chevron_left आदि पर्व अध्याय १४३
भीम उवाच:
स्मरन्ति वैरं रक्षांसि माय़ामाश्रित्य मोहिनीम् |
१ क
भीम उवाच:
हिडिम्वे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ||
१ ख
युधिष्ठिर उवाच:
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रिय़ं वधीः |
२ क
युधिष्ठिर उवाच:
शरीरगुप्त्याभ्यधिकं धर्मं गोपय़ पाण्डव ||
२ ख
युधिष्ठिर उवाच:
वधाभिप्राय़माय़ान्तमवधीस्त्वं महावलम् |
३ क
युधिष्ठिर उवाच:
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ||
३ ख
वैशम्पाय़न उवाच:
हिडिम्वा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः |
४ क
वैशम्पाय़न उवाच:
युधिष्ठिरं च कौन्तेय़मिदं वचनमव्रवीत् ||
४ ख
वैशम्पाय़न उवाच:
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् |
५ क
वैशम्पाय़न उवाच:
तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ||
५ ख
वैशम्पाय़न उवाच:
सोढं तत्परमं दुःखं मय़ा कालप्रतीक्षय़ा |
६ क
वैशम्पाय़न उवाच:
सोऽय़मभ्यागतः कालो भविता मे सुखाय़ वै ||
६ ख
वैशम्पाय़न उवाच:
मय़ा ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा |
७ क
वैशम्पाय़न उवाच:
वृतोऽय़ं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ||
७ ख
वैशम्पाय़न उवाच:
वरेणापि तथानेन त्वय़ा चापि यशस्विनि |
८ क
वैशम्पाय़न उवाच:
तथा व्रुवन्ती हि तदा प्रत्याख्याता क्रिय़ां प्रति ||
८ ख
वैशम्पाय़न उवाच:
त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा |
९ क
वैशम्पाय़न उवाच:
भर्त्रानेन महाभागे संय़ोजय़ सुतेन ते ||
९ ख
वैशम्पाय़न उवाच:
तमुपादाय़ गच्छेय़ं यथेष्टं देवरूपिणम् |
१० क
वैशम्पाय़न उवाच:
पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ||
१० ख
वैशम्पाय़न उवाच:
अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा |
११ क
वैशम्पाय़न उवाच:
वृजिने तारय़िष्यामि दुर्गेषु च नरर्षभान् ||
११ ख
वैशम्पाय़न उवाच:
पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः |
१२ क
वैशम्पाय़न उवाच:
यूय़ं प्रसादं कुरुत भीमसेनो भजेत माम् ||
१२ ख
वैशम्पाय़न उवाच:
आपदस्तरणे प्राणान्धारय़ेद्येन येन हि |
१३ क
वैशम्पाय़न उवाच:
सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ||
१३ ख
वैशम्पाय़न उवाच:
आपत्सु यो धारय़ति ध्रमं धर्मविदुत्तमः |
१४ क
वैशम्पाय़न उवाच:
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ||
१४ ख
वैशम्पाय़न उवाच:
पुण्यं प्राणान्धारय़ति पुण्यं प्राणदमुच्यते |
१५ क
वैशम्पाय़न उवाच:
येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ||
१५ ख
युधिष्ठिर उवाच:
एवमेतद्यथात्थ त्वं हिडिम्वे नात्र संशय़ः |
१६ क
युधिष्ठिर उवाच:
स्थातव्यं तु त्वय़ा धर्मे यथा व्रूय़ां सुमध्यमे ||
१६ ख
युधिष्ठिर उवाच:
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् |
१७ क
युधिष्ठिर उवाच:
भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ||
१७ ख
युधिष्ठिर उवाच:
अहःसु विहरानेन यथाकामं मनोजवा |
१८ क
युधिष्ठिर उवाच:
अय़ं त्वानय़ितव्यस्ते भीमसेनः सदा निशि ||
१८ ख
वैशम्पाय़न उवाच:
तथेति तत्प्रतिज्ञाय़ हिडिम्वा राक्षसी तदा |
