
भीष्म उवाच:
वय़ं वध्यामहे चापि शत्रुभिस्तमसावृते |
६ क
भीष्म उवाच:
नाधिगच्छाम शान्तिं च भय़ात्त्राय़स्व नः प्रभो ||
६ ख
भीष्म उवाच:
कथं रक्षामि भवतस्तेऽव्रुवंश्चन्द्रमा भव |
७ क
भीष्म उवाच:
तिमिरघ्नश्च सविता दस्युहा चैव नो भव ||
७ ख
भीष्म उवाच:
एवमुक्तस्तदात्रिस्तु तमोनुदभवच्छशी |
८ क
भीष्म उवाच:
अपश्यत्सौम्यभावं च सूर्यस्य प्रतिदर्शनम् ||
८ ख
भीष्म उवाच:
दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव |
९ क
भीष्म उवाच:
प्रकाशमकरोदत्रिस्तपसा स्वेन संय़ुगे ||
९ ख
भीष्म उवाच:
जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा |
१० क
भीष्म उवाच:
व्यजय़च्छत्रुसङ्घांश्च देवानां स्वेन तेजसा ||
१० ख
भीष्म उवाच:
अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् |
११ क
भीष्म उवाच:
पराक्रमैस्तेऽपि तदा व्यत्यघ्नन्नत्रिरक्षिताः ||
११ ख
भीष्म उवाच:
उद्भासितश्च सविता देवास्त्राता हतासुराः |
१२ क
भीष्म उवाच:
अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा ||
१२ ख
भीष्म उवाच:
अद्वितीय़ेन मुनिना जपता चर्मवाससा |
१३ क
भीष्म उवाच:
फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् ||
१३ ख
भीष्म उवाच:
तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः |
१४ क
भीष्म उवाच:
व्रवीम्यहं व्रूहि वा त्वमत्रितः क्षत्रिय़ं वरम् ||
१४ ख
भीष्म उवाच:
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वाय़ुस्तमव्रवीत् |
१५ क
भीष्म उवाच:
शृणु राजन्महत्कर्म च्यवनस्य महात्मनः ||
१५ ख
भीष्म उवाच:
अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् |
१६ क
भीष्म उवाच:
प्रोवाच सहितं देवैः सोमपावश्विनौ कुरु ||
१६ ख
इन्द्र उवाच:
अस्माभिर्वर्जितावेतौ भवेतां सोमपौ कथम् |
१७ क
इन्द्र उवाच:
देवैर्न संमितावेतौ तस्मान्मैवं वदस्व नः ||
१७ ख
इन्द्र उवाच:
अश्विभ्यां सह नेच्छामः पातुं सोमं महाव्रत |
१८ क
इन्द्र उवाच:
पिवन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे ||
१८ ख
च्यवन उवाच:
न चेत्करिष्यसि वचो मय़ोक्तं वलसूदन |
१९ क
च्यवन उवाच:
मय़ा प्रमथितः सद्यः सोमं पास्यसि वै मखे ||
१९ ख
च्यवन उवाच:
ततः कर्म समारव्धं हिताय़ सहसाश्विनोः |
२० क
च्यवन उवाच:
च्यवनेन ततो मन्त्रैरभिभूताः सुराभवन् ||
२० ख
च्यवन उवाच:
तत्तु कर्म समारव्धं दृष्ट्वेन्द्रः क्रोधमूर्छितः |
२१ क
च्यवन उवाच:
उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् |
२१ ख
च्यवन उवाच:
तथा वज्रेण भगवानमर्षाकुललोचनः ||
२१ ग
च्यवन उवाच:
तमापतन्तं दृष्ट्वैव च्यवनस्तपसान्वितः |
२२ क
च्यवन उवाच:
अद्भिः सिक्त्वास्तम्भय़त्तं सवज्रं सहपर्वतम् ||
२२ ख
च्यवन उवाच:
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव ह |
२३ क
च्यवन उवाच:
मदं मन्त्राहुतिमय़ं व्यादितास्यं महामुनिः ||
२३ ख
च्यवन उवाच:
तस्य दन्तसहस्रं तु वभूव शतय़ोजनम् |
२४ क
च्यवन उवाच:
द्विय़ोजनशतास्तस्य दंष्ट्राः परमदारुणाः |
२४ ख
च्यवन उवाच:
हनुस्तस्याभवद्भूमावेकश्चास्यास्पृशद्दिवम् ||
२४ ग
च्यवन उवाच:
जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः |
२५ क
च्यवन उवाच:
तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे ||
२५ ख
च्यवन उवाच:
ते संमन्त्र्य ततो देवा मदस्यास्यगतास्तदा |
२६ क
च्यवन उवाच:
अव्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातय़े |
२६ ख
च्यवन उवाच:
अश्विभ्यां सह सोमं च पिवामो विगतज्वराः ||
२६ ग
च्यवन उवाच:
ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् |
२७ क
च्यवन उवाच:
च्यवनः कृतवांस्तौ चाप्यश्विनौ सोमपीथिनौ ||
२७ ख
च्यवन उवाच:
ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः |
२८ क
च्यवन उवाच:
अक्षेषु मृगय़ाय़ां च पाने स्त्रीषु च वीर्यवान् ||
२८ ख
च्यवन उवाच:
एतैर्दोषैर्नरो राजन्क्षय़ं याति न संशय़ः |
२९ क
च्यवन उवाच:
तस्मादेतान्नरो नित्यं दूरतः परिवर्जय़ेत् ||
२९ ख
च्यवन उवाच:
एतत्ते च्यवनस्यापि कर्म राजन्प्रकीर्तितम् |
३० क
च्यवन उवाच:
व्रवीम्यहं व्रूहि वा त्वं च्यवनात्क्षत्रिय़ं वरम् ||
३० ख