chevron_left अनुशासन पर्व अध्याय १४४
युधिष्ठिर उवाच:
व्रूहि व्राह्मणपूजाय़ां व्युष्टिं त्वं मधुसूदन |
१ क
युधिष्ठिर उवाच:
वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः ||
१ ख
वासुदेव उवाच:
शृणुष्वावहितो राजन्द्विजानां भरतर्षभ |
२ क
वासुदेव उवाच:
यथातत्त्वेन वदतो गुणान्मे कुरुसत्तम ||
२ ख
वासुदेव उवाच:
प्रद्युम्नः परिपप्रच्छ व्राह्मणैः परिकोपितः |
३ क
वासुदेव उवाच:
किं फलं व्राह्मणेष्वस्ति पूजाय़ां मधुसूदन |
३ ख
वासुदेव उवाच:
ईश्वरस्य सतस्तस्य इह चैव परत्र च ||
३ ग
वासुदेव उवाच:
सदा द्विजातीन्सम्पूज्य किं फलं तत्र मानद |
४ क
वासुदेव उवाच:
एतद्व्रूहि पितः सर्वं सुमहान्संशय़ोऽत्र मे ||
४ ख
वासुदेव उवाच:
इत्युक्तवचनस्तेन प्रद्युम्नेन तदा त्वहम् |
५ क
वासुदेव उवाच:
प्रत्यव्रुवं महाराज यत्तच्छृणु समाहितः ||
५ ख
वासुदेव उवाच:
व्युष्टिं व्राह्मणपूजाय़ां रौक्मिणेय़ निवोध मे |
६ क
वासुदेव उवाच:
एते हि सोमराजान ईश्वराः सुखदुःखय़ोः ||
६ ख
वासुदेव उवाच:
अस्मिँल्लोके रौक्मिणेय़ तथामुष्मिंश्च पुत्रक |
७ क
वासुदेव उवाच:
व्राह्मणप्रमुखं सौख्यं न मेऽत्रास्ति विचारणा ||
७ ख
वासुदेव उवाच:
व्राह्मणप्रमुखं वीर्यमाय़ुः कीर्तिर्यशो वलम् |
८ क
वासुदेव उवाच:
लोका लोकेश्वराश्चैव सर्वे व्राह्मणपूर्वकाः ||
८ ख
वासुदेव उवाच:
तत्कथं नाद्रिय़ेय़ं वै ईश्वरोऽस्मीति पुत्रक |
९ क
वासुदेव उवाच:
मा ते मन्युर्महावाहो भवत्वत्र द्विजान्प्रति ||
९ ख
वासुदेव उवाच:
व्राह्मणो हि महद्भूतमस्मिँल्लोके परत्र च |
१० क
वासुदेव उवाच:
भस्म कुर्युर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः ||
१० ख
वासुदेव उवाच:
अन्यानपि सृजेय़ुश्च लोकाँल्लोकेश्वरांस्तथा |
११ क
वासुदेव उवाच:
कथं तेषु न वर्तेय़ सम्यग्ज्ञानात्सुतेजसः ||
११ ख
वासुदेव उवाच:
अवसन्मद्गृहे तात व्राह्मणो हरिपिङ्गलः |
१२ क
वासुदेव उवाच:
चीरवासा विल्वदण्डी दीर्घश्मश्रुनखादिमान् |
१२ ख
वासुदेव उवाच:
दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि ||
१२ ग
वासुदेव उवाच:
स स्म सञ्चरते लोकान्ये दिव्या ये च मानुषाः |
१३ क
वासुदेव उवाच:
इमा गाथा गाय़मानश्चत्वरेषु सभासु च ||
१३ ख
वासुदेव उवाच:
दुर्वाससं वासय़ेत्को व्राह्मणं सत्कृतं गृहे |
१४ क
वासुदेव उवाच:
परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रय़म् |
१४ ख
वासुदेव उवाच:
यो मां कश्चिद्वासय़ेत न स मां कोपय़ेदिह ||
१४ ग
वासुदेव उवाच:
तं स्म नाद्रिय़ते कश्चित्ततोऽहं तमवासय़म् |
१६ क
वासुदेव उवाच:
स स्म भुङ्क्ते सहस्राणां वहूनामन्नमेकदा |
१६ ख
वासुदेव उवाच:
एकदा स्माल्पकं भुङ्क्ते न वैति च पुनर्गृहान् ||
