chevron_left वन पर्व अध्याय १४३
वैशम्पाय़न उवाच:
ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः |
१ क
वैशम्पाय़न उवाच:
वद्धगोधाङ्गुलित्राणाः खद्गवन्तोऽमितौजसः ||
१ ख
वैशम्पाय़न उवाच:
परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम् |
२ क
वैशम्पाय़न उवाच:
पाञ्चालीसहिता राजन्प्रय़युर्गन्धमादनम् ||
२ ख
वैशम्पाय़न उवाच:
सरांसि सरितश्चैव पर्वतांश्च वनानि च |
३ क
वैशम्पाय़न उवाच:
वृक्षांश्च वहुलच्छाय़ान्ददृशुर्गिरिमूर्धनि |
३ ख
वैशम्पाय़न उवाच:
नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् ||
३ ग
वैशम्पाय़न उवाच:
आत्मन्यात्मानमाधाय़ वीरा मूलफलाशनाः |
४ क
वैशम्पाय़न उवाच:
चेरुरुच्चावचाकारान्देशान्विषमसङ्कटान् |
४ ख
वैशम्पाय़न उवाच:
पश्यन्तो मृगजातानि वहूनि विविधानि च ||
४ ग
वैशम्पाय़न उवाच:
ऋषिसिद्धामरय़ुतं गन्धर्वाप्सरसां प्रिय़म् |
५ क
वैशम्पाय़न उवाच:
विविशुस्ते महात्मानः किंनराचरितं गिरिम् ||
५ ख
वैशम्पाय़न उवाच:
प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम् |
६ क
वैशम्पाय़न उवाच:
चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते ||
६ ख
वैशम्पाय़न उवाच:
ततो रेणुः समुद्भूतः सपत्रवहुलो महान् |
७ क
वैशम्पाय़न उवाच:
पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् ||
७ ख
वैशम्पाय़न उवाच:
न स्म प्रज्ञाय़ते किञ्चिदावृते व्योम्नि रेणुना |
८ क
वैशम्पाय़न उवाच:
न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम् ||
८ ख
वैशम्पाय़न उवाच:
न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः |
९ क
वैशम्पाय़न उवाच:
आकृष्यमाणा वातेन साश्मचूर्णेन भारत ||
९ ख
वैशम्पाय़न उवाच:
द्रुमाणां वातभग्नानां पततां भूतले भृशम् |
१० क
वैशम्पाय़न उवाच:
अन्येषां च महीजानां शव्दः समभवन्महान् ||
१० ख
वैशम्पाय़न उवाच:
द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम् |
११ क
वैशम्पाय़न उवाच:
इति ते मेनिरे सर्वे पवनेन विमोहिताः ||
११ ख
वैशम्पाय़न उवाच:
ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च |
१२ क
वैशम्पाय़न उवाच:
पाणिभिः परिमार्गन्तो भीता वाय़ोर्निलिल्यिरे ||
१२ ख
वैशम्पाय़न उवाच:
ततः कार्मुकमुद्यम्य भीमसेनो महावलः |
१३ क
वैशम्पाय़न उवाच:
कृष्णामादाय़ सङ्गत्या तस्थावाश्रित्य पादपम् ||
१३ ख
वैशम्पाय़न उवाच:
धर्मराजश्च धौम्यश्च निलिल्याते महावने |
१४ क
वैशम्पाय़न उवाच:
अग्निहोत्राण्युपादाय़ सहदेवस्तु पर्वते ||
१४ ख
वैशम्पाय़न उवाच:
नकुलो व्राह्मणाश्चान्ये लोमशश्च महातपाः |
१५ क
वैशम्पाय़न उवाच:
वृक्षानासाद्य सन्त्रस्तास्तत्र तत्र निलिल्यिरे ||
१५ ख
वैशम्पाय़न उवाच:
मन्दीभूते च पवने तस्मिन्रजसि शाम्यति |
१६ क
वैशम्पाय़न उवाच:
महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह ||
१६ ख
वैशम्पाय़न उवाच:
ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः |
१७ क
वैशम्पाय़न उवाच:
प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः ||
१७ ख
वैशम्पाय़न उवाच:
ततः सागरगा आपः कीर्यमाणाः समन्ततः |
१८ क
वैशम्पाय़न उवाच:
प्रादुरासन्सकलुसाः फेनवत्यो विशां पते ||
१८ ख
वैशम्पाय़न उवाच:
वहन्त्यो वारि वहुलं फेनोडुपपरिप्लुतम् |
१९ क
वैशम्पाय़न उवाच:
परिसस्रुर्महाशव्दाः प्रकर्षन्त्यो महीरुहान् ||
१९ ख
वैशम्पाय़न उवाच:
तस्मिन्नुपरते वर्षे वाते च समतां गते |
२० क
वैशम्पाय़न उवाच:
गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे ||
२० ख
वैशम्पाय़न उवाच:
निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत |
२१ क
वैशम्पाय़न उवाच:
प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम् ||
२१ ख