chevron_left आदि पर्व अध्याय १४५
जनमेजय़ उवाच:
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः |
१ क
जनमेजय़ उवाच:
अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ||
१ ख
वैशम्पाय़न उवाच:
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः |
२ क
वैशम्पाय़न उवाच:
ऊषुर्नातिचिरं कालं व्राह्मणस्य निवेशने ||
२ ख
वैशम्पाय़न उवाच:
रमणीय़ानि पश्यन्तो वनानि विविधानि च |
३ क
वैशम्पाय़न उवाच:
पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ||
३ ख
वैशम्पाय़न उवाच:
चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते |
४ क
वैशम्पाय़न उवाच:
वभूवुर्नागराणां च स्वैर्गुणैः प्रिय़दर्शनाः ||
४ ख
वैशम्पाय़न उवाच:
निवेदय़न्ति स्म च ते भैक्षं कुन्त्याः सदा निशि |
५ क
वैशम्पाय़न उवाच:
तय़ा विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ||
५ ख
वैशम्पाय़न उवाच:
अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः |
६ क
वैशम्पाय़न उवाच:
अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महावलः ||
६ ख
वैशम्पाय़न उवाच:
तथा तु तेषां वसतां तत्र राजन्महात्मनाम् |
७ क
वैशम्पाय़न उवाच:
अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ||
७ ख
वैशम्पाय़न उवाच:
ततः कदाचिद्भैक्षाय़ गतास्ते भरतर्षभाः |
८ क
वैशम्पाय़न उवाच:
सङ्गत्या भीमसेनस्तु तत्रास्ते पृथय़ा सह ||
८ ख
वैशम्पाय़न उवाच:
अथार्तिजं महाशव्दं व्राह्मणस्य निवेशने |
९ क
वैशम्पाय़न उवाच:
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ||
९ ख
वैशम्पाय़न उवाच:
रोरूय़माणांस्तान्सर्वान्परिदेवय़तश्च सा |
१० क
वैशम्पाय़न उवाच:
कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ||
१० ख
वैशम्पाय़न उवाच:
मथ्यमानेव दुःखेन हृदय़ेन पृथा ततः |
११ क
वैशम्पाय़न उवाच:
उवाच भीमं कल्याणी कृपान्वितमिदं वचः ||
११ ख
वैशम्पाय़न उवाच:
वसामः सुसुखं पुत्र व्राह्मणस्य निवेशने |
१२ क
वैशम्पाय़न उवाच:
अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ||
१२ ख
वैशम्पाय़न उवाच:
सा चिन्तय़े सदा पुत्र व्राह्मणस्यास्य किं न्वहम् |
१३ क
वैशम्पाय़न उवाच:
प्रिय़ं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ||
१३ ख
वैशम्पाय़न उवाच:
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति |
१४ क
वैशम्पाय़न उवाच:
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ||
१४ ख
वैशम्पाय़न उवाच:
तदिदं व्राह्मणस्यास्य दुःखमापतितं ध्रुवम् |
१५ क
वैशम्पाय़न उवाच:
तत्रास्य यदि साहाय़्यं कुर्याम सुकृतं भवेत् ||
१५ ख
भीम उवाच:
ज्ञाय़तामस्य यद्दुःखं यतश्चैव समुत्थितम् |
१६ क
भीम उवाच:
विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ||
१६ ख
वैशम्पाय़न उवाच:
तथा हि कथय़न्तौ तौ भूय़ः शुश्रुवतुः स्वनम् |
१७ क
वैशम्पाय़न उवाच:
आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ||
१७ ख
वैशम्पाय़न उवाच:
अन्तःपुरं ततस्तस्य व्राह्मणस्य महात्मनः |
१८ क
वैशम्पाय़न उवाच:
विवेश कुन्ती त्वरिता वद्धवत्सेव सौरभी ||
१८ ख
वैशम्पाय़न उवाच:
ततस्तं व्राह्मणं तत्र भार्यया च सुतेन च |
१९ क
वैशम्पाय़न उवाच:
दुहित्रा चैव सहितं ददर्श विकृताननम् ||
१९ ख
व्राह्मण उवाच:
धिगिदं जीवितं लोकेऽनलसारमनर्थकम् |
२० क
व्राह्मण उवाच:
दुःखमूलं पराधीनं भृशमप्रिय़भागि च ||
२० ख
व्राह्मण उवाच:
जीविते परमं दुःखं जीविते परमो ज्वरः |
२१ क
व्राह्मण उवाच:
