युधिष्ठिर उवाच:
भीमसेन यमौ चोभौ पाञ्चालि च निवोधत |
१ क
युधिष्ठिर उवाच:
नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् ||
१ ख
युधिष्ठिर उवाच:
दुर्वलाः क्लेशिताः स्मेति यद्व्रवीथेतरेतरम् |
२ क
युधिष्ठिर उवाच:
अशक्येऽपि व्रजामेति धनञ्जय़दिदृक्षय़ा ||
२ ख
युधिष्ठिर उवाच:
तन्मे दहति गात्राणि तूलराशिमिवानलः |
३ क
युधिष्ठिर उवाच:
यच्च वीरं न पश्यामि धनञ्जय़मुपान्तिके ||
३ ख
युधिष्ठिर उवाच:
तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम् |
४ क
युधिष्ठिर उवाच:
याज्ञसेन्याः परामर्शः स च वीर दहत्युत ||
४ ख
युधिष्ठिर उवाच:
नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् |
५ क
युधिष्ठिर उवाच:
अजेय़मुग्रधन्वानं तेन तप्ये वृकोदर ||
५ ख
युधिष्ठिर उवाच:
तीर्थानि चैव रम्याणि वनानि च सरांसि च |
६ क
युधिष्ठिर उवाच:
चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षय़ा ||
६ ख
युधिष्ठिर उवाच:
पञ्च वर्षाण्यहं वीरं सत्यसन्धं धनञ्जय़म् |
७ क
युधिष्ठिर उवाच:
यन्न पश्यामि वीभत्सुं तेन तप्ये वृकोदर ||
७ ख
युधिष्ठिर उवाच:
तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् |
८ क
युधिष्ठिर उवाच:
न पश्यामि महावाहुं तेन तप्ये वृकोदर ||
८ ख
युधिष्ठिर उवाच:
कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम् |
९ क
युधिष्ठिर उवाच:
न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर ||
९ ख
युधिष्ठिर उवाच:
चरन्तमरिसङ्घेषु कालं क्रुद्धमिवान्तकम् |
१० क
युधिष्ठिर उवाच:
प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनञ्जय़म् ||
१० ख
युधिष्ठिर उवाच:
यः स शक्रादनवरो वीर्येण द्रविणेन च |
११ क
युधिष्ठिर उवाच:
यमय़ोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः ||
११ ख
युधिष्ठिर उवाच:
दुःखेन महताविष्टः स्वकृतेनानिवर्तिना |
१२ क
युधिष्ठिर उवाच:
अजेय़मुग्रधन्वानं तं न पश्यामि फल्गुनम् ||
१२ ख
युधिष्ठिर उवाच:
सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीय़सा |
१३ क
युधिष्ठिर उवाच:
ऋजुमार्गप्रपन्नस्य शर्मदाताभय़स्य च ||
१३ ख
युधिष्ठिर उवाच:
स तु जिह्मप्रवृत्तस्य माय़याभिजिघांसतः |
१४ क
युधिष्ठिर उवाच:
अपि वज्रधरस्यापि भवेत्कालविषोपमः ||
१४ ख
युधिष्ठिर उवाच:
शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् |
१५ क
युधिष्ठिर उवाच:
दाताभय़स्य वीभत्सुरमितात्मा महावलः ||
१५ ख
युधिष्ठिर उवाच:
सर्वेषामाश्रय़ोऽस्माकं रणेऽरीणां प्रमर्दिता |
१६ क
युधिष्ठिर उवाच:
आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः ||
१६ ख
युधिष्ठिर उवाच:
रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम |
१७ क
युधिष्ठिर उवाच:
वहूनि वहुजातानि यानि प्राप्तः सुय़ोधनः ||
१७ ख
युधिष्ठिर उवाच:
यस्य वाहुवलाद्वीर सभा चासीत्पुरा मम |
१८ क
युधिष्ठिर उवाच:
सर्वरत्नमय़ी ख्याता त्रिषु लोकेषु पाण्डव ||
१८ ख
युधिष्ठिर उवाच:
वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि |
१९ क
युधिष्ठिर उवाच:
अजेय़मजितं युद्धे तं न पश्यामि फल्गुनम् ||
१९ ख
युधिष्ठिर उवाच:
सङ्कर्षणं महावीर्यं त्वां च भीमापराजितम् |
२० क
युधिष्ठिर उवाच:
अनुजातः स वीर्येण वासुदेवं च शत्रुहा ||
२० ख
युधिष्ठिर उवाच:
यस्य वाहुवले तुल्यः प्रभावे च पुरन्दरः |
२१ क
युधिष्ठिर उवाच:
जवे वाय़ुर्मुखे सोमः क्रोधे मृत्युः सनातनः ||
२१ ख
युधिष्ठिर उवाच:
ते वय़ं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः |
२२ क
युधिष्ठिर उवाच:
प्रवेक्ष्यामो महावाहो पर्वतं गन्धमादनम् ||
२२ ख
युधिष्ठिर उवाच:
विशाला वदरी यत्र नरनाराय़णाश्रमः |
२३ क
युधिष्ठिर उवाच:
तं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम् ||
२३ ख
युधिष्ठिर उवाच:
कुवेरनलिनीं रम्यां राक्षसैरभिरक्षिताम् |
२४ क
युधिष्ठिर उवाच:
पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः ||
२४ ख
युधिष्ठिर उवाच:
नातप्ततपसा शक्यो देशो गन्तुं वृकोदर |
२५ क
युधिष्ठिर उवाच:
न नृशंसेन लुव्धेन नाप्रशान्तेन भारत ||
२५ ख
युधिष्ठिर उवाच:
तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः |
२६ क
युधिष्ठिर उवाच:
साय़ुधा वद्धनिस्त्रिंशाः सह विप्रैर्महाव्रतैः ||
२६ ख
युधिष्ठिर उवाच:
मक्षिकान्मशकान्दंशान्व्याघ्रान्सिंहान्सरीसृपान् |
२७ क
युधिष्ठिर उवाच:
प्राप्नोत्यनिय़तः पार्थ निय़तस्तान्न पश्यति ||
२७ ख
युधिष्ठिर उवाच:
ते वय़ं निय़तात्मानः पर्वतं गन्धमादनम् |
२८ क
युधिष्ठिर उवाच:
प्रवेक्ष्यामो मिताहारा धनञ्जय़दिदृक्षवः ||
२८ ख