वैशम्पाय़न उवाच:
आगम्य हास्तिनपुरादुपप्लव्यमरिन्दमः |
१ क
वैशम्पाय़न उवाच:
पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् ||
१ ख
वैशम्पाय़न उवाच:
सम्भाष्य सुचिरं कालं मन्त्रय़ित्वा पुनः पुनः |
२ क
वैशम्पाय़न उवाच:
स्वमेवावसथं शौरिर्विश्रामार्थं जगाम ह ||
२ ख
वैशम्पाय़न उवाच:
विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा |
३ क
वैशम्पाय़न उवाच:
पाण्डवा भ्रातरः पञ्च भानावस्तङ्गते सति ||
३ ख
वैशम्पाय़न उवाच:
सन्ध्यामुपास्य ध्याय़न्तस्तमेव गतमानसाः |
४ क
वैशम्पाय़न उवाच:
आनाय़्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रय़न् ||
४ ख
युधिष्ठिर उवाच:
त्वय़ा नागपुरं गत्वा सभाय़ां धृतराष्ट्रजः |
५ क
युधिष्ठिर उवाच:
किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि ||
५ ख
वासुदेव उवाच:
मय़ा नागपुरं गत्वा सभाय़ां धृतराष्ट्रजः |
६ क
वासुदेव उवाच:
तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः ||
६ ख
युधिष्ठिर उवाच:
तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः |
७ क
युधिष्ठिर उवाच:
किमुक्तवान्हृषीकेश दुर्योधनममर्षणम् |
७ ख
युधिष्ठिर उवाच:
आचार्यो वा महावाहो भारद्वाजः किमव्रवीत् ||
७ ग
युधिष्ठिर उवाच:
पिता यवीय़ानस्माकं क्षत्ता धर्मभृतां वरः |
८ क
युधिष्ठिर उवाच:
पुत्रशोकाभिसन्तप्तः किमाह धृतराष्ट्रजम् ||
८ ख
युधिष्ठिर उवाच:
किं च सर्वे नृपतय़ः सभाय़ां ये समासते |
९ क
युधिष्ठिर उवाच:
उक्तवन्तो यथातत्त्वं तद्व्रूहि त्वं जनार्दन ||
९ ख
युधिष्ठिर उवाच:
उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः |
१० क
युधिष्ठिर उवाच:
कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः ||
१० ख
युधिष्ठिर उवाच:
अप्रिय़ं हृदय़े मह्यं तन्न तिष्ठति केशव |
११ क
युधिष्ठिर उवाच:
तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो ||
११ ख
युधिष्ठिर उवाच:
यथा च नाभिपद्येत कालस्तात तथा कुरु |
१२ क
युधिष्ठिर उवाच:
भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः ||
१२ ख
वासुदेव उवाच:
शृणु राजन्यथा वाक्यमुक्तो राजा सुय़ोधनः |
१३ क
वासुदेव उवाच:
मध्ये कुरूणां राजेन्द्र सभाय़ां तन्निवोध मे ||
१३ ख
वासुदेव उवाच:
मय़ा वै श्राविते वाक्ये जहास धृतराष्ट्रजः |
१४ क
वासुदेव उवाच:
अथ भीष्मः सुसङ्क्रुद्ध इदं वचनमव्रवीत् ||
१४ ख
वासुदेव उवाच:
दुर्योधन निवोधेदं कुलार्थे यद्व्रवीमि ते |
१५ क
वासुदेव उवाच:
तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु ||
१५ ख
वासुदेव उवाच:
मम तात पिता राजञ्शन्तनुर्लोकविश्रुतः |
१६ क
वासुदेव उवाच:
तस्याहमेक एवासं पुत्रः पुत्रवतां वरः ||
१६ ख
वासुदेव उवाच:
तस्य वुद्धिः समुत्पन्ना द्वितीय़ः स्यात्कथं सुतः |
१७ क
वासुदेव उवाच:
एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः ||
१७ ख
वासुदेव उवाच:
न चोच्छेदं कुलं याय़ाद्विस्तीर्येत कथं यशः |
१८ क
वासुदेव उवाच:
तस्याहमीप्सितं वुद्ध्वा कालीं मातरमावहम् ||
१८ ख
वासुदेव उवाच:
प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च |
१९ क
वासुदेव उवाच:
अराजा चोर्ध्वरेताश्च यथा सुविदितं तव |
१९ ख
वासुदेव उवाच:
प्रतीतो निवसाम्येष प्रतिज्ञामनुपालय़न् ||
१९ ग
वासुदेव उवाच:
तस्यां जज्ञे महावाहुः श्रीमान्कुरुकुलोद्वहः |
२० क
वासुदेव उवाच:
विचित्रवीर्यो धर्मात्मा कनीय़ान्मम पार्थिवः ||
२० ख
वासुदेव उवाच:
