सञ्जय़ उवाच:
ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः |
१ क
सञ्जय़ उवाच:
अमृष्यमाणाः संरव्धा युय़ुधानरथं प्रति ||
१ ख
सञ्जय़ उवाच:
ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः |
२ क
सञ्जय़ उवाच:
सादिभिश्च गजैश्चैव परिवव्रुः स्म सात्वतम् ||
२ ख
सञ्जय़ उवाच:
अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः |
३ क
सञ्जय़ उवाच:
सिंहनादांस्तदा चक्रुस्तर्जय़न्तः स्म सात्यकिम् ||
३ ख
सञ्जय़ उवाच:
तेऽभ्यवर्षञ्शरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् |
४ क
सञ्जय़ उवाच:
त्वरमाणा महावीर्या माधवस्य वधैषिणः ||
४ ख
सञ्जय़ उवाच:
तान्दृष्ट्वा पततस्तूर्णं शैनेय़ः परवीरहा |
५ क
सञ्जय़ उवाच:
प्रत्यगृह्णान्महावाहुः प्रमुञ्चन्विशिखान्वहून् ||
५ ख
सञ्जय़ उवाच:
तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः |
६ क
सञ्जय़ उवाच:
निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः ||
६ ख
सञ्जय़ उवाच:
हस्तिहस्तान्हय़ग्रीवान्वाहूनपि च साय़ुधान् |
७ क
सञ्जय़ उवाच:
क्षुरप्रैः पातय़ामास तावकानां स माधवः ||
७ ख
सञ्जय़ उवाच:
पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत |
८ क
सञ्जय़ उवाच:
वभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो ||
८ ख
सञ्जय़ उवाच:
तेषां तु युय़ुधानेन युध्यतां युधि भारत |
९ क
सञ्जय़ उवाच:
वभूव तुमुलः शव्दः प्रेतानामिव क्रन्दताम् ||
९ ख
सञ्जय़ उवाच:
तेन शव्देन महता पूरितासीद्वसुन्धरा |
१० क
सञ्जय़ उवाच:
रात्रिः समभवच्चैव तीव्ररूपा भय़ावहा ||
१० ख
सञ्जय़ उवाच:
दीर्यमाणं वलं दृष्ट्वा युय़ुधानशराहतम् |
११ क
सञ्जय़ उवाच:
श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम् ||
११ ख
सञ्जय़ उवाच:
सुतस्तवाव्रवीद्राजन्सारथिं रथिनां वरः |
१२ क
सञ्जय़ उवाच:
यत्रैष शव्दस्तत्राश्वांश्चोदय़ेति पुनः पुनः ||
१२ ख
सञ्जय़ उवाच:
तेन सञ्चोद्यमानस्तु ततस्तांस्तुरगोत्तमान् |
१३ क
सञ्जय़ उवाच:
सूतः सञ्चोदय़ामास युय़ुधानरथं प्रति ||
१३ ख
सञ्जय़ उवाच:
ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः |
१४ क
सञ्जय़ उवाच:
शीघ्रहस्तश्चित्रय़ोधी युय़ुधानमुपाद्रवत् ||
१४ ख
सञ्जय़ उवाच:
ततः पूर्णाय़तोत्सृष्टैर्मांसशोणितभोजनैः |
१५ क
सञ्जय़ उवाच:
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत ||
१५ ख
सञ्जय़ उवाच:
दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः |
१६ क
सञ्जय़ उवाच:
शैनेय़ं दशभिर्वाणैः प्रत्यविध्यदमर्षितः ||
१६ ख
सञ्जय़ उवाच:
ततः समभवद्युद्धमाकुलं भरतर्षभ |
१७ क
सञ्जय़ उवाच:
पाञ्चालानां च सर्वेषां भारतानां च दारुणम् ||
१७ ख
सञ्जय़ उवाच:
शैनेय़स्तु रणे क्रुद्धस्तव पुत्रं महारथम् |
१८ क
सञ्जय़ उवाच:
साय़कानामशीत्या तु विव्याधोरसि भारत ||
१८ ख
सञ्जय़ उवाच:
ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षय़म् |
१९ क
सञ्जय़ उवाच:
सारथिं च रथात्तूर्णं पातय़ामास पत्रिणा ||
१९ ख
सञ्जय़ उवाच:
हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते |
२० क
सञ्जय़ उवाच:
मुमोच निशितान्वाणाञ्शैनेय़स्य रथं प्रति ||
