अष्टावक्र उवाच:
अत्रोग्रसेनसमितेषु राज; न्समागतेष्वप्रतिमेषु राजसु |
१ क
अष्टावक्र उवाच:
न वै विवित्सान्तरमस्ति वादिनां; महाजले हंसनिनादिनामिव ||
१ ख
अष्टावक्र उवाच:
न मेऽद्य वक्ष्यस्यतिवादिमानि; न्ग्लहं प्रपन्नः सरितामिवागमः |
२ क
अष्टावक्र उवाच:
हुताशनस्येव समिद्धतेजसः; स्थिरो भवस्वेह ममाद्य वन्दिन् ||
२ ख
वन्द्यु उवाच:
व्याघ्रं शय़ानं प्रति मा प्रवोधय़; आशीविषं सृक्किणी लेलिहानम् |
३ क
वन्द्यु उवाच:
पदाहतस्येव शिरोऽभिहत्य; नादष्टो वै मोक्ष्यसे तन्निवोध ||
३ ख
वन्द्यु उवाच:
यो वै दर्पात्संहननोपपन्नः; सुदुर्वलः पर्वतमाविहन्ति |
४ क
वन्द्यु उवाच:
तस्यैव पाणिः सनखो विशीर्यते; न चैव शैलस्य हि दृश्यते व्रणः ||
४ ख
वन्द्यु उवाच:
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः |
५ क
वन्द्यु उवाच:
निकृष्टभूता राजानो वत्सा अनदुहो यथा ||
५ ख
लोमश उवाच:
अष्टावक्रः समितौ गर्जमानो; जातक्रोधो वन्दिनमाह राजन् |
६ क
लोमश उवाच:
उक्ते वाक्ये चोत्तरं मे व्रवीहि; वाक्यस्य चाप्युत्तरं ते व्रवीमि ||
६ ख
वन्द्यु उवाच:
एक एवाग्निर्वहुधा समिध्यते; एकः सूर्यः सर्वमिदं प्रभासते |
७ क
वन्द्यु उवाच:
एको वीरो देवराजो निहन्ता; यमः पितॄणामीश्वरश्चैक एव ||
७ ख
अष्टावक्र उवाच:
द्वाविन्द्राग्नी चरतो वै सखाय़ौ; द्वौ देवर्षी नारदः पर्वतश्च |
८ क
अष्टावक्र उवाच:
द्वावश्विनौ द्वे च रथस्य चक्रे; भार्यापती द्वौ विहितौ विधात्रा ||
८ ख
वन्द्यु उवाच:
त्रिः सूय़ते कर्मणा वै प्रजेय़ं; त्रय़ो युक्ता वाजपेय़ं वहन्ति |
९ क
वन्द्यु उवाच:
अध्वर्यवस्त्रिषवणानि तन्वते; त्रय़ो लोकास्त्रीणि ज्योतींषि चाहुः ||
९ ख
अष्टावक्र उवाच:
चतुष्टय़ं व्राह्मणानां निकेतं; चत्वारो युक्ता यज्ञमिमं वहन्ति |
१० क
अष्टावक्र उवाच:
दिशश्चतस्रश्चतुरश्च वर्णा; श्चतुष्पदा गौरपि शश्वदुक्ता ||
१० ख
वन्द्यु उवाच:
पञ्चाग्नय़ः पञ्चपदा च पङ्क्ति; र्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रिय़ाणि |
११ क
वन्द्यु उवाच:
दृष्टा वेदे पञ्चचूडाश्च पञ्च; लोके ख्यातं पञ्चनदं च पुण्यम् ||
११ ख
अष्टावक्र उवाच:
षडाधाने दक्षिणामाहुरेके; षडेवेमे ऋतवः कालचक्रम् |
१२ क
अष्टावक्र उवाच:
षडिन्द्रिय़ाण्युत षट्कृत्तिकाश्च; षट्साद्यस्काः सर्ववेदेषु दृष्टाः ||
१२ ख
वन्द्यु उवाच:
सप्त ग्राम्याः पशवः सप्त वन्याः; सप्त छन्दांसि क्रतुमेकं वहन्ति |
१३ क
