chevron_left उद्योग पर्व अध्याय १४२
वैशम्पाय़न उवाच:
असिद्धानुनय़े कृष्णे कुरुभ्यः पाण्डवान्गते |
१ क
वैशम्पाय़न उवाच:
अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
जानासि मे जीवपुत्रे भावं नित्यमनुग्रहे |
२ क
वैशम्पाय़न उवाच:
क्रोशतो न च गृह्णीते वचनं मे सुय़ोधनः ||
२ ख
वैशम्पाय़न उवाच:
उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकय़ैः |
३ क
वैशम्पाय़न उवाच:
भीमार्जुनाभ्यां कृष्णेन युय़ुधानय़मैरपि ||
३ ख
वैशम्पाय़न उवाच:
उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः |
४ क
वैशम्पाय़न उवाच:
काङ्क्षते ज्ञातिसौहार्दाद्वलवान्दुर्वलो यथा ||
४ ख
वैशम्पाय़न उवाच:
राजा तु धृतराष्ट्रोऽय़ं वय़ोवृद्धो न शाम्यति |
५ क
वैशम्पाय़न उवाच:
मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते ||
५ ख
वैशम्पाय़न उवाच:
जय़द्रथस्य कर्णस्य तथा दुःशासनस्य च |
६ क
वैशम्पाय़न उवाच:
सौवलस्य च दुर्वुद्ध्या मिथोभेदः प्रवर्तते ||
६ ख
वैशम्पाय़न उवाच:
अधर्मेण हि धर्मिष्ठं हृतं वै राज्यमीदृशम् |
७ क
वैशम्पाय़न उवाच:
येषां तेषामय़ं धर्मः सानुवन्धो भविष्यति ||
७ ख
वैशम्पाय़न उवाच:
ह्रिय़माणे वलाद्धर्मे कुरुभिः को न सञ्ज्वरेत् |
८ क
वैशम्पाय़न उवाच:
असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः ||
८ ख
वैशम्पाय़न उवाच:
ततः कुरूणामनय़ो भविता वीरनाशनः |
९ क
वैशम्पाय़न उवाच:
चिन्तय़न्न लभे निद्रामहःसु च निशासु च ||
९ ख
वैशम्पाय़न उवाच:
श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् |
१० क
वैशम्पाय़न उवाच:
अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह ||
१० ख
वैशम्पाय़न उवाच:
धिगस्त्वर्थं यत्कृतेऽय़ं महाञ्ज्ञातिवधे क्षय़ः |
११ क
वैशम्पाय़न उवाच:
वर्त्स्यते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः ||
११ ख
वैशम्पाय़न उवाच:
पाण्डवाश्चेदिपाञ्चाला यादवाश्च समागताः |
१२ क
वैशम्पाय़न उवाच:
भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम् ||
१२ ख
वैशम्पाय़न उवाच:
पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम् |
१३ क
वैशम्पाय़न उवाच:
अधनस्य मृतं श्रेय़ो न हि ज्ञातिक्षय़े जय़ः ||
१३ ख
वैशम्पाय़न उवाच:
पितामहः शान्तनव आचार्यश्च युधां पतिः |
१४ क
वैशम्पाय़न उवाच:
कर्णश्च धार्तराष्ट्रार्थं वर्धय़न्ति भय़ं मम ||
१४ ख
वैशम्पाय़न उवाच:
नाचार्यः कामवाञ्शिष्यैर्द्रोणो युध्येत जातु चित् |
१५ क
वैशम्पाय़न उवाच:
पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः ||
१५ ख
वैशम्पाय़न उवाच:
अय़ं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः |
१६ क
वैशम्पाय़न उवाच:
मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् ||
१६ ख
वैशम्पाय़न उवाच:
महत्यनर्थे निर्वन्धी वलवांश्च विशेषतः |
१७ क
वैशम्पाय़न उवाच:
कर्णः सदा पाण्डवानां तन्मे दहति साम्प्रतम् ||
१७ ख
वैशम्पाय़न उवाच:
आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति |
१८ क
वैशम्पाय़न उवाच:
प्रसादय़ितुमासाद्य दर्शय़न्ती यथातथम् ||
१८ ख
वैशम्पाय़न उवाच:
तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ |
१९ क
वैशम्पाय़न उवाच:
आह्वानं देवसंय़ुक्तं वसन्त्याः पितृवेश्मनि ||
१९ ख
वैशम्पाय़न उवाच:
साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता |
२० क
वैशम्पाय़न उवाच:
चिन्तय़न्ती वहुविधं हृदय़ेन विदूय़ता ||
२० ख
वैशम्पाय़न उवाच:
वलावलं च मन्त्राणां व्राह्मणस्य च वाग्वलम् |
२१ क
वैशम्पाय़न उवाच:
स्त्रीभावाद्वालभावाच्च चिन्तय़न्ती पुनः पुनः ||
२१ ख
वैशम्पाय़न उवाच:
धात्र्या विश्रव्धय़ा गुप्ता सखीजनवृता तदा |
२२ क
वैशम्पाय़न उवाच:
दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी ||
२२ ख
वैशम्पाय़न उवाच:
कथं नु सुकृतं मे स्यान्नापराधवती कथम् |
२३ क
वैशम्पाय़न उवाच:
भवेय़मिति सञ्चिन्त्य व्राह्मणं तं नमस्य च ||
२३ ख
वैशम्पाय़न उवाच:
कौतूहलात्तु तं लव्ध्वा वालिश्यादाचरं तदा |
२४ क
वैशम्पाय़न उवाच:
कन्या सती देवमर्कमासादय़महं ततः ||
२४ ख
वैशम्पाय़न उवाच:
योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः |
२५ क
वैशम्पाय़न उवाच:
कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा ||
२५ ख
वैशम्पाय़न उवाच:
इति कुन्ती विनिश्चित्य कार्यं निश्चितमुत्तमम् |
२६ क
वैशम्पाय़न उवाच:
कार्यार्थमभिनिर्याय़ यय़ौ भागीरथीं प्रति ||
२६ ख
वैशम्पाय़न उवाच:
आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः |
२७ क
वैशम्पाय़न उवाच:
गङ्गातीरे पृथाशृण्वदुपाध्ययननिस्वनम् ||
२७ ख
वैशम्पाय़न उवाच:
प्राङ्मुखस्योर्ध्ववाहोः सा पर्यतिष्ठत पृष्ठतः |
२८ क
वैशम्पाय़न उवाच:
जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी ||
२८ ख
वैशम्पाय़न उवाच:
अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि |
२९ क
वैशम्पाय़न उवाच:
कौरव्यपत्नी वार्ष्णेय़ी पद्ममालेव शुष्यती ||
२९ ख
वैशम्पाय़न उवाच:
आ पृष्ठतापाज्जप्त्वा स परिवृत्य यतव्रतः |
३० क
वैशम्पाय़न उवाच:
दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः |
३० ख
वैशम्पाय़न उवाच:
यथान्याय़ं महातेजा मानी धर्मभृतां वरः ||
३० ग