सञ्जय़ उवाच:
सहदेवमथाय़ान्तं द्रोणप्रेप्सुं विशां पते |
१ क
सञ्जय़ उवाच:
कर्णो वैकर्तनो युद्धे वारय़ामास भारत ||
१ ख
सञ्जय़ उवाच:
सहदेवस्तु राधेय़ं विद्ध्वा नवभिराशुगैः |
२ क
सञ्जय़ उवाच:
पुनर्विव्याध दशभिर्निशितैर्नतपर्वभिः ||
२ ख
सञ्जय़ उवाच:
तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् |
३ क
सञ्जय़ उवाच:
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् ||
३ ख
सञ्जय़ उवाच:
ततोऽन्यद्धनुरादाय़ माद्रीपुत्रः प्रतापवान् |
४ क
सञ्जय़ उवाच:
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् ||
४ ख
सञ्जय़ उवाच:
तस्य कर्णो हय़ान्हत्वा शरैः संनतपर्वभिः |
५ क
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षय़म् ||
५ ख
सञ्जय़ उवाच:
विरथः सहदेवस्तु खड्गं चर्म समाददे |
६ क
सञ्जय़ उवाच:
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव ||
६ ख
सञ्जय़ उवाच:
ततो गुर्वीं महाघोरां हेमचित्रां महागदाम् |
७ क
सञ्जय़ उवाच:
प्रेषय़ामास समरे वैकर्तनरथं प्रति ||
७ ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा सहदेवप्रवेरिताम् |
८ क
सञ्जय़ उवाच:
व्यष्टम्भय़च्छरैः कर्णो भूमौ चैनामपातय़त् ||
८ ख
सञ्जय़ उवाच:
गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः |
९ क
सञ्जय़ उवाच:
शक्तिं चिक्षेप कर्णाय़ तामप्यस्याच्छिनच्छरैः ||
९ ख
सञ्जय़ उवाच:
ससम्भ्रमस्ततस्तूर्णमवप्लुत्य रथोत्तमात् |
१० क
सञ्जय़ उवाच:
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् |
१० ख
सञ्जय़ उवाच:
रथचक्रं ततो गृह्य मुमोचाधिरथिं प्रति ||
१० ग
सञ्जय़ उवाच:
तमापतन्तं सहसा कालचक्रमिवोद्यतम् |
११ क
सञ्जय़ उवाच:
शरैरनेकसाहस्रैरच्छिनत्सूतनन्दनः ||
११ ख
सञ्जय़ उवाच:
तस्मिंस्तु वितथे चक्रे कृते तेन महात्मना |
१२ क
सञ्जय़ उवाच:
वार्यमाणश्च विशिखैः सहदेवो रणं जहौ ||
१२ ख
सञ्जय़ उवाच:
तमभिद्रुत्य राधेय़ो मुहूर्ताद्भरतर्षभ |
१३ क
सञ्जय़ उवाच:
अव्रवीत्प्रहसन्वाक्यं सहदेवं विशां पते ||
१३ ख
सञ्जय़ उवाच:
मा युध्यस्व रणे वीर विशिष्टै रथिभिः सह |
१४ क
सञ्जय़ उवाच:
सदृशैर्युध्य माद्रेय़ वचो मे मा विशङ्किथाः ||
१४ ख
सञ्जय़ उवाच:
अथैनं धनुषोऽग्रेण तुदन्भूय़ोऽव्रवीद्वचः |
१५ क
सञ्जय़ उवाच:
एषोऽर्जुनो रणे यत्तो युध्यते कुरुभिः सह |
१५ ख
सञ्जय़ उवाच:
तत्र गच्छस्व माद्रेय़ गृहं वा यदि मन्यसे ||
१५ ग
सञ्जय़ उवाच:
एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः |
१६ क
सञ्जय़ उवाच:
प्राय़ात्पाञ्चालपाण्डूनां सैन्यानि प्रहसन्निव ||
१६ ख
सञ्जय़ उवाच:
वधप्राप्तं तु माद्रेय़ं नावधीत्समरेऽरिहा |
१७ क
सञ्जय़ उवाच:
कुन्त्याः स्मृत्वा वचो राजन्सत्यसन्धो महारथः ||
१७ ख
सञ्जय़ उवाच:
सहदेवस्ततो राजन्विमनाः शरपीडितः |
१८ क
सञ्जय़ उवाच:
कर्णवाक्षल्यतप्तश्च जीवितान्निरविद्यत ||
१८ ख
सञ्जय़ उवाच:
आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः |
१९ क
सञ्जय़ उवाच:
जनमेजय़स्य समरे त्वराय़ुक्तो महारथः ||
१९ ख
सञ्जय़ उवाच:
विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् |
२० क
सञ्जय़ उवाच:
मद्रराजः शरौघेण छादय़ामास धन्विनम् ||
२० ख
सञ्जय़ उवाच:
तय़ोः समभवद्युद्धं समरे दृढधन्विनोः |
२१ क
सञ्जय़ उवाच:
यादृशं ह्यभवद्राजञ्जम्भवासवय़ोः पुरा ||
२१ ख
सञ्जय़ उवाच:
मद्रराजो महाराज विराटं वाहिनीपतिम् |
२२ क
सञ्जय़ उवाच:
आजघ्ने त्वरितं तीक्ष्णैः शतेन नतपर्वणाम् ||
२२ ख
सञ्जय़ उवाच:
प्रतिविव्याध तं राजा नवभिर्निशितैः शरैः |
२३ क
सञ्जय़ उवाच:
पुनश्चैव त्रिसप्तत्या भूय़श्चैव शतेन ह ||
२३ ख
सञ्जय़ उवाच:
तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः |
२४ क
सञ्जय़ उवाच:
सूतं ध्वजं च समरे रथोपस्थादपातय़त् ||
२४ ख
सञ्जय़ उवाच:
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः |
२५ क
सञ्जय़ उवाच:
तस्थौ विस्फारय़ंश्चापं विमुञ्चंश्च शिताञ्शरान् ||
२५ ख
सञ्जय़ उवाच:
शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् |
२६ क
सञ्जय़ उवाच:
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः ||
२६ ख
सञ्जय़ उवाच:
शतानीकमथाय़ान्तं मद्रराजो महामृधे |
२७ क
सञ्जय़ उवाच:
विशिखैर्वहुभिर्विद्ध्वा ततो निन्ये यमक्षय़म् ||
२७ ख
सञ्जय़ उवाच:
तस्मिंस्तु निहते वीरे विराटो रथसत्तमः |
२८ क
सञ्जय़ उवाच:
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् ||
२८ ख
सञ्जय़ उवाच:
ततो विस्फार्य नय़ने क्रोधाद्द्विगुणविक्रमः |
२९ क
सञ्जय़ उवाच:
मद्रराजरथं तूर्णं छादय़ामास पत्रिभिः ||
२९ ख
सञ्जय़ उवाच:
ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम् |
३० क
सञ्जय़ उवाच:
आजघानोरसि दृढं विराटं वाहिनीपतिम् ||
३० ख
सञ्जय़ उवाच:
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् |
३१ क
सञ्जय़ उवाच:
कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ |
३१ ख
सञ्जय़ उवाच:
सारथिस्तमपोवाह समरे शरविक्षतम् ||
३१ ग
सञ्जय़ उवाच:
ततः सा महती सेना प्राद्रवन्निशि भारत |
३२ क
सञ्जय़ उवाच:
वध्यमाना शरशतैः शल्येनाहवशोभिना ||
३२ ख
सञ्जय़ उवाच:
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जय़ौ |
३३ क
सञ्जय़ उवाच:
प्राय़ातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ||
३३ ख
सञ्जय़ उवाच:
तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलम्वुसः |
३४ क
सञ्जय़ उवाच:
अष्टचक्रसमाय़ुक्तमास्थाय़ प्रवरं रथम् ||
३४ ख
सञ्जय़ उवाच:
तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः |
३५ क
सञ्जय़ उवाच:
लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् |
३५ ख
सञ्जय़ उवाच:
कार्ष्णाय़समय़ं घोरमृक्षचर्मावृतं महत् ||
३५ ग
सञ्जय़ उवाच:
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता |
३६ क
सञ्जय़ उवाच:
ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ||
३६ ख
सञ्जय़ उवाच:
स वभौ राक्षसो राजन्भिन्नाञ्जनचय़ोपमः |
३७ क
सञ्जय़ उवाच:
रुरोधार्जुनमाय़ान्तं प्रभञ्जनमिवाद्रिराट् |
३७ ख
सञ्जय़ उवाच:
किरन्वाणगणान्राजञ्शतशोऽर्जुनमूर्धनि ||
३७ ग
सञ्जय़ उवाच:
अतितीव्रमभूद्युद्धं नरराक्षसय़ोर्मृधे |
३८ क
सञ्जय़ उवाच:
द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ ||
३८ ख
सञ्जय़ उवाच:
तमर्जुनः शतेनैव पत्रिणामभ्यताडय़त् |
३९ क
सञ्जय़ उवाच:
नवभिश्च शितैर्वाणैश्चिच्छेद ध्वजमुच्छ्रितम् ||
३९ ख
सञ्जय़ उवाच:
सारथिं च त्रिभिर्वाणैस्त्रिभिरेव त्रिवेणुकम् |
४० क
सञ्जय़ उवाच:
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हय़ान् |
४० ख
सञ्जय़ उवाच:
विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् ||
४० ग
सञ्जय़ उवाच:
अथैनं निशितैर्वाणैश्चतुर्भिर्भरतर्षभ |
४१ क
सञ्जय़ उवाच:
पार्थोऽर्दय़द्राक्षसेन्द्रं स विद्धः प्राद्रवद्भय़ात् ||
४१ ख
सञ्जय़ उवाच:
तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाय़यौ |
४२ क
सञ्जय़ उवाच:
किरञ्शरगणान्राजन्नरवारणवाजिषु ||
४२ ख
सञ्जय़ उवाच:
वध्यमाना महाराज पाण्डवेन यशस्विना |
४३ क
सञ्जय़ उवाच:
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः ||
४३ ख
सञ्जय़ उवाच:
तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना |
४४ क
सञ्जय़ उवाच:
सम्प्राद्रवद्वलं सर्वं पुत्राणां ते विशां पते ||
४४ ख