वन्द्यु उवाच:
सप्तर्षय़ः सप्त चाप्यर्हणानि; सप्ततन्त्री प्रथिता चैव वीणा ||
१३ ख
अष्टावक्र उवाच:
अष्टौ शाणाः शतमानं वहन्ति; तथाष्टपादः शरभः सिंहघाती |
१४ क
अष्टावक्र उवाच:
अष्टौ वसूञ्शुश्रुम देवतासु; यूपश्चाष्टास्रिर्विहितः सर्वय़ज्ञः ||
१४ ख
वन्द्यु उवाच:
नवैवोक्ताः सामिधेन्यः पितॄणां; तथा प्राहुर्नवय़ोगं विषर्गम् |
१५ क
वन्द्यु उवाच:
नवाक्षरा वृहती सम्प्रदिष्टा; नवय़ोगो गणनामेति शश्वत् ||
१५ ख
अष्टावक्र उवाच:
दशा दशोक्ताः पुरुषस्य लोके; सहस्रमाहुर्दश पूर्णं शतानि |
१६ क
अष्टावक्र उवाच:
दशैव मासान्विभ्रति गर्भवत्यो; दशेरका दश दाशा दशार्णाः ||
१६ ख
वन्द्यु उवाच:
एकादशैकादशिनः पशूना; मेकादशैवात्र भवन्ति यूपाः |
१७ क
वन्द्यु उवाच:
एकादश प्राणभृतां विकारा; एकादशोक्ता दिवि देवेषु रुद्राः ||
१७ ख
अष्टावक्र उवाच:
संवत्सरं द्वादश मासमाहु; र्जगत्याः पादो द्वादशैवाक्षराणि |
१८ क
अष्टावक्र उवाच:
द्वादशाहः प्राकृतो यज्ञ उक्तो; द्वादशादित्यान्कथय़न्तीह विप्राः ||
१८ ख
वन्द्यु उवाच:
त्रय़ोदशी तिथिरुक्ता महोग्रा; त्रय़ोदशद्वीपवती मही च |
१९ क
लोमश उवाच:
एतावदुक्त्वा विरराम वन्दी; श्लोकस्यार्धं व्याजहाराष्टवक्रः |
२० क
लोमश उवाच:
त्रय़ोदशाहानि ससार केशी; त्रय़ोदशादीन्यतिच्छन्दांसि चाहुः ||
२० ख
लोमश उवाच:
ततो महानुदतिष्ठन्निनाद; स्तूष्णीम्भूतं सूतपुत्रं निशम्य |
२१ क
लोमश उवाच:
अधोमुखं ध्यानपरं तदानी; मष्टावक्रं चाप्युदीर्यन्तमेव ||
२१ ख
लोमश उवाच:
तस्मिंस्तथा सङ्कुले वर्तमाने; स्फीते यज्ञे जनकस्याथ राज्ञः |
२२ क
लोमश उवाच:
अष्टावक्रं पूजय़न्तोऽभ्युपेय़ु; र्विप्राः सर्वे प्राञ्जलय़ः प्रतीताः ||
२२ ख
अष्टावक्र उवाच:
अनेन वै व्राह्मणाः शुश्रुवांसो; वादे जित्वा सलिले मज्जिताः किल |
२३ क
अष्टावक्र उवाच:
तानेव धर्मानय़मद्य वन्दी; प्राप्नोतु गृह्याप्सु निमज्जय़ैनम् ||
२३ ख
वन्द्यु उवाच:
अहं पुत्रो वरुणस्योत राज्ञ; स्तत्रास सत्रं द्वादशवार्षिकं वै |
२४ क
वन्द्यु उवाच:
सत्रेण ते जनक तुल्यकालं; तदर्थं ते प्रहिता मे द्विजाग्र्याः ||
२४ ख
वन्द्यु उवाच:
एते सर्वे वरुणस्योत यज्ञं; द्रष्टुं गता इह आय़ान्ति भूय़ः |
२५ क
वन्द्यु उवाच:
अष्टावक्रं पूजय़े पूजनीय़ं; यस्य हेतोर्जनितारं समेष्ये ||
२५ ख
अष्टावक्र उवाच:
विप्राः समुद्राम्भसि मज्जितास्ते; वाचा जिता मेधय़ा आविदानाः |
२६ क
अष्टावक्र उवाच:
