वासुदेव उवाच:
युधिष्ठिर महावाहो महाभाग्यं महात्मनः |
१ क
वासुदेव उवाच:
रुद्राय़ वहुरूपाय़ वहुनाम्ने निवोध मे ||
१ ख
वासुदेव उवाच:
वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम् |
२ क
वासुदेव उवाच:
एकाक्षं त्र्यम्वकं चैव विश्वरूपं शिवं तथा ||
२ ख
वासुदेव उवाच:
द्वे तनू तस्य देवस्य वेदज्ञा व्राह्मणा विदुः |
३ क
वासुदेव उवाच:
घोरामन्यां शिवामन्यां ते तनू वहुधा पुनः ||
३ ख
वासुदेव उवाच:
उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः |
४ क
वासुदेव उवाच:
शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः ||
४ ख
वासुदेव उवाच:
आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ |
५ क
वासुदेव उवाच:
व्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा ||
५ ख
वासुदेव उवाच:
यास्य घोरतमा मूर्तिर्जगत्संहरते तय़ा |
६ क
वासुदेव उवाच:
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः ||
६ ख
वासुदेव उवाच:
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् |
७ क
वासुदेव उवाच:
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ||
७ ख
वासुदेव उवाच:
देवानां सुमहान्यच्च यच्चास्य विषय़ो महान् |
८ क
वासुदेव उवाच:
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ||
८ ख
वासुदेव उवाच:
समेधय़ति यन्नित्यं सर्वार्थान्सर्वकर्मभिः |
९ क
वासुदेव उवाच:
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ||
९ ख
वासुदेव उवाच:
दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत् |
१० क
वासुदेव उवाच:
स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ||
१० ख
वासुदेव उवाच:
यदस्य वहुधा रूपं भूतं भव्यं भवत्तथा |
११ क
वासुदेव उवाच:
स्थावरं जङ्गमं चैव वहुरूपस्ततः स्मृतः ||
११ ख
वासुदेव उवाच:
धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते |
१२ क
वासुदेव उवाच:
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ||
१२ ख
वासुदेव उवाच:
सहस्राक्षोऽय़ुताक्षो वा सर्वतोक्षिमय़ोऽपि वा |
१३ क
वासुदेव उवाच:
चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम् ||
१३ ख
वासुदेव उवाच:
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः |
१४ क
वासुदेव उवाच:
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ||
१४ ख
वासुदेव उवाच:
नित्येन व्रह्मचर्येण लिङ्गमस्य यदा स्थितम् |
१५ क
वासुदेव उवाच:
महय़न्त्यस्य लोकाश्च महेश्वर इति स्मृतः ||
१५ ख
वासुदेव उवाच:
विग्रहं पूजय़ेद्यो वै लिङ्गं वापि महात्मनः |
१६ क
वासुदेव उवाच:
लिङ्गं पूजय़िता नित्यं महतीं श्रिय़मश्नुते ||
१६ ख
वासुदेव उवाच:
ऋषय़श्चापि देवाश्च गन्धर्वाप्सरसस्तथा |
१७ क
वासुदेव उवाच:
लिङ्गमेवार्चय़न्ति स्म यत्तदूर्ध्वं समास्थितम् ||
१७ ख
वासुदेव उवाच:
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः |
१८ क
वासुदेव उवाच:
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः ||
१८ ख
वासुदेव उवाच:
एष एव श्मशानेषु देवो वसति नित्यशः |
१९ क
वासुदेव उवाच:
यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम् ||
१९ ख
वासुदेव उवाच:
विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह |
२० क
वासुदेव उवाच:
स च वाय़ुः शरीरेषु प्राणोऽपानः शरीरिणाम् ||
२० ख
वासुदेव उवाच:
तस्य घोराणि रूपाणि दीप्तानि च वहूनि च |
२१ क
वासुदेव उवाच:
लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्वुधाः ||
२१ ख
वासुदेव उवाच:
नामधेय़ानि वेदेषु वहून्यस्य यथार्थतः |
२२ क
वासुदेव उवाच:
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ||
२२ ख
वासुदेव उवाच:
वेदे चास्य विदुर्विप्राः शतरुद्रीय़मुत्तमम् |
२३ क
वासुदेव उवाच:
व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः ||
२३ ख
वासुदेव उवाच:
प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत् |
२४ क
वासुदेव उवाच:
ज्येष्ठभूतं वदन्त्येनं व्राह्मणा ऋषय़ोऽपरे ||
२४ ख
वासुदेव उवाच:
प्रथमो ह्येष देवानां मुखादग्निरजाय़त |
२५ क
वासुदेव उवाच:
ग्रहैर्वहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि ||
२५ ख
वासुदेव उवाच:
स मोचय़ति पुण्यात्मा शरण्यः शरणागतान् |
२६ क
वासुदेव उवाच:
आय़ुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ||
२६ ख
वासुदेव उवाच:
स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः |
२७ क
वासुदेव उवाच:
शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ||
२७ ख
वासुदेव उवाच:
स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे |
२८ क
वासुदेव उवाच:
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ||
२८ ख
वासुदेव उवाच:
महेश्वरश्च लोकानां महतामीश्वरश्च सः |
२९ क
वासुदेव उवाच:
वहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत् |
२९ ख
वासुदेव उवाच:
तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम् ||
२९ ग