सञ्जय़ उवाच:
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् |
१ क
सञ्जय़ उवाच:
अव्रवीदभिसम्पूज्य कृष्णं मधुनिषूदनम् |
१ ख
सञ्जय़ उवाच:
जानन्मां किं महावाहो संमोहय़ितुमिच्छसि ||
१ ग
सञ्जय़ उवाच:
योऽय़ं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः |
२ क
सञ्जय़ उवाच:
निमित्तं तत्र शकुनिरहं दुःशासनस्तथा |
२ ख
सञ्जय़ उवाच:
दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ||
२ ग
सञ्जय़ उवाच:
असंशय़मिदं कृष्ण महद्युद्धमुपस्थितम् |
३ क
सञ्जय़ उवाच:
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ||
३ ख
सञ्जय़ उवाच:
राजानो राजपुत्राश्च दुर्योधनवशानुगाः |
४ क
सञ्जय़ उवाच:
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ||
४ ख
सञ्जय़ उवाच:
स्वप्ना हि वहवो घोरा दृश्यन्ते मधुसूदन |
५ क
सञ्जय़ उवाच:
निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ||
५ ख
सञ्जय़ उवाच:
पराजय़ं धार्तराष्ट्रे विजय़ं च युधिष्ठिरे |
६ क
सञ्जय़ उवाच:
शंसन्त इव वार्ष्णेय़ विविधा लोमहर्षणाः ||
६ ख
सञ्जय़ उवाच:
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः |
७ क
सञ्जय़ उवाच:
शनैश्चरः पीडय़ति पीडय़न्प्राणिनोऽधिकम् ||
७ ख
सञ्जय़ उवाच:
कृत्वा चाङ्गारको वक्रं ज्येष्ठाय़ां मधुसूदन |
८ क
सञ्जय़ उवाच:
अनुराधां प्रार्थय़ते मैत्रं संशमय़न्निव ||
८ ख
सञ्जय़ उवाच:
नूनं महद्भय़ं कृष्ण कुरूणां समुपस्थितम् |
९ क
सञ्जय़ उवाच:
विशेषेण हि वार्ष्णेय़ चित्रां पीडय़ते ग्रहः ||
९ ख
सञ्जय़ उवाच:
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति |
१० क
सञ्जय़ उवाच:
दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः ||
१० ख
सञ्जय़ उवाच:
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः |
११ क
सञ्जय़ उवाच:
पानीय़ं यवसं चापि नाभिनन्दन्ति माधव ||
११ ख
सञ्जय़ उवाच:
प्रादुर्भूतेषु चैतेषु भय़माहुरुपस्थितम् |
१२ क
सञ्जय़ उवाच:
निमित्तेषु महावाहो दारुणं प्राणिनाशनम् ||
१२ ख
सञ्जय़ उवाच:
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते |
१३ क
सञ्जय़ उवाच:
वाजिनां वारणानां च मनुष्याणां च केशव ||
१३ ख
सञ्जय़ उवाच:
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन |
१४ क
सञ्जय़ उवाच:
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ||
१४ ख
सञ्जय़ उवाच:
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते |
१५ क
सञ्जय़ उवाच:
प्रदक्षिणा मृगाश्चैव तत्तेषां जय़लक्षणम् ||
१५ ख
सञ्जय़ उवाच:
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव |
१६ क
सञ्जय़ उवाच:
वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम् ||
१६ ख
सञ्जय़ उवाच:
मय़ूराः पुष्पशकुना हंसाः सारसचातकाः |
१७ क
सञ्जय़ उवाच:
जीवं जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान् ||
१७ ख
सञ्जय़ उवाच:
गृध्राः काका वडाः श्येना यातुधानाः शलावृकाः |
१८ क
सञ्जय़ उवाच:
मक्षिकाणां च सङ्घाता अनुगच्छन्ति कौरवान् ||
१८ ख
सञ्जय़ उवाच:
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः |
१९ क
सञ्जय़ उवाच:
अनाहताः पाण्डवानां नदन्ति पटहाः किल ||
१९ ख
सञ्जय़ उवाच:
उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा |
२० क
सञ्जय़ उवाच:
धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ||
२० ख
सञ्जय़ उवाच:
मांसशोणितवर्षं च वृष्टं देवेन माधव |
२१ क
सञ्जय़ उवाच:
तथा गन्धर्वनगरं भानुमन्तमुपस्थितम् |
२१ ख
सञ्जय़ उवाच:
सप्राकारं सपरिखं सवप्रं चारुतोरणम् ||
२१ ग
सञ्जय़ उवाच:
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति |
२२ क
सञ्जय़ उवाच:
उदय़ास्तमय़े सन्ध्ये वेदय़ानो महद्भय़म् |
२२ ख
सञ्जय़ उवाच:
एका सृग्वाशते घोरं तत्पराभवलक्षणम् ||
२२ ग
सञ्जय़ उवाच:
कृष्णग्रीवाश्च शकुना लम्वमाना भय़ानकाः |
२३ क
सञ्जय़ उवाच:
सन्ध्यामभिमुखा यान्ति तत्पराभवलक्षणम् ||
२३ ख
सञ्जय़ उवाच:
