युधिष्ठिर उवाच:
दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन |
१ क
युधिष्ठिर उवाच:
अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि ||
१ ख
युधिष्ठिर उवाच:
महाभाग्यं च यत्तस्य नामानि च महात्मनः |
२ क
युधिष्ठिर उवाच:
तत्त्वतो ज्ञातुमिच्छामि सर्वं मतिमतां वर ||
२ ख
वासुदेव उवाच:
हन्त ते कथय़िष्यामि नमस्कृत्वा कपर्दिने |
३ क
वासुदेव उवाच:
यदवाप्तं महाराज श्रेय़ो यच्चार्जितं यशः ||
३ ख
वासुदेव उवाच:
प्रय़तः प्रातरुत्थाय़ यदधीय़े विशां पते |
४ क
वासुदेव उवाच:
प्राञ्जलिः शतरुद्रीय़ं तन्मे निगदतः शृणु ||
४ ख
वासुदेव उवाच:
प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः |
५ क
वासुदेव उवाच:
शङ्करस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः ||
५ ख
वासुदेव उवाच:
नास्ति किञ्चित्परं भूतं महादेवाद्विशां पते |
६ क
वासुदेव उवाच:
इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः ||
६ ख
वासुदेव उवाच:
न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः |
७ क
वासुदेव उवाच:
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ||
७ ख
वासुदेव उवाच:
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः |
८ क
वासुदेव उवाच:
विसञ्ज्ञा हतभूय़िष्ठा वेपन्ति च पतन्ति च ||
८ ख
वासुदेव उवाच:
घोरं च निनदं तस्य पर्जन्यनिनदोपमम् |
९ क
वासुदेव उवाच:
श्रुत्वा विदीर्येद्धृदय़ं देवानामपि संय़ुगे ||
९ ख
वासुदेव उवाच:
यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृक् |
१० क
वासुदेव उवाच:
न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः |
१० ख
वासुदेव उवाच:
कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः ||
१० ग
वासुदेव उवाच:
प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ |
११ क
वासुदेव उवाच:
विव्याध कुपितो यज्ञं निर्भय़स्तु भवस्तदा |
११ ख
वासुदेव उवाच:
धनुषा वाणमुत्सृज्य सघोषं विननाद च ||
११ ग
वासुदेव उवाच:
ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः |
१२ क
वासुदेव उवाच:
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ||
१२ ख
वासुदेव उवाच:
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः |
१३ क
वासुदेव उवाच:
वभूवुरवशाः पार्थ विषेदुश्च सुरासुराः ||
१३ ख
वासुदेव उवाच:
आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरा |
१४ क
वासुदेव उवाच:
व्यद्रवन्गिरय़श्चापि द्यौः पफाल च सर्वशः ||
१४ ख
वासुदेव उवाच:
अन्धेन तमसा लोकाः प्रावृता न चकाशिरे |
१५ क
वासुदेव उवाच:
प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत ||
१५ ख
वासुदेव उवाच:
भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च |
१६ क
वासुदेव उवाच:
ऋषय़ः सर्वभूतानामात्मनश्च हितैषिणः ||
१६ ख
वासुदेव उवाच:
ततः सोऽभ्यद्रवद्देवान्क्रुद्धो रौद्रपराक्रमः |
१७ क
वासुदेव उवाच:
भगस्य नय़ने क्रुद्धः प्रहारेण व्यशातय़त् ||
१७ ख
वासुदेव उवाच:
पूषाणं चाभिदुद्राव परेण वपुषान्वितः |
१८ क
वासुदेव उवाच:
पुरोडाशं भक्षय़तो दशनान्वै व्यशातय़त् ||
१८ ख
वासुदेव उवाच:
ततः प्रणेमुर्देवास्ते वेपमानाः स्म शङ्करम् |
१९ क
वासुदेव उवाच:
पुनश्च सन्दधे रुद्रो दीप्तं सुनिशितं शरम् ||
१९ ख
वासुदेव उवाच:
रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः |
२० क
वासुदेव उवाच:
ततः प्रसादय़ामासुः शर्वं ते विवुधोत्तमाः ||
२० ख
वासुदेव उवाच:
जेपुश्च शतरुद्रीय़ं देवाः कृत्वाञ्जलिं ततः |