१९ क
वैशम्पाय़न उवाच:
भीमसेनमुपादाय़ ऊर्ध्वमाचक्रमे ततः ||
१९ ख
वैशम्पाय़न उवाच:
शैलशृङ्गेषु रम्येषु देवताय़तनेषु च |
२० क
वैशम्पाय़न उवाच:
मृगपक्षिविघुष्टेषु रमणीय़ेषु सर्वदा ||
२० ख
वैशम्पाय़न उवाच:
कृत्वा च परमं रूपं सर्वाभरणभूषिता |
२१ क
वैशम्पाय़न उवाच:
सञ्जल्पन्ती सुमधुरं रमय़ामास पाण्डवम् ||
२१ ख
वैशम्पाय़न उवाच:
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु |
२२ क
वैशम्पाय़न उवाच:
सरःसु रमणीय़ेषु पद्मोत्पलय़ुतेषु च ||
२२ ख
वैशम्पाय़न उवाच:
नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च |
२३ क
वैशम्पाय़न उवाच:
सुतीर्थवनतोय़ासु तथा गिरिनदीषु च ||
२३ ख
वैशम्पाय़न उवाच:
सगरस्य प्रदेशेषु मणिहेमचितेषु च |
२४ क
वैशम्पाय़न उवाच:
पत्तनेषु च रम्येषु महाशालवनेषु च ||
२४ ख
वैशम्पाय़न उवाच:
देवारण्येषु पुण्येषु तथा पर्वतसानुषु |
२५ क
वैशम्पाय़न उवाच:
गुह्यकानां निवासेषु तापसाय़तनेषु च ||
२५ ख
वैशम्पाय़न उवाच:
सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च |
२६ क
वैशम्पाय़न उवाच:
विभ्रती परमं रूपं रमय़ामास पाण्डवम् ||
२६ ख
वैशम्पाय़न उवाच:
रमय़न्ती तथा भीमं तत्र तत्र मनोजवा |
२७ क
वैशम्पाय़न उवाच:
प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महावलम् ||
२७ ख
वैशम्पाय़न उवाच:
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् |
२८ क
वैशम्पाय़न उवाच:
भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महावलम् ||
२८ ख
वैशम्पाय़न उवाच:
महेष्वासं महावीर्यं महासत्त्वं महाभुजम् |
२९ क
वैशम्पाय़न उवाच:
महाजवं महाकाय़ं महामाय़मरिन्दमम् ||
२९ ख
वैशम्पाय़न उवाच:
अमानुषं मानुषजं भीमवेगं महावलम् |
३० क
वैशम्पाय़न उवाच:
यः पिशाचानतीवान्यान्वभूवाति स मानुषान् ||
३० ख
वैशम्पाय़न उवाच:
वालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते |
३१ क
वैशम्पाय़न उवाच:
सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्वली ||
३१ ख
वैशम्पाय़न उवाच:
सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च |
३२ क
वैशम्पाय़न उवाच:
कामरूपधराश्चैव भवन्ति वहुरूपिणः ||
३२ ख
वैशम्पाय़न उवाच:
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा |
३३ क
वैशम्पाय़न उवाच:
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ||
३३ ख
वैशम्पाय़न उवाच:
घटभासोत्कच इति मातरं सोऽभ्यभाषत |
३४ क
वैशम्पाय़न उवाच:
अभवत्तेन नामास्य घटोत्कच इति स्म ह ||
३४ ख
वैशम्पाय़न उवाच:
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः |
३५ क
वैशम्पाय़न उवाच:
तेषां च दय़ितो नित्यमात्मभूतो वभूव सः ||
३५ ख
वैशम्पाय़न उवाच:
संवाससमय़ो जीर्ण इत्यभाषत तं ततः |
३६ क
वैशम्पाय़न उवाच:
हिडिम्वा समय़ं कृत्वा स्वां गतिं प्रत्यपद्यत ||
३६ ख
वैशम्पाय़न उवाच:
कृत्यकाल उपस्थास्ये पितृनिति घटोत्कचः |
३७ क
वैशम्पाय़न उवाच:
आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ||
३७ ख
वैशम्पाय़न उवाच:
स हि सृष्टो मघवता शक्तिहेतोर्महात्मना |
३८ क
वैशम्पाय़न उवाच:
कर्णस्याप्रतिवीर्यस्य विनाशाय़ महात्मनः ||
३८ ख