सञ्जय़ उवाच:
पशूनां पतय़े नित्यमुग्राय़ च कपर्दिने ||
४९ ख
सञ्जय़ उवाच:
महादेवाय़ भीमाय़ त्र्यम्वकाय़ च शम्भवे |
५० क
सञ्जय़ उवाच:
ईशानाय़ भगघ्नाय़ नमोऽस्त्वन्धकघातिने ||
५० ख
सञ्जय़ उवाच:
कुमारगुरवे नित्यं नीलग्रीवाय़ वेधसे |
५१ क
सञ्जय़ उवाच:
विलोहिताय़ धूम्राय़ व्याधाय़ानपराजिते ||
५१ ख
सञ्जय़ उवाच:
नित्यं नीलशिखण्डाय़ शूलिने दिव्यचक्षुषे |
५२ क
सञ्जय़ उवाच:
हन्त्रे गोप्त्रे त्रिनेत्राय़ व्याधाय़ वसुरेतसे ||
५२ ख
सञ्जय़ उवाच:
अचिन्त्याय़ाम्विकाभर्त्रे सर्वदेवस्तुताय़ च |
५३ क
सञ्जय़ उवाच:
वृषध्वजाय़ पिङ्गाय़ जटिने व्रह्मचारिणे ||
५३ ख
सञ्जय़ उवाच:
तप्यमानाय़ सलिले व्रह्मण्याय़ाजिताय़ च |
५४ क
सञ्जय़ उवाच:
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ||
५४ ख
सञ्जय़ उवाच:
नमो नमस्ते सेव्याय़ भूतानां प्रभवे सदा |
५५ क
सञ्जय़ उवाच:
व्रह्मवक्त्राय़ शर्वाय़ शङ्कराय़ शिवाय़ च ||
५५ ख
सञ्जय़ उवाच:
नमोऽस्तु वाचस्पतय़े प्रजानां पतय़े नमः |
५६ क
सञ्जय़ उवाच:
नमो विश्वस्य पतय़े महतां पतय़े नमः ||
५६ ख
सञ्जय़ उवाच:
नमः सहस्रशिरसे सहस्रभुजमन्यवे |
५७ क
सञ्जय़ उवाच:
सहस्रनेत्रपादाय़ नमोऽसङ्ख्येय़कर्मणे ||
५७ ख
सञ्जय़ उवाच:
नमो हिरण्यवर्णाय़ हिरण्यकवचाय़ च |
५८ क
सञ्जय़ उवाच:
भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो ||
५८ ख
सञ्जय़ उवाच:
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः |
५९ क
सञ्जय़ उवाच:
प्रसादय़ामास भवं तदा ह्यस्त्रोपलव्धय़े ||
५९ ख
सञ्जय़ उवाच:
ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम् |
६० क
सञ्जय़ उवाच:
ददर्शोत्फुल्लनय़नः समस्तं तेजसां निधिम् ||
६० ख
सञ्जय़ उवाच:
तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः |
६१ क
सञ्जय़ उवाच:
ददर्श त्र्यम्वकाभ्याशे वासुदेवनिवेदितम् ||
६१ ख
सञ्जय़ उवाच:
ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः |
६२ क
सञ्जय़ उवाच:
इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शङ्करम् ||
६२ ख
सञ्जय़ उवाच:
ततः पार्थस्य विज्ञाय़ वरार्थे वचनं प्रभुः |
६३ क
सञ्जय़ उवाच:
वासुदेवार्जुनौ देवः स्मय़मानोऽभ्यभाषत ||
६३ ख
सञ्जय़ उवाच:
सरोऽमृतमय़ं दिव्यमभ्याशे शत्रुसूदनौ |
६४ क
सञ्जय़ उवाच:
तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा ||
६४ ख
सञ्जय़ उवाच:
येन देवारय़ः सर्वे मय़ा युधि निपातिताः |
६५ क
सञ्जय़ उवाच:
तत आनीय़तां कृष्णौ सशरं धनुरुत्तमम् ||
६५ ख
सञ्जय़ उवाच:
तथेत्युक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह |
६६ क
सञ्जय़ उवाच:
प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम् ||
६६ ख
सञ्जय़ उवाच:
निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम् |
६७ क
सञ्जय़ उवाच:
तज्जग्मतुरसम्भ्रान्तौ नरनाराय़णावृषी ||
६७ ख
सञ्जय़ उवाच:
ततस्तु तत्सरो गत्वा सूर्यमण्डलसंनिभम् |
६८ क
सञ्जय़ उवाच:
नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ ||
६८ ख
सञ्जय़ उवाच:
द्वितीय़ं चापरं नागं सहस्रशिरसं वरम् |
६९ क
सञ्जय़ उवाच:
वमन्तं विपुलां ज्वालां ददृशातेऽग्निवर्चसम् ||
६९ ख
सञ्जय़ उवाच:
ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली |
७० क
सञ्जय़ उवाच:
तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् ||
७० ख
सञ्जय़ उवाच:
गृणन्तौ वेदविदुषौ तद्व्रह्म शतरुद्रिय़म् |
७१ क
सञ्जय़ उवाच:
अप्रमेय़ं प्रणमन्तौ गत्वा सर्वात्मना भवम् ||
७१ ख
सञ्जय़ उवाच:
ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ |
७२ क
सञ्जय़ उवाच:
धनुर्वाणश्च शत्रुघ्नं तद्द्वन्द्वं समपद्यत ||
७२ ख
सञ्जय़ उवाच:
ततो जगृहतुः प्रीतौ धनुर्वाणं च सुप्रभम् |
७३ क
सञ्जय़ उवाच:
आजह्रतुर्महात्मानौ ददतुश्च महात्मने ||
७३ ख
सञ्जय़ उवाच:
ततः पार्श्वाद्वृषाङ्कस्य व्रह्मचारी न्यवर्तत |
७४ क
सञ्जय़ उवाच:
पिङ्गाक्षस्तपसः क्षेत्रं वलवान्नीललोहितः ||
७४ ख
सञ्जय़ उवाच:
स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः |
७५ क
सञ्जय़ उवाच:
व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम् ||
७५ ख
सञ्जय़ उवाच:
तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः |
७६ क
सञ्जय़ उवाच:
श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः ||
७६ ख
सञ्जय़ उवाच:
सरस्येव च तं वाणं मुमोचातिवलः प्रभुः |
७७ क
सञ्जय़ उवाच:
चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः ||
७७ ख
सञ्जय़ उवाच:
ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा |
७८ क
सञ्जय़ उवाच:
वरमारण्यकं दत्तं दर्शनं शङ्करस्य च |
७८ ख
सञ्जय़ उवाच:
मनसा चिन्तय़ामास तन्मे सम्पद्यतामिति ||
७८ ग
सञ्जय़ उवाच:
तस्य तन्मतमाज्ञाय़ प्रीतः प्रादाद्वरं भवः |
७९ क
सञ्जय़ उवाच:
तच्च पाशुपतं घोरं प्रतिज्ञाय़ाश्च पारणम् ||
७९ ख
सञ्जय़ उवाच:
संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत |
८० क
सञ्जय़ उवाच:
ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम् ||
८० ख
सञ्जय़ उवाच:
अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ |
८१ क
सञ्जय़ उवाच:
प्राप्तौ स्वशिविरं वीरौ मुदा परमय़ा युतौ |
८१ ख
सञ्जय़ उवाच:
इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ ||
८१ ग