सञ्जय़ उवाच:
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव |
१ क
सञ्जय़ उवाच:
अभ्ययात्सौवलः क्रुद्धस्तिष्ठ तिष्ठेति चाव्रवीत् ||
१ ख
सञ्जय़ उवाच:
कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ |
२ क
सञ्जय़ उवाच:
शरैः पूर्णाय़तोत्सृष्टैरन्योन्यमभिजघ्नतुः ||
२ ख
सञ्जय़ उवाच:
यथैव सौवलः क्षिप्रं शरवर्षाणि मुञ्चति |
३ क
सञ्जय़ उवाच:
तथैव नकुलो राजञ्शिक्षां सन्दर्शय़न्युधि ||
३ ख
सञ्जय़ उवाच:
तावुभौ समरे शूरौ शरकण्टकिनौ तदा |
४ क
सञ्जय़ उवाच:
व्यराजेतां महाराज कण्टकैरिव शाल्मली ||
४ ख
सञ्जय़ उवाच:
सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ |
५ क
सञ्जय़ उवाच:
क्रोधसंरक्तनय़नौ निर्दहन्तौ परस्परम् ||
५ ख
सञ्जय़ उवाच:
स्यालस्तु तव सङ्क्रुद्धो माद्रीपुत्रं हसन्निव |
६ क
सञ्जय़ उवाच:
कर्णिनैकेन विव्याध हृदय़े निशितेन ह ||
६ ख
सञ्जय़ उवाच:
नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना |
७ क
सञ्जय़ उवाच:
निषसाद रथोपस्थे कश्मलं चैनमाविशत् ||
७ ख
सञ्जय़ उवाच:
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम् |
८ क
सञ्जय़ उवाच:
ननाद शकुनी राजंस्तपान्ते जलदो यथा ||
८ ख
सञ्जय़ उवाच:
प्रतिलभ्य ततः सञ्ज्ञां नकुलः पाण्डुनन्दनः |
९ क
सञ्जय़ उवाच:
अभ्ययात्सौवलं भूय़ो व्यात्तानन इवान्तकः ||
९ ख
सञ्जय़ उवाच:
सङ्क्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ |
१० क
सञ्जय़ उवाच:
पुनश्चैव शतेनैव नाराचानां स्तनान्तरे ||
१० ख
सञ्जय़ उवाच:
ततोऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे |
११ क
सञ्जय़ उवाच:
ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातय़त् ||
११ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् |
१२ क
सञ्जय़ उवाच:
तं विसञ्ज्ञं निपतितं दृष्ट्वा स्यालं तवानघ |
१२ ख
सञ्जय़ उवाच:
अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् ||
१२ ग
सञ्जय़ उवाच:
ततः सञ्चुक्रुशुः पार्था ये च तेषां पदानुगाः |
१३ क
सञ्जय़ उवाच:
निर्जित्य च रणे शत्रून्नकुलः शत्रुतापनः |
१३ ख
सञ्जय़ उवाच:
अव्रवीत्सारथिं क्रुद्धो द्रोणानीकाय़ मां वह ||
१३ ग
सञ्जय़ उवाच:
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः |
१४ क
सञ्जय़ उवाच:
प्राय़ात्तेन रणे राजन्येन द्रोणोऽन्वय़ुध्यत ||
१४ ख
सञ्जय़ उवाच:
शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते |
१५ क
सञ्जय़ उवाच:
कृपः शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः ||
१५ ख
सञ्जय़ उवाच:
गौतमं द्रुतमाय़ान्तं द्रोणान्तिकमरिन्दमम् |
१६ क
सञ्जय़ उवाच:
विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव ||
१६ ख
सञ्जय़ उवाच:
तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः |
१७ क
सञ्जय़ उवाच:
पुनर्विव्याध विंशत्या पुत्राणां प्रिय़कृत्तव ||
१७ ख
सञ्जय़ उवाच:
महद्युद्धं तय़ोरासीद्घोररूपं विशां पते |
१८ क
सञ्जय़ उवाच:
यथा देवासुरे युद्धे शम्वरामरराजय़ोः ||
१८ ख
सञ्जय़ उवाच:
शरजालावृतं व्योम चक्रतुस्तौ महारथौ |
१९ क
सञ्जय़ उवाच:
प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः ||
१९ ख
सञ्जय़ उवाच:
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम् |
२० क
सञ्जय़ उवाच:
कालरात्रिनिभा ह्यासीद्घोररूपा भय़ावहा ||
२० ख
सञ्जय़ उवाच:
शिखण्डी तु महाराज गौतमस्य महद्धनुः |
