chevron_left वन पर्व अध्याय १४१
युधिष्ठिर उवाच:
अन्तर्हितानि भूतानि रक्षांसि वलवन्ति च |
१ क
युधिष्ठिर उवाच:
अग्निना तपसा चैव शक्यं गन्तुं वृकोदर ||
१ ख
युधिष्ठिर उवाच:
संनिवर्तय़ कौन्तेय़ क्षुत्पिपासे वलान्वय़ात् |
२ क
युधिष्ठिर उवाच:
ततो वलं च दाक्ष्यं च संश्रय़स्व कुरूद्वह ||
२ ख
युधिष्ठिर उवाच:
ऋषेस्त्वय़ा श्रुतं वाक्यं कैलासं पर्वतं प्रति |
३ क
युधिष्ठिर उवाच:
वुद्ध्या प्रपश्य कौन्तेय़ कथं कृष्णा गमिष्यति ||
३ ख
युधिष्ठिर उवाच:
अथ वा सहदेवेन धौम्येन च सहाभिभो |
४ क
युधिष्ठिर उवाच:
सूदैः पौरोगवैश्चैव सर्वैश्च परिचारकैः ||
४ ख
युधिष्ठिर उवाच:
रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि |
५ क
युधिष्ठिर उवाच:
सर्वैस्त्वं सहितो भीम निवर्तस्वाय़तेक्षण ||
५ ख
युधिष्ठिर उवाच:
त्रय़ो वय़ं गमिष्यामो लघ्वाहारा यतव्रताः |
६ क
युधिष्ठिर उवाच:
अहं च नकुलश्चैव लोमशश्च महातपाः ||
६ ख
युधिष्ठिर उवाच:
ममागमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः |
७ क
युधिष्ठिर उवाच:
वसेह द्रौपदीं रक्षन्यावदागमनं मम ||
७ ख
भीम उवाच:
राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत |
८ क
भीम उवाच:
व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षय़ा ||
८ ख
भीम उवाच:
तव चाप्यरतिस्तीव्रा वर्धते तमपश्यतः |
९ क
भीम उवाच:
किं पुनः सहदेवं च मां च कृष्णां च भारत ||
९ ख
भीम उवाच:
रथाः कामं निवर्तन्तां सर्वे च परिचारकाः |
१० क
भीम उवाच:
सूदाः पौरोगवाश्चैव मन्यते यत्र नो भवान् ||
१० ख
भीम उवाच:
न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् |
११ क
भीम उवाच:
शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च ||
११ ख
भीम उवाच:
इय़ं चापि महाभागा राजपुत्री यतव्रता |
१२ क
भीम उवाच:
त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् ||
१२ ख
भीम उवाच:
तथैव सहदेवोऽय़ं सततं त्वामनुव्रतः |
१३ क
भीम उवाच:
न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै ||
१३ ख
भीम उवाच:
अपि चात्र महाराज सव्यसाचिदिदृक्षय़ा |
१४ क
भीम उवाच:
सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह ||
१४ ख
भीम उवाच:
यद्यशक्यो रथैर्गन्तुं शैलोऽय़ं वहुकन्दरः |
१५ क
भीम उवाच:
पद्भिरेव गमिष्यामो मा राजन्विमना भव ||
१५ ख
भीम उवाच:
अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति |
१६ क
भीम उवाच:
इति मे वर्तते वुद्धिर्मा राजन्विमना भव ||
१६ ख
भीम उवाच:
सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ |
१७ क
भीम उवाच:
दुर्गे सन्तारय़िष्यामि यद्यशक्तौ भविष्यतः ||
१७ ख
युधिष्ठिर उवाच:
एवं ते भाषमाणस्य वलं भीमाभिवर्धताम् |
१८ क
युधिष्ठिर उवाच:
यस्त्वमुत्सहसे वोढुं द्रौपदीं विपुलेऽध्वनि ||
१८ ख
युधिष्ठिर उवाच:
यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते |
१९ क
युधिष्ठिर उवाच:
वलं च ते यशश्चैव धर्मः कीर्तिश्च वर्धताम् ||
१९ ख
युधिष्ठिर उवाच:
यस्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णय़ा |
२० क
युधिष्ठिर उवाच:
मा ते ग्लानिर्महावाहो मा च तेऽस्तु पराभवः ||
२० ख
वैशम्पाय़न उवाच:
ततः कृष्णाव्रवीद्वाक्यं प्रहसन्ती मनोरमा |
२१ क
वैशम्पाय़न उवाच:
गमिष्यामि न सन्तापः कार्यो मां प्रति भारत ||
२१ ख
लोमश उवाच:
तपसा शक्यते गन्तुं पर्वतो गन्धमादनः |
२२ क
लोमश उवाच:
तपसा चैव कौन्तेय़ सर्वे योक्ष्यामहे वय़म् ||
२२ ख
लोमश उवाच:
नकुलः सहदेवश्च भीमसेनश्च पार्थिव |
२३ क
लोमश उवाच:
अहं च त्वं च कौन्तेय़ द्रक्ष्यामः श्वेतवाहनम् ||
२३ ख
वैशम्पाय़न उवाच:
एवं सम्भाषमाणास्ते सुवाहोर्विषय़ं महत् |
२४ क
वैशम्पाय़न उवाच:
ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् ||
२४ ख
वैशम्पाय़न उवाच:
किराततङ्गणाकीर्णं कुणिन्दशतसङ्कुलम् |
२५ क
वैशम्पाय़न उवाच:
हिमवत्यमरैर्जुष्टं वह्वाश्चर्यसमाकुलम् ||
२५ ख
वैशम्पाय़न उवाच:
सुवाहुश्चापि तान्दृष्ट्वा पूजय़ा प्रत्यगृह्णत |
२६ क
वैशम्पाय़न उवाच:
विषय़ान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम् ||
२६ ख
वैशम्पाय़न उवाच:
तत्र ते पूजितास्तेन सर्व एव सुखोषिताः |
२७ क
वैशम्पाय़न उवाच:
प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति ||
२७ ख
वैशम्पाय़न उवाच:
इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा |
२८ क
वैशम्पाय़न उवाच:
सूदांश्च परिवर्हं च द्रौपद्याः सर्वशो नृप ||
२८ ख
वैशम्पाय़न उवाच:
राज्ञः कुणिन्दाधिपतेः परिदाय़ महारथाः |
२९ क
वैशम्पाय़न उवाच:
पद्भिरेव महावीर्या यय़ुः कौरवनन्दनाः ||
२९ ख
वैशम्पाय़न उवाच:
ते शनैः प्राद्रवन्सर्वे कृष्णय़ा सह पाण्डवाः |
३० क
वैशम्पाय़न उवाच:
तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनञ्जय़म् ||
३० ख