युधिष्ठिर उवाच:
व्राह्मणानर्चसे राजन्सततं संशितव्रतान् |
१ क
युधिष्ठिर उवाच:
कं तु कर्मोदय़ं दृष्ट्वा तानर्चसि नराधिप ||
१ ख
युधिष्ठिर उवाच:
कां वा व्राह्मणपूजाय़ां व्युष्टिं दृष्ट्वा महाव्रत |
२ क
युधिष्ठिर उवाच:
तानर्चसि महावाहो सर्वमेतद्वदस्व मे ||
२ ख
भीष्म उवाच:
एष ते केशवः सर्वमाख्यास्यति महामतिः |
३ क
भीष्म उवाच:
व्युष्टिं व्राह्मणपूजाय़ां दृष्टव्युष्टिर्महाव्रतः ||
३ ख
भीष्म उवाच:
वलं श्रोत्रे वाङ्मनश्चक्षुषी च; ज्ञानं तथा न विशुद्धं ममाद्य |
४ क
भीष्म उवाच:
देहन्यासो नातिचिरान्मतो मे; न चातितूर्णं सविताद्य याति ||
४ ख
भीष्म उवाच:
उक्ता धर्मा ये पुराणे महान्तो; व्राह्मणानां क्षत्रिय़ाणां विशां च |
५ क
भीष्म उवाच:
पौराणं ये दण्डमुपासते च; शेषं कृष्णादुपशिक्षस्व पार्थ ||
५ ख
भीष्म उवाच:
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं; योऽय़ं हि यच्चास्य वलं पुराणम् |
६ क
भीष्म उवाच:
अमेय़ात्मा केशवः कौरवेन्द्र; सोऽय़ं धर्मं वक्ष्यति संशय़ेषु ||
६ ख
भीष्म उवाच:
कृष्णः पृथ्वीमसृजत्खं दिवं च; वराहोऽय़ं भीमवलः पुराणः |
७ क
भीष्म उवाच:
अस्य चाधोऽथान्तरिक्षं दिवं च; दिशश्चतस्रः प्रदिशश्चतस्रः |
७ ख
भीष्म उवाच:
सृष्टिस्तथैवेय़मनुप्रसूता; स निर्ममे विश्वमिदं पुराणम् ||
७ ग
भीष्म उवाच:
अस्य नाभ्यां पुष्करं सम्प्रसूतं; यत्रोत्पन्नः स्वय़मेवामितौजाः |
८ क
भीष्म उवाच:
येनाच्छिन्नं तत्तमः पार्थ घोरं; यत्तत्तिष्ठत्यर्णवं तर्जय़ानम् ||
८ ख
भीष्म उवाच:
कृते युगे धर्म आसीत्समग्र; स्त्रेताकाले ज्ञानमनुप्रपन्नः |
९ क
भीष्म उवाच:
वलं त्वासीद्द्वापरे पार्थ कृष्णः; कलावधर्मः क्षितिमाजगाम ||
९ ख
भीष्म उवाच:
स पूर्वदेवो निजघान दैत्या; न्स पूर्वदेवश्च वभूव सम्राट् |
१० क
भीष्म उवाच:
स भूतानां भावनो भूतभव्यः; स विश्वस्यास्य जगतश्चापि गोप्ता ||
१० ख
भीष्म उवाच:
यदा धर्मो ग्लाय़ति वै सुराणां; तदा कृष्णो जाय़ते मानुषेषु |
११ क
भीष्म उवाच:
धर्मे स्थित्वा स तु वै भावितात्मा; परांश्च लोकानपरांश्च याति ||
११ ख
भीष्म उवाच:
त्याज्यांस्त्यक्त्वाथासुराणां वधाय़; कार्याकार्ये कारणं चैव पार्थ |
१२ क
भीष्म उवाच:
कृतं करिष्यत्क्रिय़ते च देवो; मुहुः सोमं विद्धि च शक्रमेतम् ||
१२ ख
भीष्म उवाच:
स विश्वकर्मा स च विश्वरूपः; स विश्वभृद्विश्वसृग्विश्वजिच्च |
१३ क
भीष्म उवाच:
स शूलभृच्छोणितभृत्कराल; स्तं कर्मभिर्विदितं वै स्तुवन्ति ||
१३ ख
भीष्म उवाच:
तं गन्धर्वा अप्सरसश्च नित्य; मुपतिष्ठन्ते विवुधानां शतानि |
१४ क
भीष्म उवाच:
तं राक्षसाश्च परिसंवहन्ते; राय़स्पोषः स विजिगीषुरेकः ||
१४ ख
भीष्म उवाच:
तमध्वरे शंसितारः स्तुवन्ति; रथन्तरे सामगाश्च स्तुवन्ति |
१५ क
भीष्म उवाच:
तं व्राह्मणा व्रह्ममन्त्रैः स्तुवन्ति; तस्मै हविरध्वर्यवः कल्पय़न्ति ||
