chevron_left द्रोण पर्व अध्याय १४३
सञ्जय़ उवाच:
शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव |
१ क
सञ्जय़ उवाच:
चित्रसेनस्तव सुतो वारय़ामास भारत ||
१ ख
सञ्जय़ उवाच:
नाकुलिश्चित्रसेनं तु नाराचेनार्दय़द्भृशम् |
२ क
सञ्जय़ उवाच:
स च तं प्रतिविव्याध दशभिर्निशितैः शरैः ||
२ ख
सञ्जय़ उवाच:
चित्रसेनो महाराज शतानीकं पुनर्युधि |
३ क
सञ्जय़ उवाच:
नवभिर्निशितैर्वाणैराजघान स्तनान्तरे ||
३ ख
सञ्जय़ उवाच:
नाकुलिस्तस्य विशिखैर्वर्म संनतपर्वभिः |
४ क
सञ्जय़ उवाच:
गात्रात्सञ्च्यावय़ामास तदद्भुतमिवाभवत् ||
४ ख
सञ्जय़ उवाच:
सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप |
५ क
सञ्जय़ उवाच:
उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः ||
५ ख
सञ्जय़ उवाच:
ततोऽस्य निशितैर्वाणैर्ध्वजं चिच्छेद नाकुलिः |
६ क
सञ्जय़ उवाच:
धनुश्चैव महाराज यतमानस्य संय़ुगे ||
६ ख
सञ्जय़ उवाच:
स छिन्नधन्वा समरे विवर्मा च महारथः |
७ क
सञ्जय़ उवाच:
धनुरन्यन्महाराज जग्राहारिविदारणम् ||
७ ख
सञ्जय़ उवाच:
ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः |
८ क
सञ्जय़ उवाच:
विव्याध समरे क्रुद्धो भरतानां महारथः ||
८ ख
सञ्जय़ उवाच:
शतानीकोऽथ सङ्क्रुद्धश्चित्रसेनस्य मारिष |
९ क
सञ्जय़ उवाच:
जघान चतुरो वाहान्सारथिं च नरोत्तमः ||
९ ख
सञ्जय़ उवाच:
अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः |
१० क
सञ्जय़ उवाच:
नाकुलिं पञ्चविंशत्या शराणामार्दय़द्वली ||
१० ख
सञ्जय़ उवाच:
तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे |
११ क
सञ्जय़ उवाच:
अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् ||
११ ख
सञ्जय़ उवाच:
स छिन्नधन्वा विरथो हताश्वो हतसारथिः |
१२ क
सञ्जय़ उवाच:
आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः ||
१२ ख
सञ्जय़ उवाच:
द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् |
१३ क
सञ्जय़ उवाच:
वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा ||
१३ ख
सञ्जय़ उवाच:
यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् |
१४ क
सञ्जय़ उवाच:
षष्ट्या शराणां विव्याध वाह्वोरुरसि चानघ ||
१४ ख
सञ्जय़ उवाच:
वृषसेनस्तु सङ्क्रुद्धो यज्ञसेनं रथे स्थितम् |
१५ क
सञ्जय़ उवाच:
वहुभिः साय़कैस्तीक्ष्णैराजघान स्तनान्तरे ||
१५ ख
सञ्जय़ उवाच:
तावुभौ शरनुन्नाङ्गौ शरकण्टकिनौ रणे |
१६ क
सञ्जय़ उवाच:
व्यभ्राजेतां महाराज श्वाविधौ शललैरिव ||
१६ ख
सञ्जय़ उवाच:
रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ |
१७ क
सञ्जय़ उवाच:
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ||
१७ ख
सञ्जय़ उवाच:
तपनीय़निभौ चित्रौ कल्पवृक्षाविवाद्भुतौ |
१८ क
सञ्जय़ उवाच:
किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे ||
१८ ख
सञ्जय़ उवाच:
वृषसेनस्ततो राजन्नवभिर्द्रुपदं शरैः |
१९ क
सञ्जय़ उवाच:
विद्ध्वा विव्याध सप्तत्या पुनश्चान्यैस्त्रिभिः शरैः ||
१९ ख
सञ्जय़ उवाच:
ततः शरसहस्राणि विमुञ्चन्विवभौ तदा |
२० क
सञ्जय़ उवाच:
कर्णपुत्रो महाराज वर्षमाण इवाम्वुदः ||
२० ख
सञ्जय़ उवाच:
ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् |
२१ क
सञ्जय़ उवाच:
सम्प्राद्रवद्रणे राजन्निशीथे भैरवे सति ||
