chevron_left विराट पर्व अध्याय २६
वैशम्पाय़न उवाच:
अथाव्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान् |
१ क
वैशम्पाय़न उवाच:
न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ||
१ ख
वैशम्पाय़न उवाच:
शूराश्च कृतविद्याश्च वुद्धिमन्तो जितेन्द्रिय़ाः |
२ क
वैशम्पाय़न उवाच:
धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः ||
२ ख
वैशम्पाय़न उवाच:
नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम् |
३ क
वैशम्पाय़न उवाच:
धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचाय़िनम् ||
३ ख
वैशम्पाय़न उवाच:
अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप |
४ क
वैशम्पाय़न उवाच:
अजातशत्रुं ह्रीमन्तं तं च भ्रातॄननुव्रतम् ||
४ ख
वैशम्पाय़न उवाच:
तेषां तथा विधेय़ानां निभृतानां महात्मनाम् |
५ क
वैशम्पाय़न उवाच:
किमर्थं नीतिमान्पार्थः श्रेय़ो नैषां करिष्यति ||
५ ख
वैशम्पाय़न उवाच:
तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदय़मागतम् |
६ क
वैशम्पाय़न उवाच:
न हि ते नाशमृच्छेय़ुरिति पश्याम्यहं धिय़ा ||
६ ख
वैशम्पाय़न उवाच:
साम्प्रतं चैव यत्कार्यं तच्च क्षिप्रमकालिकम् |
७ क
वैशम्पाय़न उवाच:
क्रिय़तां साधु सञ्चिन्त्य वासश्चैषां प्रचिन्त्यताम् ||
७ ख
वैशम्पाय़न उवाच:
यथावत्पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् |
८ क
वैशम्पाय़न उवाच:
दुर्ज्ञेय़ाः खलु शूरास्ते अपापास्तपसा वृताः ||
८ ख
वैशम्पाय़न उवाच:
शुद्धात्मा गुणवान्पार्थः सत्यवान्नीतिमाञ्शुचिः |
९ क
वैशम्पाय़न उवाच:
तेजोराशिरसङ्ख्येय़ो गृह्णीय़ादपि चक्षुषी ||
९ ख
वैशम्पाय़न उवाच:
विज्ञाय़ क्रिय़तां तस्माद्भूय़श्च मृगय़ामहे |
१० क
वैशम्पाय़न उवाच:
व्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः ||
१० ख