chevron_left आदि पर्व अध्याय १४४
वैशम्पाय़न उवाच:
ते वनेन वनं वीरा घ्नन्तो मृगगणान्वहून् |
१ क
वैशम्पाय़न उवाच:
अपक्रम्य यय़ू राजंस्त्वरमाणा महारथाः ||
१ ख
वैशम्पाय़न उवाच:
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च |
२ क
वैशम्पाय़न उवाच:
रमणीय़ान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ||
२ ख
वैशम्पाय़न उवाच:
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः |
३ क
वैशम्पाय़न उवाच:
सह कुन्त्या महात्मानो विभ्रतस्तापसं वपुः ||
३ ख
वैशम्पाय़न उवाच:
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः |
४ क
वैशम्पाय़न उवाच:
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ||
४ ख
वैशम्पाय़न उवाच:
व्राह्मं वेदमधीय़ाना वेदाङ्गानि च सर्वशः |
५ क
वैशम्पाय़न उवाच:
नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् ||
५ ख
वैशम्पाय़न उवाच:
तेऽभिवाद्य महात्मानं कृष्णद्वैपाय़नं तदा |
६ क
वैशम्पाय़न उवाच:
तस्थुः प्राञ्जलय़ः सर्वे सह मात्रा परन्तपाः ||
६ ख
व्यास उवाच:
मय़ेदं मनसा पूर्वं विदितं भरतर्षभाः |
७ क
व्यास उवाच:
यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः ||
७ ख
व्यास उवाच:
तद्विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम् |
८ क
व्यास उवाच:
न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय़ वः ||
८ ख
व्यास उवाच:
समास्ते चैव मे सर्वे यूय़ं चैव न संशय़ः |
९ क
व्यास उवाच:
दीनतो वालतश्चैव स्नेहं कुर्वन्ति वान्धवाः ||
९ ख
व्यास उवाच:
तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम् |
१० क
व्यास उवाच:
स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निवोधत ||
१० ख
व्यास उवाच:
इदं नगरमभ्याशे रमणीय़ं निरामय़म् |
११ क
व्यास उवाच:
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ||
११ ख
वैशम्पाय़न उवाच:
एवं स तान्समाश्वास्य व्यासः पार्थानरिन्दमान् |
१२ क
वैशम्पाय़न उवाच:
एकचक्रामभिगतः कुन्तीमाश्वासय़त्प्रभुः ||
१२ ख
वैशम्पाय़न उवाच:
जीवपुत्रि सुतस्तेऽय़ं धर्मपुत्रो युधिष्ठिरः |
१३ क
वैशम्पाय़न उवाच:
पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् ||
१३ ख
वैशम्पाय़न उवाच:
धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी |
१४ क
वैशम्पाय़न उवाच:
भीमसेनार्जुनवलाद्भोक्ष्यत्ययमसंशय़ः ||
१४ ख
वैशम्पाय़न उवाच:
पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः |
१५ क
वैशम्पाय़न उवाच:
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ||
१५ ख
वैशम्पाय़न उवाच:
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् |
१६ क
वैशम्पाय़न उवाच:
राजसूय़ाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ||
१६ ख
वैशम्पाय़न उवाच:
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च |
१७ क
वैशम्पाय़न उवाच:
पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः ||
१७ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा निवेश्यैनान्व्राह्मणस्य निवेशने |
१८ क
वैशम्पाय़न उवाच:
अव्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपाय़नस्तदा ||
१८ ख
वैशम्पाय़न उवाच:
इह मां सम्प्रतीक्षध्वमागमिष्याम्यहं पुनः |
१९ क
वैशम्पाय़न उवाच:
देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् ||
१९ ख
वैशम्पाय़न उवाच:
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप |
२० क
वैशम्पाय़न उवाच:
जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः ||
२० ख