सञ्जय़ उवाच:
भूरिस्तु समरे राजञ्शैनेय़ं रथिनां वरम् |
१ क
सञ्जय़ उवाच:
आपतन्तमपासेधत्प्रपानादिव कुञ्जरम् ||
१ ख
सञ्जय़ उवाच:
अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः |
२ क
सञ्जय़ उवाच:
विव्याध हृदय़े तूर्णं प्रास्रवत्तस्य शोणितम् ||
२ ख
सञ्जय़ उवाच:
तथैव कौरवो युद्धे शैनेय़ं युद्धदुर्मदम् |
३ क
सञ्जय़ उवाच:
दशभिर्विशिखैस्तीक्ष्णैरविध्यत भुजान्तरे ||
३ ख
सञ्जय़ उवाच:
तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् |
४ क
सञ्जय़ उवाच:
क्रोधसंरक्तनय़नौ क्रोधाद्विस्फार्य कार्मुके ||
४ ख
सञ्जय़ उवाच:
तय़ोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा |
५ क
सञ्जय़ उवाच:
क्रुद्धय़ोः साय़कमुचोर्यमान्तकनिकाशय़ोः ||
५ ख
सञ्जय़ उवाच:
तावन्योन्यं शरै राजन्प्रच्छाद्य समरे स्थितौ |
६ क
सञ्जय़ उवाच:
मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् ||
६ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज शैनेय़ः प्रहसन्निव |
७ क
सञ्जय़ उवाच:
धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः ||
७ ख
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः |
८ क
सञ्जय़ उवाच:
विव्याध हृदय़े तूर्णं तिष्ठ तिष्ठेति चाव्रवीत् ||
८ ख
सञ्जय़ उवाच:
सोऽतिविद्धो वलवता शत्रुणा शत्रुतापनः |
९ क
सञ्जय़ उवाच:
धनुरन्यत्समादाय़ सात्वतं प्रत्यविध्यत ||
९ ख
सञ्जय़ उवाच:
स विद्ध्वा सात्वतं वाणैस्त्रिभिरेव विशां पते |
१० क
सञ्जय़ उवाच:
धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव ||
१० ख
सञ्जय़ उवाच:
छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्छितः |
११ क
सञ्जय़ उवाच:
प्रजहार महावेगां शक्तिं तस्य महोरसि ||
११ ख
सञ्जय़ उवाच:
स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् |
१२ क
सञ्जय़ उवाच:
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छय़ा ||
१२ ख
सञ्जय़ उवाच:
तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः |
१३ क
सञ्जय़ उवाच:
अभ्यधावत वेगेन शैनेय़ं प्रति संय़ुगे |
१३ ख
सञ्जय़ उवाच:
अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्वुदः ||
१३ ग
सञ्जय़ उवाच:
तमापतन्तं संरव्धं शैनेय़स्य रथं प्रति |
१४ क
सञ्जय़ उवाच:
घटोत्कचोऽव्रवीद्राजन्नादं मुक्त्वा महारथः ||
१४ ख
सञ्जय़ उवाच:
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि |
१५ क
सञ्जय़ उवाच:
एष त्वाद्य हनिष्यामि महिषं स्कन्दराडिव |
१५ ख
सञ्जय़ उवाच:
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ||
१५ ग
सञ्जय़ उवाच:
इत्युक्त्वा रोषताम्राक्षो राक्षसः परवीरहा |
१६ क
सञ्जय़ उवाच:
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ||
१६ ख
सञ्जय़ उवाच:
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः |
१७ क
सञ्जय़ उवाच:
रथिनामृषभं द्रौणिं धाराभिरिव तोय़दः ||
१७ ख
सञ्जय़ उवाच:
शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः |
१८ क
सञ्जय़ उवाच:
शातय़ामास समरे तरसा द्रौणिरुत्स्मय़न् ||
१८ ख
सञ्जय़ उवाच:
ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः |
१९ क
सञ्जय़ उवाच:
समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिन्दम ||
१९ ख
सञ्जय़ उवाच:
स शरैराचितस्तेन राक्षसो रणमूर्धनि |
२० क
सञ्जय़ उवाच:
व्यकाशत महाराज श्वाविच्छललितो यथा ||
२० ख
सञ्जय़ उवाच:
ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान् |
२१ क
सञ्जय़ उवाच:
शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिस्वनैः ||
२१ ख
सञ्जय़ उवाच:
क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः |
२२ क
सञ्जय़ उवाच:
वराहकर्णैर्नालीकैस्तीक्ष्णैश्चापि विकर्णिभिः ||
२२ ख
सञ्जय़ उवाच:
तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम् |
२३ क
सञ्जय़ उवाच:
पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रिय़ः ||
२३ ख
सञ्जय़ उवाच:
सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः |
२४ क
सञ्जय़ उवाच:
व्यधमत्स महातेजा महाभ्राणीव मारुतः ||
२४ ख
सञ्जय़ उवाच:
ततोऽन्तरिक्षे वाणानां सङ्ग्रामोऽन्य इवाभवत् |
२५ क
सञ्जय़ उवाच:
घोररूपो महाराज योधानां हर्षवर्धनः ||
२५ ख
सञ्जय़ उवाच:
ततोऽस्त्रसङ्घर्षकृतैर्विस्फुलिङ्गैः समन्ततः |
२६ क
सञ्जय़ उवाच:
वभौ निशामुखे व्योम खद्योतैरिव संवृतम् ||
२६ ख
सञ्जय़ उवाच:
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः |
२७ क
सञ्जय़ उवाच:
प्रिय़ार्थं तव पुत्राणां राक्षसं समवाकिरत् ||
२७ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं द्रौणिराक्षसय़ोर्मृधे |
२८ क
सञ्जय़ उवाच:
विगाढे रजनीमध्ये शक्रप्रह्रादय़ोरिव ||
२८ ख
सञ्जय़ उवाच:
ततो घटोत्कचो वाणैर्दशभिर्द्रौणिमाहवे |
२९ क
सञ्जय़ उवाच:
जघानोरसि सङ्क्रुद्धः कालज्वलनसंनिभैः ||
२९ ख
सञ्जय़ उवाच:
स तैरभ्याय़तैर्विद्धो राक्षसेन महावलः |
३० क
सञ्जय़ उवाच:
चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः |
३० ख
सञ्जय़ उवाच:
स मोहमनुसम्प्राप्तो ध्वजय़ष्टिं समाश्रितः ||
३० ग
सञ्जय़ उवाच:
ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप |
३१ क
सञ्जय़ उवाच:
हतं स्म मेनिरे सर्वे तावकास्तं विशां पते ||
३१ ख
सञ्जय़ उवाच:
तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे |
३२ क
सञ्जय़ उवाच:
पाञ्चालाः सृञ्जय़ाश्चैव सिंहनादं प्रचक्रिरे ||
३२ ख
सञ्जय़ उवाच:
प्रतिलभ्य ततः सञ्ज्ञामश्वत्थामा महावलः |
३३ क
सञ्जय़ उवाच:
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ||
३३ ख
सञ्जय़ उवाच:
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् |
३४ क
सञ्जय़ उवाच:
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ||
३४ ख
सञ्जय़ उवाच:
स भित्त्वा हृदय़ं तस्य राक्षसस्य शरोत्तमः |
३५ क
सञ्जय़ उवाच:
विवेश वसुधामुग्रः सुपुङ्खः पृथिवीपते ||
३५ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् |
३६ क
सञ्जय़ उवाच:
राक्षसेन्द्रः सुवलवान्द्रौणिना रणमानिना ||
३६ ख
सञ्जय़ उवाच:
दृष्ट्वा विमूढं हैडिम्वं सारथिस्तं रणाजिरात् |
३७ क
सञ्जय़ उवाच:
द्रौणेः सकाशात्सम्भ्रान्तस्त्वपनिन्ये त्वरान्वितः ||
३७ ख
सञ्जय़ उवाच:
तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् |
३८ क
सञ्जय़ उवाच:
ननाद सुमहानादं द्रोणपुत्रो महावलः ||
३८ ख
सञ्जय़ उवाच:
पूजितस्तव पुत्रैश्च सर्वय़ोधैश्च भारत |
३९ क
सञ्जय़ उवाच:
वपुषा प्रतिजज्वाल मध्याह्न इव भास्करः ||
३९ ख
सञ्जय़ उवाच:
भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति |
४० क
सञ्जय़ उवाच:
स्वय़ं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः ||
४० ख
सञ्जय़ उवाच:
तं भीमसेनो नवभिः शरैर्विव्याध मारिष |
४१ क
सञ्जय़ उवाच:
दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत ||
४१ ख
सञ्जय़ उवाच:
तौ साय़कैरवच्छन्नावदृश्येतां रणाजिरे |
४२ क
सञ्जय़ उवाच:
मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ ||
४२ ख
सञ्जय़ उवाच:
अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः |
४३ क
सञ्जय़ उवाच:
पञ्चभिर्भरतश्रेष्ठ तिष्ठ तिष्ठेति चाव्रवीत् ||
४३ ख
सञ्जय़ उवाच:
तस्य भीमो धनुश्छित्त्वा ध्वजं च नवभिः शरैः |
४४ क
सञ्जय़ उवाच:
विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम् ||
४४ ख
सञ्जय़ उवाच:
ततो दुर्योधनः क्रुद्धो भीमसेनस्य मारिष |
४५ क
सञ्जय़ उवाच:
चिक्षेप स शरान्राजन्पश्यतां सर्वधन्विनाम् ||
४५ ख
सञ्जय़ उवाच:
तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान् |
४६ क
सञ्जय़ उवाच:
कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पय़त् ||
४६ ख
सञ्जय़ उवाच:
दुर्योधनस्तु सङ्क्रुद्धो भीमसेनस्य मारिष |
४७ क
सञ्जय़ उवाच:
क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत ||
४७ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ भीमसेनो महावलः |
४८ क
सञ्जय़ उवाच:
विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः ||
४८ ख
सञ्जय़ उवाच:
तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् |
४९ क