२१ ख
सञ्जय़ उवाच:
प्रदीपैर्हि परित्यक्तैर्ज्वलद्भिस्तैः समन्ततः |
२२ क
सञ्जय़ उवाच:
व्यराजत मही राजन्वीताभ्रा द्यौरिव ग्रहैः ||
२२ ख
सञ्जय़ उवाच:
तथाङ्गदैर्निपतितैर्व्यराजत वसुन्धरा |
२३ क
सञ्जय़ उवाच:
प्रावृट्काले महाराज विद्युद्भिरिव तोय़दः ||
२३ ख
सञ्जय़ उवाच:
ततः कर्णसुतत्रस्ताः सोमका विप्रदुद्रुवुः |
२४ क
सञ्जय़ उवाच:
यथेन्द्रभय़वित्रस्ता दानवास्तारकामय़े ||
२४ ख
सञ्जय़ उवाच:
तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः |
२५ क
सञ्जय़ उवाच:
व्यराजन्त महाराज प्रदीपैरवभासिताः ||
२५ ख
सञ्जय़ उवाच:
तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत |
२६ क
सञ्जय़ उवाच:
मध्यन्दिनमनुप्राप्तो घर्मांशुरिव भारत ||
२६ ख
सञ्जय़ उवाच:
तेषु राजसहस्रेषु तावकेषु परेषु च |
२७ क
सञ्जय़ उवाच:
एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान् ||
२७ ख
सञ्जय़ उवाच:
स विजित्य रणे शूरान्सोमकानां महारथान् |
२८ क
सञ्जय़ उवाच:
जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः ||
२८ ख
सञ्जय़ उवाच:
प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् |
२९ क
सञ्जय़ उवाच:
दुःशासनस्तव सुतः प्रत्युद्गच्छन्महारथः ||
२९ ख
सञ्जय़ उवाच:
तय़ोः समागमो राजंश्चित्ररूपो वभूव ह |
३० क
सञ्जय़ उवाच:
व्यपेतजलदे व्योम्नि वुधभार्गवय़ोरिव ||
३० ख
सञ्जय़ उवाच:
प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम् |
३१ क
सञ्जय़ उवाच:
दुःशासनस्त्रिभिर्वाणैर्ललाटे समविध्यत ||
३१ ख
सञ्जय़ उवाच:
सोऽतिविद्धो वलवता पुत्रेण तव धन्विना |
३२ क
सञ्जय़ उवाच:
विरराज महावाहुः सशृङ्ग इव पर्वतः ||
३२ ख
सञ्जय़ उवाच:
दुःशासनं तु समरे प्रतिविन्ध्यो महारथः |
३३ क
सञ्जय़ उवाच:
नवभिः साय़कैर्विद्ध्वा पुनर्विव्याध सप्तभिः ||
३३ ख
सञ्जय़ उवाच:
तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् |
३४ क
सञ्जय़ उवाच:
प्रतिविन्ध्यहय़ानुग्रैः पातय़ामास यच्छरैः ||
३४ ख
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन ध्वजं च समपातय़त् |
३५ क
सञ्जय़ उवाच:
रथं च शतशो राजन्व्यधमत्तस्य धन्विनः ||
३५ ख
सञ्जय़ उवाच:
पताकाश्च स तूणीरान्रश्मीन्योक्त्राणि चाभिभो |
३६ क
सञ्जय़ उवाच:
चिच्छेद तिलशः क्रुद्धः शरैः संनतपर्वभिः ||
३६ ख
सञ्जय़ उवाच:
विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः |
३७ क
सञ्जय़ उवाच:
अय़ोधय़त्तव सुतं किरञ्शरशतान्वहून् ||
३७ ख
सञ्जय़ उवाच:
क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत् |
३८ क
सञ्जय़ उवाच:
अथैनं दशभिर्भल्लैश्छिन्नधन्वानमार्दय़त् ||
३८ ख
सञ्जय़ उवाच:
तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः |
३९ क
सञ्जय़ उवाच:
अन्ववर्तन्त वेगेन महत्या सेनय़ा सह ||
३९ ख
सञ्जय़ उवाच:
आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् |
४० क
सञ्जय़ उवाच:
धनुर्गृह्य महाराज विव्याध तनय़ं तव ||
४० ख
सञ्जय़ उवाच:
ततस्तु तावकाः सर्वे परिवार्य सुतं तव |
४१ क
सञ्जय़ उवाच:
अभ्यवर्तन्त सङ्ग्रामे महत्या सेनय़ा वृताः ||
४१ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं तव तेषां च भारत |
४२ क
सञ्जय़ उवाच:
निशीथे दारुणे काले यमराष्ट्रविवर्धनम् ||
४२ ख