chevron_left आदि पर्व अध्याय १४६
व्राह्मण्यु उवाच:
न सन्तापस्त्वय़ा कार्यः प्राकृतेनेव कर्हिचित् |
१ क
व्राह्मण्यु उवाच:
न हि सन्तापकालोऽय़ं वैद्यस्य तव विद्यते ||
१ ख
व्राह्मण्यु उवाच:
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः |
२ क
व्राह्मण्यु उवाच:
अवश्यभाविन्यर्थे वै सन्तापो नेह विद्यते ||
२ ख
व्राह्मण्यु उवाच:
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते |
३ क
व्राह्मण्यु उवाच:
व्यथां जहि सुवुद्ध्या त्वं स्वय़ं यास्यामि तत्र वै ||
३ ख
व्राह्मण्यु उवाच:
एतद्धि परमं नार्याः कार्यं लोके सनातनम् |
४ क
व्राह्मण्यु उवाच:
प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ||
४ ख
व्राह्मण्यु उवाच:
तच्च तत्र कृतं कर्म तवापीह सुखावहम् |
५ क
व्राह्मण्यु उवाच:
भवत्यमुत्र चाक्षय़्यं लोकेऽस्मिंश्च यशस्करम् ||
५ ख
व्राह्मण्यु उवाच:
एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव |
६ क
व्राह्मण्यु उवाच:
अर्थश्च तव धर्मश्च भूय़ानत्र प्रदृश्यते ||
६ ख
व्राह्मण्यु उवाच:
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वय़ा मय़ि |
७ क
व्राह्मण्यु उवाच:
कन्या चैव कुमारश्च कृताहमनृणा त्वय़ा ||
७ ख
व्राह्मण्यु उवाच:
समर्थः पोषणे चासि सुतय़ो रक्षणे तथा |
८ क
व्राह्मण्यु उवाच:
न त्वहं सुतय़ोः शक्ता तथा रक्षणपोषणे ||
८ ख
व्राह्मण्यु उवाच:
मम हि त्वद्विहीनाय़ाः सर्वकामा न आपदः |
९ क
व्राह्मण्यु उवाच:
कथं स्यातां सुतौ वालौ भवेय़ं च कथं त्वहम् ||
९ ख
व्राह्मण्यु उवाच:
कथं हि विधवानाथा वालपुत्रा विना त्वय़ा |
१० क
व्राह्मण्यु उवाच:
मिथुनं जीवय़िष्यामि स्थिता साधुगते पथि ||
१० ख
व्राह्मण्यु उवाच:
अहङ्कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् |
११ क
व्राह्मण्यु उवाच:
अय़ुक्तैस्तव सम्वन्धे कथं शक्ष्यामि रक्षितुम् ||
११ ख
व्राह्मण्यु उवाच:
उत्सृष्टमामिषं भूमौ प्रार्थय़न्ति यथा खगाः |
१२ क
व्राह्मण्यु उवाच:
प्रार्थय़न्ति जनाः सर्वे वीरहीनां तथा स्त्रिय़म् ||
१२ ख
व्राह्मण्यु उवाच:
साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः |
१३ क
व्राह्मण्यु उवाच:
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ||
१३ ख
व्राह्मण्यु उवाच:
कथं तव कुलस्यैकामिमां वालामसंस्कृताम् |
१४ क
व्राह्मण्यु उवाच:
पितृपैतामहे मार्गे निय़ोक्तुमहमुत्सहे ||
१४ ख
व्राह्मण्यु उवाच:
कथं शक्ष्यामि वालेऽस्मिन्गुणानाधातुमीप्षितान् |
१५ क
व्राह्मण्यु उवाच:
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ||
१५ ख
व्राह्मण्यु उवाच:
इमामपि च ते वालामनाथां परिभूय़ माम् |
१६ क
व्राह्मण्यु उवाच:
अनर्हाः प्रार्थय़िष्यन्ति शूद्रा वेदश्रुतिं यथा ||
१६ ख
व्राह्मण्यु उवाच:
तां चेदहं न दित्सेय़ं त्वद्गुणैरुपवृंहिताम् |
१७ क
व्राह्मण्यु उवाच:
प्रमथ्यैनां हरेय़ुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ||
१७ ख
व्राह्मण्यु उवाच:
सम्प्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः |
१८ क
व्राह्मण्यु उवाच:
अनर्हवशमापन्नामिमां चापि सुतां तव ||
