वैशम्पाय़न उवाच:
प्रवुद्धास्ते हिडिम्वाय़ा रूपं दृष्ट्वातिमानुषम् |
१ क
वैशम्पाय़न उवाच:
विस्मिताः पुरुषव्याघ्रा वभूवुः पृथय़ा सह ||
१ ख
वैशम्पाय़न उवाच:
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा |
२ क
वैशम्पाय़न उवाच:
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ||
२ ख
वैशम्पाय़न उवाच:
कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि |
३ क
वैशम्पाय़न उवाच:
केन कार्येण सुश्रोणि कुतश्चागमनं तव ||
३ ख
वैशम्पाय़न उवाच:
यदि वास्य वनस्यासि देवता यदि वाप्सराः |
४ क
वैशम्पाय़न उवाच:
आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ||
४ ख
हिडिम्वो उवाच:
यदेतत्पश्यसि वनं नीलमेघनिभं महत् |
५ क
हिडिम्वो उवाच:
निवासो राक्षसस्यैतद्धिडिम्वस्य ममैव च ||
५ ख
हिडिम्वो उवाच:
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि |
६ क
हिडिम्वो उवाच:
भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता ||
६ ख
हिडिम्वो उवाच:
क्रूरवुद्धेरहं तस्य वचनादागता इह |
७ क
हिडिम्वो उवाच:
अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ||
७ ख
हिडिम्वो उवाच:
ततोऽहं सर्वभूतानां भावे विचरता शुभे |
८ क
हिडिम्वो उवाच:
चोदिता तव पुत्रस्य मन्मथेन वशानुगा ||
८ ख
हिडिम्वो उवाच:
ततो वृतो मय़ा भर्ता तव पुत्रो महावलः |
९ क
हिडिम्वो उवाच:
अपनेतुं च यतितो न चैव शकितो मय़ा ||
९ ख
हिडिम्वो उवाच:
चिराय़माणां मां ज्ञात्वा ततः स पुरुषादकः |
१० क
हिडिम्वो उवाच:
स्वय़मेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ||
१० ख
हिडिम्वो उवाच:
स तेन मम कान्तेन तव पुत्रेण धीमता |
११ क
हिडिम्वो उवाच:
वलादितो विनिष्पिष्य व्यपकृष्टो महात्मना ||
११ ख
हिडिम्वो उवाच:
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् |
१२ क
हिडिम्वो उवाच:
पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ ||
१२ ख
वैशम्पाय़न उवाच:
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः |
१३ क
वैशम्पाय़न उवाच:
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ||
१३ ख
वैशम्पाय़न उवाच:
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् |
१४ क
वैशम्पाय़न उवाच:
काङ्क्षमाणौ जय़ं चैव सिंहाविव रणोत्कटौ ||
१४ ख
वैशम्पाय़न उवाच:
तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् |
१५ क
वैशम्पाय़न उवाच:
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ||
१५ ख
वैशम्पाय़न उवाच:
वसुधारेणुसंवीतौ वसुधाधरसंनिभौ |
१६ क
वैशम्पाय़न उवाच:
विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ||
१६ ख
वैशम्पाय़न उवाच:
राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु |
१७ क
वैशम्पाय़न उवाच:
उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव ||
१७ ख
वैशम्पाय़न उवाच:
भीम मा भैर्महावाहो न त्वां वुध्यामहे वय़म् |
१८ क
वैशम्पाय़न उवाच:
समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः ||
१८ ख
वैशम्पाय़न उवाच:
साहाय़्येऽस्मि स्थितः पार्थ योधय़िष्यामि राक्षसम् |
१९ क
वैशम्पाय़न उवाच:
नकुलः सहदेवश्च मातरं गोपय़िष्यतः ||
१९ ख
भीम उवाच:
उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वय़ा |
२० क
भीम उवाच:
न जात्वय़ं पुनर्जीवेन्मद्वाह्वन्तरमागतः ||
२० ख
अर्जुन उवाच:
किमनेन चिरं भीम जीवता पापरक्षसा |
२१ क
अर्जुन उवाच:
गन्तव्यं न चिरं स्थातुमिह शक्यमरिन्दम ||
२१ ख
अर्जुन उवाच:
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते |
२२ क
अर्जुन उवाच:
रौद्रे मुहूर्ते रक्षांसि प्रवलानि भवन्ति च ||
२२ ख
अर्जुन उवाच:
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् |
२३ क
अर्जुन उवाच:
पुरा विकुरुते माय़ां भुजय़ोः सारमर्पय़ ||
२३ ख
वैशम्पाय़न उवाच:
अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः |
२४ क
वैशम्पाय़न उवाच:
उत्क्षिप्याभ्रामय़द्देहं तूर्णं गुणशताधिकम् ||
२४ ख
भीम उवाच:
वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः |
२५ क
भीम उवाच:
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ||
२५ ख
अर्जुन उवाच:
अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि |
२६ क
अर्जुन उवाच:
करोमि तव साहाय़्यं शीघ्रमेव निहन्यताम् ||
२६ ख
अर्जुन उवाच:
अथ वाप्यहमेवैनं हनिष्यामि वृकोदर |
२७ क
अर्जुन उवाच:
कृतकर्मा परिश्रान्तः साधु तावदुपारम ||
२७ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः |
२८ क
वैशम्पाय़न उवाच:
निष्पिष्यैनं वलाद्भूमौ पशुमारममारय़त् ||
२८ ख
वैशम्पाय़न उवाच:
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् |
२९ क
वैशम्पाय़न उवाच:
पूरय़ंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः ||
२९ ख
वैशम्पाय़न उवाच:
भुजाभ्यां योक्त्रय़ित्वा तं वलवान्पाण्डुनन्दनः |
३० क
वैशम्पाय़न उवाच:
मध्ये भङ्क्त्वा स वलवान्हर्षय़ामास पाण्डवान् ||
३० ख
वैशम्पाय़न उवाच:
हिडिम्वं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः |
३१ क
वैशम्पाय़न उवाच:
अपूजय़न्नरव्याघ्रं भीमसेनमरिन्दमम् ||
३१ ख
वैशम्पाय़न उवाच:
अभिपूज्य महात्मानं भीमं भीमपराक्रमम् |
३२ क
वैशम्पाय़न उवाच:
पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ||
३२ ख
वैशम्पाय़न उवाच:
नदूरे नगरं मन्ये वनादस्मादहं प्रभो |
३३ क
वैशम्पाय़न उवाच:
शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुय़ोधनः ||
३३ ख
वैशम्पाय़न उवाच:
ततः सर्वे तथेत्युक्त्वा सह मात्रा परन्तपाः |
३४ क
वैशम्पाय़न उवाच:
प्रय़युः पुरुषव्याघ्रा हिडिम्वा चैव राक्षसी ||
३४ ख