२१ क
वासुदेव उवाच:
संस्तूय़मानस्त्रिदशैः प्रससाद महेश्वरः ||
२१ ख
वासुदेव उवाच:
रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पय़न् |
२२ क
वासुदेव उवाच:
भय़ेन त्रिदशा राजञ्शरणं च प्रपेदिरे ||
२२ ख
वासुदेव उवाच:
तेन चैवातिकोपेन स यज्ञः सन्धितोऽभवत् |
२३ क
वासुदेव उवाच:
यद्यच्चापि हतं तत्र तत्तथैव प्रदीय़ते ||
२३ ख
वासुदेव उवाच:
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि |
२४ क
वासुदेव उवाच:
आय़सं राजतं चैव सौवर्णमपरं तथा ||
२४ ख
वासुदेव उवाच:
नाशकत्तानि मघवा भेत्तुं सर्वाय़ुधैरपि |
२५ क
वासुदेव उवाच:
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ||
२५ ख
वासुदेव उवाच:
तत ऊचुर्महात्मानो देवाः सर्वे समागताः |
२६ क
वासुदेव उवाच:
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु |
२६ ख
वासुदेव उवाच:
जहि दैत्यान्सह पुरैर्लोकांस्त्राय़स्व मानद ||
२६ ग
वासुदेव उवाच:
स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम् |
२७ क
वासुदेव उवाच:
शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् |
२७ ख
वासुदेव उवाच:
वेदान्कृत्वा धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमाम् ||
२७ ग
वासुदेव उवाच:
देवान्रथवरं कृत्वा विनिय़ुज्य च सर्वशः |
२८ क
वासुदेव उवाच:
त्रिपर्वणा त्रिशल्येन तेन तानि विभेद सः ||
२८ ख
वासुदेव उवाच:
शरेणादित्यवर्णेन कालाग्निसमतेजसा |
२९ क
वासुदेव उवाच:
तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत ||
२९ ख
वासुदेव उवाच:
तं चैवाङ्कगतं दृष्ट्वा वालं पञ्चशिखं पुनः |
३० क
वासुदेव उवाच:
उमा जिज्ञासमाना वै कोऽय़मित्यव्रवीत्तदा ||
३० ख
वासुदेव उवाच:
असूय़तश्च शक्रस्य वज्रेण प्रहरिष्यतः |
३१ क
वासुदेव उवाच:
सवज्रं स्तम्भय़ामास तं वाहुं परिघोपमम् ||
३१ ख
वासुदेव उवाच:
न सम्वुवुधिरे चैनं देवास्तं भुवनेश्वरम् |
३२ क
वासुदेव उवाच:
सप्रजापतय़ः सर्वे तस्मिन्मुमुहुरीश्वरे ||
३२ ख
वासुदेव उवाच:
ततो ध्यात्वाथ भगवान्व्रह्मा तममितौजसम् |
३३ क
वासुदेव उवाच:
अय़ं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् ||
३३ ख
वासुदेव उवाच:
ततः प्रसादय़ामासुरुमां रुद्रं च ते सुराः |
३४ क
वासुदेव उवाच:
वभूव स तदा वाहुर्वलहन्तुर्यथा पुरा ||
३४ ख
वासुदेव उवाच:
स चापि व्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् |
३५ क
वासुदेव उवाच:
द्वारवत्यां मम गृहे चिरं कालमुपावसत् ||
३५ ख
वासुदेव उवाच:
विप्रकारान्प्रय़ुङ्क्ते स्म सुवहून्मम वेश्मनि |
३६ क
वासुदेव उवाच:
तानुदारतय़ा चाहमक्षमं तस्य दुःसहम् ||
३६ ख
वासुदेव उवाच:
स देवेन्द्रश्च वाय़ुश्च सोऽश्विनौ स च विद्युतः |
३७ क
वासुदेव उवाच:
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ||
३७ ख
वासुदेव उवाच:
स कालः सोऽन्तको मृत्युः स तमो रात्र्यहानि च |
३८ क
वासुदेव उवाच:
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ||
३८ ख
वासुदेव उवाच:
स धाता स विधाता च विश्वकर्मा स सर्ववित् |
३९ क
वासुदेव उवाच:
नक्षत्राणि दिशश्चैव प्रदिशोऽथ ग्रहास्तथा |
३९ ख
वासुदेव उवाच:
विश्वमूर्तिरमेय़ात्मा भगवानमितद्युतिः ||
३९ ग
वासुदेव उवाच:
एकधा च द्विधा चैव वहुधा च स एव च |
४० क
वासुदेव उवाच:
शतधा सहस्रधा चैव तथा शतसहस्रधा ||
४० ख
वासुदेव उवाच:
ईदृशः स महादेवो भूय़श्च भगवानतः |
४१ क
वासुदेव उवाच:
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ||
४१ ख