१८ ख
व्राह्मण्यु उवाच:
अवज्ञाता च लोकस्य तथात्मानमजानती |
१९ क
व्राह्मण्यु उवाच:
अवलिप्तैर्नरैर्व्रह्मन्मरिष्यामि न संशय़ः ||
१९ ख
व्राह्मण्यु उवाच:
तौ विहीनौ मय़ा वालौ त्वय़ा चैव ममात्मजौ |
२० क
व्राह्मण्यु उवाच:
विनश्येतां न सन्देहो मत्स्याविव जलक्षय़े ||
२० ख
व्राह्मण्यु उवाच:
त्रितय़ं सर्वथाप्येवं विनशिष्यत्यसंशय़म् |
२१ क
व्राह्मण्यु उवाच:
त्वय़ा विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ||
२१ ख
व्राह्मण्यु उवाच:
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः |
२२ क
व्राह्मण्यु उवाच:
न तु व्राह्मण पुत्राणां विषय़े परिवर्तितुम् ||
२२ ख
व्राह्मण्यु उवाच:
परित्यक्तः सुतश्चाय़ं दुहितेय़ं तथा मय़ा |
२३ क
व्राह्मण्यु उवाच:
वान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ||
२३ ख
व्राह्मण्यु उवाच:
यज्ञैस्तपोभिर्निय़मैर्दानैश्च विविधैस्तथा |
२४ क
व्राह्मण्यु उवाच:
विशिष्यते स्त्रिय़ा भर्तुर्नित्यं प्रिय़हिते स्थितिः ||
२४ ख
व्राह्मण्यु उवाच:
तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम् |
२५ क
व्राह्मण्यु उवाच:
इष्टं चैव हितं चैव तव चैव कुलस्य च ||
२५ ख
व्राह्मण्यु उवाच:
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रिय़ाः |
२६ क
व्राह्मण्यु उवाच:
आपद्धर्मविमोक्षाय़ भार्या चापि सतां मतम् ||
२६ ख
व्राह्मण्यु उवाच:
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन |
२७ क
व्राह्मण्यु उवाच:
न समं सर्वमेवेति वुधानामेष निश्चय़ः ||
२७ ख
व्राह्मण्यु उवाच:
स कुरुष्व मय़ा कार्यं तारय़ात्मानमात्मना |
२८ क
व्राह्मण्यु उवाच:
अनुजानीहि मामार्य सुतौ मे परिरक्ष च ||
२८ ख
व्राह्मण्यु उवाच:
अवध्याः स्त्रिय़ इत्याहुर्धर्मज्ञा धर्मनिश्चय़े |
२९ क
व्राह्मण्यु उवाच:
धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ||
२९ ख
व्राह्मण्यु उवाच:
निःसंशय़ो वधः पुंसां स्त्रीणां संशय़ितो वधः |
३० क
व्राह्मण्यु उवाच:
अतो मामेव धर्मज्ञ प्रस्थापय़ितुमर्हसि ||
३० ख
व्राह्मण्यु उवाच:
भुक्तं प्रिय़ाण्यवाप्तानि धर्मश्च चरितो मय़ा |
३१ क
व्राह्मण्यु उवाच:
त्वत्प्रसूतिः प्रिय़ा प्राप्ता न मां तप्स्यत्यजीवितम् ||
३१ ख
व्राह्मण्यु उवाच:
जातपुत्रा च वृद्धा च प्रिय़कामा च ते सदा |
३२ क
व्राह्मण्यु उवाच:
समीक्ष्यैतदहं सर्वं व्यवसाय़ं करोम्यतः ||
३२ ख
व्राह्मण्यु उवाच:
उत्सृज्यापि च मामार्य वेत्स्यस्यन्यामपि स्त्रिय़म् |
३३ क
व्राह्मण्यु उवाच:
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ||
३३ ख
व्राह्मण्यु उवाच:
न चाप्यधर्मः कल्याण वहुपत्नीकता नृणाम् |
३४ क
व्राह्मण्यु उवाच:
स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ||
३४ ख
व्राह्मण्यु उवाच:
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् |
३५ क
व्राह्मण्यु उवाच:
आत्मानं तारय़ मय़ा कुलं चेमौ च दारकौ ||
३५ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तय़ा भर्ता तां समालिङ्ग्य भारत |
३६ क
वैशम्पाय़न उवाच:
मुमोच वाष्पं शनकैः सभार्यो भृशदुःखितः ||
३६ ख