१५ ख
भीष्म उवाच:
स पौराणीं व्रह्मगुहां प्रविष्टो; महीसत्रं भारताग्रे ददर्श |
१६ क
भीष्म उवाच:
स चैव गामुद्दधाराग्र्यकर्मा; विक्षोभ्य दैत्यानुरगान्दानवांश्च ||
१६ ख
भीष्म उवाच:
तस्य भक्षान्विविधान्वेदय़न्ति; तमेवाजौ वाहनं वेदय़न्ति |
१७ क
भीष्म उवाच:
तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य ||
१७ ख
भीष्म उवाच:
स कुम्भरेताः ससृजे पुराणं; यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् |
१८ क
भीष्म उवाच:
स मातरिश्वा विभुरश्ववाजी; स रश्मिमान्सविता चादिदेवः ||
१८ ख
भीष्म उवाच:
तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर्विजितानीह त्रीणि |
१९ क
भीष्म उवाच:
स देवानां मानुषाणां पितॄणां; तमेवाहुर्यज्ञविदां वितानम् ||
१९ ख
भीष्म उवाच:
स एव कालं विभजन्नुदेति; तस्योत्तरं दक्षिणं चाय़ने द्वे |
२० क
भीष्म उवाच:
तस्यैवोर्ध्वं तिर्यगधश्चरन्ति; गभस्तय़ो मेदिनीं तापय़न्तः ||
२० ख
भीष्म उवाच:
तं व्राह्मणा वेदविदो जुषन्ति; तस्यादित्यो भामुपय़ुज्य भाति |
२१ क
भीष्म उवाच:
स मासि मास्यध्वरकृद्विधत्ते; तमध्वरे वेदविदः पठन्ति ||
२१ ख
भीष्म उवाच:
स एकय़ुक्चक्रमिदं त्रिनाभि; सप्ताश्वय़ुक्तं वहते वै त्रिधामा |
२२ क
भीष्म उवाच:
महातेजाः सर्वगः सर्वसिंहः; कृष्णो लोकान्धारय़ते तथैकः |
२२ ख
भीष्म उवाच:
अश्नन्ननश्नंश्च तथैव धीरः; कृष्णं सदा पार्थ कर्तारमेहि ||
२२ ग
भीष्म उवाच:
स एकदा कक्षगतो महात्मा; तृप्तो विभुः खाण्डवे धूमकेतुः |
२३ क
भीष्म उवाच:
स राक्षसानुरगांश्चावजित्य; सर्वत्रगः सर्वमग्नौ जुहोति ||
२३ ख
भीष्म उवाच:
स एवाश्वः श्वेतमश्वं प्रय़च्छ; त्स एवाश्वानथ सर्वांश्चकार |
२४ क
भीष्म उवाच:
त्रिवन्धुरस्तस्य रथस्त्रिचक्र; स्त्रिवृच्छिराश्चतुरस्रश्च तस्य ||
२४ ख
भीष्म उवाच:
स विहाय़ो व्यदधात्पञ्चनाभिः; स निर्ममे गां दिवमन्तरिक्षम् |
२५ क
भीष्म उवाच:
एवं रम्यानसृजत्पर्वतांश्च; हृषीकेशोऽमितदीप्ताग्नितेजाः ||
२५ ख
भीष्म उवाच:
स लङ्घय़न्वै सरितो जिघांस; न्स तं वज्रं प्रहरन्तं निरास |
२६ क
भीष्म उवाच:
स महेन्द्रः स्तूय़ते वै महाध्वरे; विप्रैरेको ऋक्सहस्रैः पुराणैः ||
२६ ख
भीष्म उवाच:
दुर्वासा वै तेन नान्येन शक्यो; गृहे राजन्वासय़ितुं महौजाः |
२७ क
भीष्म उवाच:
तमेवाहुरृषिमेकं पुराणं; स विश्वकृद्विदधात्यात्मभावान् ||
२७ ख
भीष्म उवाच:
वेदांश्च यो वेदय़तेऽधिदेवो; विधींश्च यश्चाश्रय़ते पुराणान् |
२८ क
भीष्म उवाच:
कामे वेदे लौकिके यत्फलं च; विष्वक्सेने सर्वमेतत्प्रतीहि ||
२८ ख
भीष्म उवाच:
ज्योतींषि शुक्लानि च सर्वलोके; त्रय़ो लोका लोकपालास्त्रय़श्च |
२९ क
भीष्म उवाच:
त्रय़ोऽग्नय़ो व्याहृतय़श्च तिस्रः; सर्वे देवा देवकीपुत्र एव ||
२९ ख
भीष्म उवाच:
संवत्सरः स ऋतुः सोऽर्धमासः; सोऽहोरात्रः स कला वै स काष्ठाः |