स्वर्यातेऽहं पितरि तं स्वराज्ये संन्यवेशय़म् |
२१ क
वासुदेव उवाच:
विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः ||
२१ ख
वासुदेव उवाच:
तस्याहं सदृशान्दारान्राजेन्द्र समुदावहम् |
२२ क
वासुदेव उवाच:
जित्वा पार्थिवसङ्घातमपि ते वहुशः श्रुतम् ||
२२ ख
वासुदेव उवाच:
ततो रामेण समरे द्वन्द्वय़ुद्धमुपागमम् |
२३ क
वासुदेव उवाच:
स हि रामभय़ादेभिर्नागरैर्विप्रवासितः |
२३ ख
वासुदेव उवाच:
दारेष्वतिप्रसक्तश्च यक्ष्माणं समपद्यत ||
२३ ग
वासुदेव उवाच:
यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः |
२४ क
वासुदेव उवाच:
तदाभ्यधावन्मामेव प्रजाः क्षुद्भय़पीडिताः ||
२४ ख
प्रजा ऊचुः:
उपक्षीणाः प्रजाः सर्वा राजा भव भवाय़ नः |
२५ क
प्रजा ऊचुः:
ईतय़ो नुद भद्रं ते शन्तनोः कुलवर्धन ||
२५ ख
प्रजा ऊचुः:
पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः |
२६ क
प्रजा ऊचुः:
अल्पावशिष्टा गाङ्गेय़ ताः परित्रातुमर्हसि ||
२६ ख
प्रजा ऊचुः:
व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय़ |
२७ क
प्रजा ऊचुः:
त्वय़ि जीवति मा राष्ट्रं विनाशमुपगच्छतु ||
२७ ख
भीष्म उवाच:
प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः |
२८ क
भीष्म उवाच:
प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस्तथा ||
२८ ख
भीष्म उवाच:
ततः पौरा महाराज माता काली च मे शुभा |
२९ क
भीष्म उवाच:
भृत्याः पुरोहिताचार्या व्राह्मणाश्च वहुश्रुताः |
२९ ख
भीष्म उवाच:
मामूचुर्भृशसन्तप्ता भव राजेति सन्ततम् ||
२९ ग
भीष्म उवाच:
प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति |
३० क
भीष्म उवाच:
स त्वमस्मद्धितार्थं वै राजा भव महामते ||
३० ख
भीष्म उवाच:
इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः |
३१ क
भीष्म उवाच:
तेभ्यो न्यवेदय़ं पुत्र प्रतिज्ञां पितृगौरवात् |
३१ ख
भीष्म उवाच:
ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः ||
३१ ग
भीष्म उवाच:
ततोऽहं प्राञ्जलिर्भूत्वा मातरं सम्प्रसादय़म् |
३२ क
भीष्म उवाच:
नाम्व शन्तनुना जातः कौरवं वंशमुद्वहन् |
३२ ख
भीष्म उवाच:
प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः ||
३२ ग
भीष्म उवाच:
विशेषतस्त्वदर्थं च धुरि मा मां निय़ोजय़ |
३३ क
भीष्म उवाच:
अहं प्रेष्यश्च दासश्च तवाम्व सुतवत्सले ||
३३ ख
भीष्म उवाच:
एवं तामनुनीय़ाहं मातरं जनमेव च |
३४ क
भीष्म उवाच:
अय़ाचं भ्रातृदारेषु तदा व्यासं महामुनिम् ||
३४ ख
भीष्म उवाच:
सह मात्रा महाराज प्रसाद्य तमृषिं तदा |
३५ क
भीष्म उवाच:
अपत्यार्थमय़ाचं वै प्रसादं कृतवांश्च सः |
३५ ख
भीष्म उवाच:
त्रीन्स पुत्रानजनय़त्तदा भरतसत्तम ||
३५ ग
भीष्म उवाच:
अन्धः करणहीनेति न वै राजा पिता तव |
३६ क
भीष्म उवाच:
राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः ||
३६ ख
भीष्म उवाच:
स राजा तस्य ते पुत्राः पितुर्दाय़ाद्यहारिणः |
३७ क
भीष्म उवाच:
मा तात कलहं कार्षी राज्यस्यार्धं प्रदीय़ताम् ||
३७ ख
भीष्म उवाच:
मय़ि जीवति राज्यं कः सम्प्रशासेत्पुमानिह |
३८ क
भीष्म उवाच:
मावमंस्था वचो मह्यं शममिच्छामि वः सदा ||
३८ ख
भीष्म उवाच:
न विशेषोऽस्ति मे पुत्र त्वय़ि तेषु च पार्थिव |
३९ क
भीष्म उवाच:
मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च ||
३९ ख
भीष्म उवाच:
श्रोतव्यं यदि वृद्धानां मातिशङ्कीर्वचो मम |
४० क
भीष्म उवाच:
नाशय़िष्यसि मा सर्वमात्मानं पृथिवीं तथा ||
४० ख