व्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन |
२४ क
सञ्जय़ उवाच:
भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ||
२४ ख
सञ्जय़ उवाच:
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा |
२५ क
सञ्जय़ उवाच:
आमपात्रप्रतीकाशा पश्चिमा मधुसूदन ||
२५ ख
सञ्जय़ उवाच:
प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव |
२६ क
सञ्जय़ उवाच:
महद्भय़ं वेदय़न्ति तस्मिन्नुत्पातलक्षणे ||
२६ ख
सञ्जय़ उवाच:
सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः |
२७ क
सञ्जय़ उवाच:
अधिरोहन्मय़ा दृष्टः सह भ्रातृभिरच्युत ||
२७ ख
सञ्जय़ उवाच:
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः |
२८ क
सञ्जय़ उवाच:
आसनानि च शुभ्राणि सर्वेषामुपलक्षय़े ||
२८ ख
सञ्जय़ उवाच:
तव चापि मय़ा कृष्ण स्वप्नान्ते रुधिराविला |
२९ क
सञ्जय़ उवाच:
आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ||
२९ ख
सञ्जय़ उवाच:
अस्थिसञ्चय़मारूढश्चामितौजा युधिष्ठिरः |
३० क
सञ्जय़ उवाच:
सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपाय़सम् ||
३० ख
सञ्जय़ उवाच:
युधिष्ठिरो मय़ा दृष्टो ग्रसमानो वसुन्धराम् |
३१ क
सञ्जय़ उवाच:
त्वय़ा दत्तामिमां व्यक्तं भोक्ष्यते स वसुन्धराम् ||
३१ ख
सञ्जय़ उवाच:
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः |
३२ क
सञ्जय़ उवाच:
गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम् ||
३२ ख
सञ्जय़ उवाच:
क्षपय़िष्यति नः सर्वान्स सुव्यक्तं महारणे |
३३ क
सञ्जय़ उवाच:
विदितं मे हृषीकेश यतो धर्मस्ततो जय़ः ||
३३ ख
सञ्जय़ उवाच:
पाण्डुरं गजमारूढो गाण्डीवी स धनञ्जय़ः |
३४ क
सञ्जय़ उवाच:
त्वय़ा सार्धं हृषीकेश श्रिय़ा परमय़ा ज्वलन् ||
३४ ख
सञ्जय़ उवाच:
यूय़ं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशय़ः |
३५ क
सञ्जय़ उवाच:
पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ||
३५ ख
सञ्जय़ उवाच:
नकुलः सहदेवश्च सात्यकिश्च महारथः |
३६ क
सञ्जय़ उवाच:
शुद्धकेय़ूरकण्ठत्राः शुक्लमाल्याम्वरावृताः ||
३६ ख
सञ्जय़ उवाच:
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् |
३७ क
सञ्जय़ उवाच:
त्रय़ एते महामात्राः पाण्डुरच्छत्रवाससः ||
३७ ख
सञ्जय़ उवाच:
श्वेतोष्णीषाश्च दृश्यन्ते त्रय़ एव जनार्दन |
३८ क
सञ्जय़ उवाच:
धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव ||
३८ ख
सञ्जय़ उवाच:
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः |
३९ क
सञ्जय़ उवाच:
रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ||
३९ ख
सञ्जय़ उवाच:
उष्ट्रय़ुक्तं समारूढौ भीष्मद्रोणौ जनार्दन |
४० क
सञ्जय़ उवाच:
मय़ा सार्धं महावाहो धार्तराष्ट्रेण चाभिभो ||
४० ख
सञ्जय़ उवाच:
अगस्त्यशास्तां च दिशं प्रय़ाताः स्म जनार्दन |
४१ क
सञ्जय़ उवाच:
अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ||
४१ ख
सञ्जय़ उवाच:
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् |
४२ क
सञ्जय़ उवाच:
गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशय़ः ||
४२ ख
कृष्ण उवाच:
उपस्थितविनाशेय़ं नूनमद्य वसुन्धरा |
४३ क
कृष्ण उवाच:
तथा हि मे वचः कर्ण नोपैति हृदय़ं तव ||
४३ ख
कृष्ण उवाच:
सर्वेषां तात भूतानां विनाशे समुपस्थिते |
४४ क
कृष्ण उवाच:
अनय़ो नय़सङ्काशो हृदय़ान्नापसर्पति ||
४४ ख
कर्ण उवाच:
अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् |
४५ क
कर्ण उवाच:
समुत्तीर्णा महावाहो वीरक्षय़विनाशनात् ||
४५ ख
कर्ण उवाच:
अथ वा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम् |
४६ क
कर्ण उवाच:
तत्रेदानीं समेष्यामः पुनः सार्धं त्वय़ानघ ||
४६ ख
सञ्जय़ उवाच:
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् |
४७ क
सञ्जय़ उवाच:
विसर्जितः केशवेन रथोपस्थादवातरत् ||
४७ ख
सञ्जय़ उवाच:
ततः स्वरथमास्थाय़ जाम्वूनदविभूषितम् |
४८ क
सञ्जय़ उवाच:
सहास्माभिर्निववृते राधेय़ो दीनमानसः ||
४८ ख