१६ ग
वासुदेव उवाच:
अकस्माच्च प्रहसति तथाकस्मात्प्ररोदिति |
१७ क
वासुदेव उवाच:
न चास्य वय़सा तुल्यः पृथिव्यामभवत्तदा ||
१७ ख
वासुदेव उवाच:
सोऽस्मदावसथं गत्वा शय़्याश्चास्तरणानि च |
१८ क
वासुदेव उवाच:
कन्याश्चालङ्कृता दग्ध्वा ततो व्यपगतः स्वय़म् ||
१८ ख
वासुदेव उवाच:
अथ मामव्रवीद्भूय़ः स मुनिः संशितव्रतः |
१९ क
वासुदेव उवाच:
कृष्ण पाय़समिच्छामि भोक्तुमित्येव सत्वरः ||
१९ ख
वासुदेव उवाच:
सदैव तु मय़ा तस्य चित्तज्ञेन गृहे जनः |
२० क
वासुदेव उवाच:
सर्वाण्येवान्नपानानि भक्ष्याश्चोच्चावचास्तथा |
२० ख
वासुदेव उवाच:
भवन्तु सत्कृतानीति पूर्वमेव प्रचोदितः ||
२० ग
वासुदेव उवाच:
ततोऽहं ज्वलमानं वै पाय़सं प्रत्यवेदय़म् |
२१ क
वासुदेव उवाच:
तद्भुक्त्वैव तु स क्षिप्रं ततो वचनमव्रवीत् |
२१ ख
वासुदेव उवाच:
क्षिप्रमङ्गानि लिम्पस्व पाय़सेनेति स स्म ह ||
२१ ग
वासुदेव उवाच:
अविमृश्यैव च ततः कृतवानस्मि तत्तथा |
२२ क
वासुदेव उवाच:
तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यमृक्षय़म् ||
२२ ख
वासुदेव उवाच:
स ददर्श तदाभ्याशे मातरं ते शुभाननाम् |
२३ क
वासुदेव उवाच:
तामपि स्मय़मानः स पाय़सेनाभ्यलेपय़त् ||
२३ ख
वासुदेव उवाच:
मुनिः पाय़सदिग्धाङ्गीं रथे तूर्णमय़ोजय़त् |
२४ क
वासुदेव उवाच:
तमारुह्य रथं चैव निर्ययौ स गृहान्मम ||
२४ ख
वासुदेव उवाच:
अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत् |
२५ क
वासुदेव उवाच:
प्रतोदेनातुदद्वालां रुक्मिणीं मम पश्यतः ||
२५ ख
वासुदेव उवाच:
न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा |
२६ क
वासुदेव उवाच:
ततः स राजमार्गेण महता निर्ययौ वहिः ||
२६ ख
वासुदेव उवाच:
तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः |
२७ क
वासुदेव उवाच:
तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् ||
२७ ख
वासुदेव उवाच:
व्राह्मणा एव जाय़ेरन्नान्यो वर्णः कथञ्चन |
२८ क
वासुदेव उवाच:
को ह्येनं रथमास्थाय़ जीवेदन्यः पुमानिह ||
२८ ख
वासुदेव उवाच:
आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरं विषम् |
२९ क
वासुदेव उवाच:
व्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः ||
२९ ख
वासुदेव उवाच:
तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि |
३० क
वासुदेव उवाच:
तां नामर्षय़त श्रीमांस्ततस्तूर्णमचोदय़त् ||
३० ख
वासुदेव उवाच:
ततः परमसङ्क्रुद्धो रथात्प्रस्कन्द्य स द्विजः |
३१ क
वासुदेव उवाच:
पदातिरुत्पथेनैव प्राधावद्दक्षिणामुखः ||
३१ ख
वासुदेव उवाच:
तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम् |
३२ क
वासुदेव उवाच:
तथैव पाय़सादिग्धः प्रसीद भगवन्निति ||
