chevron_left वन पर्व अध्याय २७
वैशम्पाय़न उवाच:
वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु |
१ क
वैशम्पाय़न उवाच:
अनुकीर्णं महारण्यं व्राह्मणैः समपद्यत ||
१ ख
वैशम्पाय़न उवाच:
ईर्यमाणेन सततं व्रह्मघोषेण सर्वतः |
२ क
वैशम्पाय़न उवाच:
व्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ||
२ ख
वैशम्पाय़न उवाच:
यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः |
३ क
वैशम्पाय़न उवाच:
आसीदुच्चार्यमाणानां निस्वनो हृदय़ङ्गमः ||
३ ख
वैशम्पाय़न उवाच:
ज्याघोषः पाण्डवेय़ानां व्रह्मघोषश्च धीमताम् |
४ क
वैशम्पाय़न उवाच:
संसृष्टं व्रह्मणा क्षत्रं भूय़ एव व्यरोचत ||
४ ख
वैशम्पाय़न उवाच:
अथाव्रवीद्वको दाल्भ्यो धर्मराजं युधिष्ठिरम् |
५ क
वैशम्पाय़न उवाच:
सन्ध्यां कौन्तेय़मासीनमृषिभिः परिवारितम् ||
५ ख
वैशम्पाय़न उवाच:
पश्य द्वैतवने पार्थ व्राह्मणानां तपस्विनाम् |
६ क
वैशम्पाय़न उवाच:
होमवेलां कुरुश्रेष्ठ सम्प्रज्वलितपावकाम् ||
६ ख
वैशम्पाय़न उवाच:
चरन्ति धर्मं पुण्येऽस्मिंस्त्वय़ा गुप्ता धृतव्रताः |
७ क
वैशम्पाय़न उवाच:
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ||
७ ख
वैशम्पाय़न उवाच:
आगस्त्याश्च महाभागा आत्रेय़ाश्चोत्तमव्रताः |
८ क
वैशम्पाय़न उवाच:
सर्वस्य जगतः श्रेष्ठा व्राह्मणाः सङ्गतास्त्वय़ा ||
८ ख
वैशम्पाय़न उवाच:
इदं तु वचनं पार्थ शृण्वेकाग्रमना मम |
९ क
वैशम्पाय़न उवाच:
भ्रातृभिः सह कौन्तेय़ यत्त्वां वक्ष्यामि कौरव ||
९ ख
वैशम्पाय़न उवाच:
व्रह्म क्षत्रेण संसृष्टं क्षत्रं च व्रह्मणा सह |
१० क
वैशम्पाय़न उवाच:
उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ ||
१० ख
वैशम्पाय़न उवाच:
नाव्राह्मणस्तात चिरं वुभूषे; दिच्छन्निमं लोकममुं च जेतुम् |
११ क
वैशम्पाय़न उवाच:
विनीतधर्मार्थमपेतमोहं; लव्ध्वा द्विजं नुदति नृपः सपत्नान् ||
११ ख
वैशम्पाय़न उवाच:
चरन्नैःश्रेय़सं धर्मं प्रजापालनकारितम् |
१२ क
वैशम्पाय़न उवाच:
नाध्यगच्छद्वलिर्लोके तीर्थमन्यत्र वै द्विजात् ||
१२ ख
वैशम्पाय़न उवाच:
अनूनमासीदसुरस्य कामै; र्वैरोचनेः श्रीरपि चाक्षय़ासीत् |
१३ क
वैशम्पाय़न उवाच:
लव्ध्वा महीं व्राह्मणसम्प्रय़ोगा; त्तेष्वाचरन्दुष्टमतो व्यनश्यत् ||
१३ ख
वैशम्पाय़न उवाच:
नाव्राह्मणं भूमिरिय़ं सभूति; र्वर्णं द्वितीय़ं भजते चिराय़ |
१४ क
वैशम्पाय़न उवाच:
समुद्रनेमिर्नमते तु तस्मै; यं व्राह्मणः शास्ति नय़ैर्विनीतः ||
१४ ख
वैशम्पाय़न उवाच:
कुञ्जरस्येव सङ्ग्रामेऽपरिगृह्याङ्कुशग्रहम् |
१५ क
वैशम्पाय़न उवाच:
व्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीय़ते वलम् ||
१५ ख
वैशम्पाय़न उवाच:
व्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं वलम् |
१६ क
वैशम्पाय़न उवाच:
तौ यदा चरतः सार्धमथ लोकः प्रसीदति ||
१६ ख
वैशम्पाय़न उवाच:
यथा हि सुमहानग्निः कक्षं दहति सानिलः |
१७ क
वैशम्पाय़न उवाच:
तथा दहति राजन्यो व्राह्मणेन समं रिपून् ||
१७ ख
वैशम्पाय़न उवाच:
व्राह्मणेभ्योऽथ मेधावी वुद्धिपर्येषणं चरेत् |
१८ क
वैशम्पाय़न उवाच:
अलव्धस्य च लाभाय़ लव्धस्य च विवृद्धय़े ||
१८ ख
वैशम्पाय़न उवाच:
अलव्धलाभाय़ च लव्धवृद्धय़े; यथार्हतीर्थप्रतिपादनाय़ |
१९ क
वैशम्पाय़न उवाच:
यशस्विनं वेदविदं विपश्चितं; वहुश्रुतं व्राह्मणमेव वासय़ ||
१९ ख
वैशम्पाय़न उवाच:
व्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर |
२० क
वैशम्पाय़न उवाच:
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ||
२० ख
वैशम्पाय़न उवाच:
ततस्ते व्राह्मणाः सर्वे वकं दाल्भ्यमपूजय़न् |
२१ क
वैशम्पाय़न उवाच:
युधिष्ठिरे स्तूय़माने भूय़ः सुमनसोऽभवन् ||
२१ ख
वैशम्पाय़न उवाच:
द्वैपाय़नो नारदश्च जामदग्न्यः पृथुश्रवाः |
२२ क
वैशम्पाय़न उवाच:
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ||
२२ ख
वैशम्पाय़न उवाच:
कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः |
२३ क
वैशम्पाय़न उवाच:
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ||
२३ ख
वैशम्पाय़न उवाच:
ऋतवाक्च सुवाक्चैव वृहदश्व ऋतावसुः |
२४ क
वैशम्पाय़न उवाच:
ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ||
२४ ख
वैशम्पाय़न उवाच:
एते चान्ये च वहवो व्राह्मणाः संशितव्रताः |
२५ क
वैशम्पाय़न उवाच:
अजातशत्रुमानर्चुः पुरन्दरमिवर्षय़ः ||
२५ ख