२१ क
सञ्जय़ उवाच:
अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा ||
२१ ख
सञ्जय़ उवाच:
तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम् |
२२ क
सञ्जय़ उवाच:
स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् ||
२२ ख
सञ्जय़ उवाच:
तामापतन्तीं चिच्छेद शिखण्डी वहुभिः शरैः |
२३ क
सञ्जय़ उवाच:
सापतन्मेदिनीं दीप्ता भासय़न्ती महाप्रभा ||
२३ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ गौतमो रथिनां वरः |
२४ क
सञ्जय़ उवाच:
प्राच्छादय़च्छितैर्वाणैर्महाराज शिखण्डिनम् ||
२४ ख
सञ्जय़ उवाच:
स छाद्यमानः समरे गौतमेन यशस्विना |
२५ क
सञ्जय़ उवाच:
व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः ||
२५ ख
सञ्जय़ उवाच:
सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि |
२६ क
सञ्जय़ उवाच:
आजघ्ने वहुभिर्वाणैर्जिघांसन्निव भारत ||
२६ ख
सञ्जय़ उवाच:
विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम् |
२७ क
सञ्जय़ उवाच:
पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः ||
२७ ख
सञ्जय़ उवाच:
तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम् |
२८ क
सञ्जय़ उवाच:
महत्या सेनय़ा सार्धं ततो युद्धमभूत्पुनः ||
२८ ख
सञ्जय़ उवाच:
रथानां च रणे राजन्नन्योन्यमभिधावताम् |
२९ क
सञ्जय़ उवाच:
वभूव तुमुलः शव्दो मेघानां नदतामिव ||
२९ ख
सञ्जय़ उवाच:
द्रवतां सादिनां चैव गजानां च विशां पते |
३० क
सञ्जय़ उवाच:
अन्योन्यमभितो राजन्क्रूरमाय़ोधनं वभौ ||
३० ख
सञ्जय़ उवाच:
पत्तीनां द्रवतां चैव पदशव्देन मेदिनी |
३१ क
सञ्जय़ उवाच:
अकम्पत महाराज भय़त्रस्तेव चाङ्गना ||
३१ ख
सञ्जय़ उवाच:
रथा रथान्समासाद्य प्रद्रुता वेगवत्तरम् |
३२ क
सञ्जय़ उवाच:
न्यगृह्णन्वहवो राजञ्शलभान्वाय़सा इव ||
३२ ख
सञ्जय़ उवाच:
तथा गजान्प्रभिन्नांश्च सुप्रभिन्ना महागजाः |
३३ क
सञ्जय़ उवाच:
तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत ||
३३ ख
सञ्जय़ उवाच:
सादी सादिनमासाद्य पदाती च पदातिनम् |
३४ क
सञ्जय़ उवाच:
समासाद्य रणेऽन्योन्यं संरव्धा नातिचक्रमुः ||
३४ ख
सञ्जय़ उवाच:
धावतां द्रवतां चैव पुनरावर्ततामपि |
३५ क
सञ्जय़ उवाच:
वभूव तत्र सैन्यानां शव्दः सुतुमुलो निशि ||
३५ ख
सञ्जय़ उवाच:
दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु |
३६ क
सञ्जय़ उवाच:
अदृश्यन्त महाराज महोल्का इव खाच्च्युताः ||
३६ ख
सञ्जय़ उवाच:
सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता |
३७ क
सञ्जय़ उवाच:
दिवसप्रतिमा राजन्वभूव रणमूर्धनि ||
३७ ख
सञ्जय़ उवाच:
आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति |
३८ क
सञ्जय़ उवाच:
तथा नष्टं तमो घोरं दीपैर्दीप्तैरलङ्कृतम् ||
३८ ख
सञ्जय़ उवाच:
शस्त्राणां कवचानां च मणीनां च महात्मनाम् |
३९ क
सञ्जय़ उवाच:
अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः ||
३९ ख
सञ्जय़ उवाच:
तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे |
४० क
सञ्जय़ उवाच:
अवधीत्समरे पुत्रं पिता भरतसत्तम ||
४० ख
सञ्जय़ उवाच:
पुत्रश्च पितरं मोहात्सखाय़ं च सखा तथा |
४१ क
सञ्जय़ उवाच:
सम्वन्धिनं च सम्वन्धी स्वस्रीय़ं चापि मातुलः ||
४१ ख
सञ्जय़ उवाच:
स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम् |
४२ क
सञ्जय़ उवाच:
निर्मर्यादमभूद्युद्धं रात्रौ घोरं भय़ावहम् ||
४२ ख