तां मेधय़ा वाचमथोज्जहार; यथा वाचमवचिन्वन्ति सन्तः ||
२६ ख
अष्टावक्र उवाच:
अग्निर्दहञ्जातवेदाः सतां गृहा; न्विसर्जय़ंस्तेजसा न स्म धाक्षीत् |
२७ क
अष्टावक्र उवाच:
वालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचमवचिन्वन्ति सन्तः ||
२७ ख
अष्टावक्र उवाच:
श्लेष्मातकी क्षीणवर्चाः शृणोषि; उताहो त्वां स्तुतय़ो मादय़न्ति |
२८ क
अष्टावक्र उवाच:
हस्तीव त्वं जनक वितुद्यमानो; न मामिकां वाचमिमां शृणोषि ||
२८ ख
जनक उवाच:
शृणोमि वाचं तव दिव्यरूपा; ममानुषीं दिव्यरूपोऽसि साक्षात् |
२९ क
जनक उवाच:
अजैषीर्यद्वन्दिनं त्वं विवादे; निसृष्ट एष तव कामोऽद्य वन्दी ||
२९ ख
अष्टावक्र उवाच:
नानेन जीवता कश्चिदर्थो मे वन्दिना नृप |
३० क
अष्टावक्र उवाच:
पिता यद्यस्य वरुणो मज्जय़ैनं जलाशय़े ||
३० ख
वन्द्यु उवाच:
अहं पुत्रो वरुणस्योत राज्ञो; न मे भय़ं सलिले मज्जितस्य |
३१ क
वन्द्यु उवाच:
इमं मुहूर्तं पितरं द्रक्ष्यतेऽय़; मष्टावक्रश्चिरनष्टं कहोडम् ||
३१ ख
लोमश उवाच:
ततस्ते पूजिता विप्रा वरुणेन महात्मना |
३२ क
लोमश उवाच:
उदतिष्ठन्त ते सर्वे जनकस्य समीपतः ||
३२ ख
कहोड उवाच:
इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा |
३३ क
कहोड उवाच:
यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम ||
३३ ख
कहोड उवाच:
उतावलस्य वलवानुत वालस्य पण्डितः |
३४ क
कहोड उवाच:
उत वाविदुषो विद्वान्पुत्रो जनक जाय़ते ||
३४ ख
वन्द्यु उवाच:
शितेन ते परशुना स्वय़मेवान्तको नृप |
३५ क
वन्द्यु उवाच:
शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते ||
३५ ख
वन्द्यु उवाच:
महदुक्थ्यं गीय़ते साम चाग्र्यं; सम्यक्सोमः पीय़ते चात्र सत्रे |
३६ क
वन्द्यु उवाच:
शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः; साक्षाद्देवा जनकस्येह यज्ञे ||
३६ ख
लोमश उवाच:
समुत्थितेष्वथ सर्वेषु राज; न्विप्रेषु तेष्वधिकं सुप्रभेषु |
३७ क
लोमश उवाच:
अनुज्ञातो जनकेनाथ राज्ञा; विवेश तोय़ं सागरस्योत वन्दी ||
३७ ख
लोमश उवाच:
अष्टावक्रः पितरं पूजय़ित्वा; सम्पूजितो व्राह्मणैस्तैर्यथावत् |
३८ क
लोमश उवाच:
प्रत्याजगामाश्रममेव चाग्र्यं; जित्वा वन्दिं सहितो मातुलेन ||
३८ ख
लोमश उवाच:
अत्र कौन्तेय़ सहितो भ्रातृभिस्त्वं; सुखोषितः सह विप्रैः प्रतीतः |
३९ क
लोमश उवाच:
पुण्यान्यन्यानि शुचिकर्मैकभक्ति; र्मय़ा सार्धं चरितास्याजमीढ ||
३९ ख