३० क
भीष्म उवाच:
मात्रा मुहूर्ताश्च लवाः क्षणाश्च; विष्वक्सेने सर्वमेतत्प्रतीहि ||
३० ख
भीष्म उवाच:
चन्द्रादित्यौ ग्रहनक्षत्रताराः; सर्वाणि दर्शान्यथ पौर्णमास्यः |
३१ क
भीष्म उवाच:
नक्षत्रय़ोगा ऋतवश्च पार्थ; विष्वक्सेनात्सर्वमेतत्प्रसूतम् ||
३१ ख
भीष्म उवाच:
रुद्रादित्या वसवोऽथाश्विनौ च; साध्या विश्वे मरुतां षड्गणाश्च |
३२ क
भीष्म उवाच:
प्रजापतिर्देवमातादितिश्च; सर्वे कृष्णादृषय़श्चैव सप्त ||
३२ ख
भीष्म उवाच:
वाय़ुर्भूत्वा विक्षिपते च विश्व; मग्निर्भूत्वा दहते विश्वरूपः |
३३ क
भीष्म उवाच:
आपो भूत्वा मज्जय़ते च सर्वं; व्रह्मा भूत्वा सृजते विश्वसङ्घान् ||
३३ ख
भीष्म उवाच:
वेद्यं च यद्वेदय़ते च वेदा; न्विधिश्च यश्चाश्रय़ते विधेय़ान् |
३४ क
भीष्म उवाच:
धर्मे च वेदे च वले च सर्वं; चराचरं केशवं त्वं प्रतीहि ||
३४ ख
भीष्म उवाच:
ज्योतिर्भूतः परमोऽसौ पुरस्ता; त्प्रकाशय़न्प्रभय़ा विश्वरूपः |
३५ क
भीष्म उवाच:
अपः सृष्ट्वा ह्यात्मभूरात्मय़ोनिः; पुराकरोत्सर्वमेवाथ विश्वम् ||
३५ ख
भीष्म उवाच:
ऋतूनुत्पातान्विविधान्यद्भुतानि; मेघान्विद्युत्सर्वमैरावतं च |
३६ क
भीष्म उवाच:
सर्वं कृष्णात्स्थावरं जङ्गमं च; विश्वाख्याताद्विष्णुमेनं प्रतीहि ||
३६ ख
भीष्म उवाच:
विश्वावासं निर्गुणं वासुदेवं; सङ्कर्षणं जीवभूतं वदन्ति |
३७ क
भीष्म उवाच:
ततः प्रद्युम्नमनिरुद्धं चतुर्थ; माज्ञापय़त्यात्मय़ोनिर्महात्मा ||
३७ ख
भीष्म उवाच:
स पञ्चधा पञ्चजनोपपन्नं; सञ्चोदय़न्विश्वमिदं सिसृक्षुः |
३८ क
भीष्म उवाच:
ततश्चकारावनिमारुतौ च; खं ज्योतिरापश्च तथैव पार्थ ||
३८ ख
भीष्म उवाच:
स स्थावरं जङ्गमं चैवमेत; च्चतुर्विधं लोकमिमं च कृत्वा |
३९ क
भीष्म उवाच:
ततो भूमिं व्यदधात्पञ्चवीजां; द्यौः पृथिव्यां धास्यति भूरि वारि |
३९ ख
भीष्म उवाच:
तेन विश्वं कृतमेतद्धि राज; न्स जीवय़त्यात्मनैवात्मय़ोनिः ||
३९ ग
भीष्म उवाच:
ततो देवानसुरान्मानुषांश्च; लोकानृषींश्चाथ पितॄन्प्रजाश्च |
४० क
भीष्म उवाच:
समासेन विविधान्प्राणिलोका; न्सर्वान्सदा भूतपतिः सिसृक्षुः ||
४० ख
भीष्म उवाच:
शुभाशुभं स्थावरं जङ्गमं च; विष्वक्सेनात्सर्वमेतत्प्रतीहि |
४१ क
भीष्म उवाच:
यद्वर्तते यच्च भविष्यतीह; सर्वमेतत्केशवं त्वं प्रतीहि ||
४१ ख
भीष्म उवाच:
मृत्युश्चैव प्राणिनामन्तकाले; साक्षात्कृष्णः शाश्वतो धर्मवाहः |
४२ क
भीष्म उवाच:
भूतं च यच्चेह न विद्म किं चि; द्विष्वक्सेनात्सर्वमेतत्प्रतीहि ||
४२ ख
भीष्म उवाच:
यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम् |
४३ क
भीष्म उवाच:
तत्सर्वं केशवोऽचिन्त्यो विपरीतमतो भवेत् ||
४३ ख
भीष्म उवाच:
एतादृशः केशवोऽय़ं स्वय़म्भू; र्नाराय़णः परमश्चाव्ययश्च |
४४ क
भीष्म उवाच:
मध्यं चास्य जगतस्तस्थुषश्च; सर्वेषां भूतानां प्रभवश्चाप्ययश्च ||
४४ ख