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ||
२१ ख
व्राह्मण उवाच:
एकात्मापि हि धर्मार्थौ कामं च न निषेवते |
२२ क
व्राह्मण उवाच:
एतैश्च विप्रय़ोगोऽपि दुःखं परमकं मतम् ||
२२ ख
व्राह्मण उवाच:
आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन |
२३ क
व्राह्मण उवाच:
अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ||
२३ ख
व्राह्मण उवाच:
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् |
२४ क
व्राह्मण उवाच:
जातस्नेहस्य चार्थेषु विप्रय़ोगे महत्तरम् ||
२४ ख
व्राह्मण उवाच:
न हि योगं प्रपश्यामि येन मुच्येय़मापदः |
२५ क
व्राह्मण उवाच:
पुत्रदारेण वा सार्धं प्राद्रवेय़ामनामय़म् ||
२५ ख
व्राह्मण उवाच:
यतितं वै मय़ा पूर्वं यथा त्वं वेत्थ व्राह्मणि |
२६ क
व्राह्मण उवाच:
यतः क्षेमं ततो गन्तुं त्वय़ा तु मम न श्रुतम् ||
२६ ख
व्राह्मण उवाच:
इह जाता विवृद्धास्मि पिता चेह ममेति च |
२७ क
व्राह्मण उवाच:
उक्तवत्यसि दुर्मेधे याच्यमाना मय़ासकृत् ||
२७ ख
व्राह्मण उवाच:
स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव |
२८ क
व्राह्मण उवाच:
वान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ||
२८ ख
व्राह्मण उवाच:
सोऽय़ं ते वन्धुकामाय़ा अशृण्वन्त्या वचो मम |
२९ क
व्राह्मण उवाच:
वन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम ||
२९ ख
व्राह्मण उवाच:
अथवा मद्विनाशोऽय़ं न हि शक्ष्यामि कञ्चन |
३० क
व्राह्मण उवाच:
परित्यक्तुमहं वन्धुं स्वय़ं जीवन्नृशंसवत् ||
३० ख
व्राह्मण उवाच:
सहधर्मचरीं दान्तां नित्यं मातृसमां मम |
३१ क
व्राह्मण उवाच:
सखाय़ं विहितां देवैर्नित्यं परमिकां गतिम् ||
३१ ख
व्राह्मण उवाच:
मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् |
३२ क
व्राह्मण उवाच:
वरय़ित्वा यथान्याय़ं मन्त्रवत्परिणीय़ च ||
३२ ख
व्राह्मण उवाच:
कुलीनां शीलसम्पन्नामपत्यजननीं मम |
३३ क
व्राह्मण उवाच:
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् |
३३ ख
व्राह्मण उवाच:
परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ||
३३ ग
व्राह्मण उवाच:
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वय़म् |
३४ क
व्राह्मण उवाच:
वालामप्राप्तवय़समजातव्यञ्जनाकृतिम् ||
३४ ख
व्राह्मण उवाच:
भर्तुरर्थाय़ निक्षिप्तां न्यासं धात्रा महात्मना |
३५ क
व्राह्मण उवाच:
यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह |
३५ ख
व्राह्मण उवाच:
स्वय़मुत्पाद्य तां वालां कथमुत्स्रष्टुमुत्सहे ||
३५ ग
व्राह्मण उवाच:
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः |
३६ क
व्राह्मण उवाच:
कन्याय़ां नैव तु पुनर्मम तुल्यावुभौ मतौ ||
३६ ख
व्राह्मण उवाच:
यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् |
३७ क
व्राह्मण उवाच:
अपापां तामहं वालां कथमुत्स्रष्टुमुत्सहे ||
३७ ख
व्राह्मण उवाच:
आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः |
३८ क
व्राह्मण उवाच:
त्यक्ता ह्येते मय़ा व्यक्तं नेह शक्ष्यन्ति जीवितुम् ||
३८ ख
व्राह्मण उवाच:
एषां चान्यतमत्यागो नृशंसो गर्हितो वुधैः |
३९ क
व्राह्मण उवाच:
आत्मत्यागे कृते चेमे मरिष्यन्ति मय़ा विना ||
३९ ख
व्राह्मण उवाच:
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् |
४० क
व्राह्मण उवाच:
अहो धिक्कां गतिं त्वद्य गमिष्यामि सवान्धवः |
४० ख
व्राह्मण उवाच:
सर्वैः सह मृतं श्रेय़ो न तु मे जीवितं क्षमम् ||
४० ग