३२ ख
वासुदेव उवाच:
ततो विलोक्य तेजस्वी व्राह्मणो मामुवाच ह |
३३ क
वासुदेव उवाच:
जितः क्रोधस्त्वय़ा कृष्ण प्रकृत्यैव महाभुज ||
३३ ख
वासुदेव उवाच:
न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत |
३४ क
वासुदेव उवाच:
प्रीतोऽस्मि तव गोविन्द वृणु कामान्यथेप्सितान् |
३४ ख
वासुदेव उवाच:
प्रसन्नस्य च मे तात पश्य व्युष्टिर्यथाविधा ||
३४ ग
वासुदेव उवाच:
यावदेव मनुष्याणामन्ने भावो भविष्यति |
३५ क
वासुदेव उवाच:
यथैवान्ने तथा तेषां त्वय़ि भावो भविष्यति ||
३५ ख
वासुदेव उवाच:
यावच्च पुण्या लोकेषु त्वय़ि कीर्तिर्भविष्यति |
३६ क
वासुदेव उवाच:
त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे |
३६ ख
वासुदेव उवाच:
सुप्रिय़ः सर्वलोकस्य भविष्यसि जनार्दन ||
३६ ग
वासुदेव उवाच:
यत्ते भिन्नं च दग्धं च यच्च किञ्चिद्विनाशितम् |
३७ क
वासुदेव उवाच:
सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन ||
३७ ख
वासुदेव उवाच:
यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन |
३८ क
वासुदेव उवाच:
अतो मृत्युभय़ं नास्ति यावदिच्छा तवाच्युत ||
३८ ख
वासुदेव उवाच:
न तु पादतले लिप्ते कस्मात्ते पुत्रकाद्य वै |
३९ क
वासुदेव उवाच:
नैतन्मे प्रिय़मित्येव स मां प्रीतोऽव्रवीत्तदा |
३९ ख
वासुदेव उवाच:
इत्युक्तोऽहं शरीरं स्वमपश्यं श्रीसमाय़ुतम् ||
३९ ग
वासुदेव उवाच:
रुक्मिणीं चाव्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः |
४० क
वासुदेव उवाच:
कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने ||
४० ख
वासुदेव उवाच:
न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि |
४१ क
वासुदेव उवाच:
स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधय़िष्यसि ||
४१ ख
वासुदेव उवाच:
षोडशानां सहस्राणां वधूनां केशवस्य ह |
४२ क
वासुदेव उवाच:
वरिष्ठा सहलोक्या च केशवस्य भविष्यसि ||
४२ ख
वासुदेव उवाच:
तव मातरमित्युक्त्वा ततो मां पुनरव्रवीत् |
४३ क
वासुदेव उवाच:
प्रस्थितः सुमहातेजा दुर्वासा वह्निवज्ज्वलन् ||
४३ ख
वासुदेव उवाच:
एषैव ते वुद्धिरस्तु व्राह्मणान्प्रति केशव |
४४ क
वासुदेव उवाच:
इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीय़त ||
४४ ख
वासुदेव उवाच:
तस्मिन्नन्तर्हिते चाहमुपांशुव्रतमादिशम् |
४५ क
वासुदेव उवाच:
यत्किञ्चिद्व्राह्मणो व्रूय़ात्सर्वं कुर्यामिति प्रभो ||
४५ ख
वासुदेव उवाच:
एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक |
४६ क
वासुदेव उवाच:
ततः परमहृष्टात्मा प्राविशं गृहमेव च ||
४६ ख
वासुदेव उवाच:
प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम् |
४७ क