२० ख
सञ्जय़ उवाच:
शरान्पञ्चाशतस्तांस्तु शैनेय़ः कृतहस्तवत् |
२१ क
सञ्जय़ उवाच:
चिच्छेद समरे राजन्प्रेषितांस्तनय़ेन ते ||
२१ ख
सञ्जय़ उवाच:
अथापरेण भल्लेन मुष्टिदेशे महद्धनुः |
२२ क
सञ्जय़ उवाच:
चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष ||
२२ ख
सञ्जय़ उवाच:
विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः |
२३ क
सञ्जय़ उवाच:
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ||
२३ ख
सञ्जय़ उवाच:
दुर्योधने परावृत्ते शैनेय़स्तव वाहिनीम् |
२४ क
सञ्जय़ उवाच:
द्रावय़ामास विशिखैर्निशामध्ये विशां पते ||
२४ ख
सञ्जय़ उवाच:
शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः |
२५ क
सञ्जय़ उवाच:
रथैरनेकसाहस्रैर्गजैश्चैव सहस्रशः |
२५ ख
सञ्जय़ उवाच:
तथा हय़सहस्रैश्च तुमुलं सर्वतोऽकरोत् ||
२५ ग
सञ्जय़ उवाच:
ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति |
२६ क
सञ्जय़ उवाच:
अर्जुनं योधय़न्ति स्म क्षत्रिय़ाः कालचोदिताः ||
२६ ख
सञ्जय़ उवाच:
तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् |
२७ क
सञ्जय़ उवाच:
प्रत्यवारय़दाय़स्तः प्रकुर्वन्विपुलं क्षय़म् ||
२७ ख
सञ्जय़ उवाच:
ततस्तु समरे शूरः शकुनिः सौवलस्तदा |
२८ क
सञ्जय़ उवाच:
विव्याध निशितैर्वाणैरर्जुनं प्रहसन्निव ||
२८ ख
सञ्जय़ उवाच:
पुनश्चैव शतेनास्य संरुरोध महारथम् |
२९ क
सञ्जय़ उवाच:
तमर्जुनस्तु विंशत्या विव्याध युधि भारत ||
२९ ख
सञ्जय़ उवाच:
अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत |
३० क
सञ्जय़ उवाच:
संवार्य तान्वाणगणैर्युधि राजन्धनञ्जय़ः |
३० ख
सञ्जय़ उवाच:
अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान् ||
३० ग
सञ्जय़ उवाच:
भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः |
३१ क
सञ्जय़ उवाच:
समास्तीर्णा धरा तत्र वभौ पुष्पैरिवाचिता ||
३१ ख
सञ्जय़ उवाच:
स विद्ध्वा शकुनिं भूय़ः पञ्चभिर्नतपर्वभिः |
३२ क
सञ्जय़ उवाच:
उलूकं त्रिभिराजघ्ने त्रिभिरेव महाय़सैः ||
३२ ख
सञ्जय़ उवाच:
तमुलूकस्तथा विद्ध्वा वासुदेवमताडय़त् |
३३ क
सञ्जय़ उवाच:
ननाद च महानादं पूरय़न्वसुधातलम् ||
३३ ख
सञ्जय़ उवाच:
अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत् |
३४ क
सञ्जय़ उवाच:
निन्ये च चतुरो वाहान्यमस्य सदनं प्रति ||
३४ ख
सञ्जय़ उवाच:
ततो रथादवप्लुत्य सौवलो भरतर्षभ |
३५ क
सञ्जय़ उवाच:
उलूकस्य रथं तूर्णमारुरोह विशां पते ||
३५ ख
सञ्जय़ उवाच:
तावेकरथमारूढौ पितापुत्रौ महारथौ |
३६ क
सञ्जय़ उवाच:
पार्थं सिषिचतुर्वाणैर्गिरिं मेघाविवोत्थितौ ||
३६ ख
सञ्जय़ उवाच:
तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः |
३७ क
सञ्जय़ उवाच:
विद्रावय़ंस्तव चमूं शतशो व्यधमच्छरैः ||
३७ ख
सञ्जय़ उवाच:
अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः |
३८ क
सञ्जय़ उवाच:
विच्छिन्नानि तथा राजन्वलान्यासन्विशां पते ||
३८ ख
सञ्जय़ उवाच:
तद्वलं भरतश्रेष्ठ वध्यमानं तथा निशि |
३९ क
सञ्जय़ उवाच:
प्रदुद्राव दिशः सर्वा वीक्षमाणं भय़ार्दितम् ||
३९ ख
सञ्जय़ उवाच:
उत्सृज्य वाहान्समरे चोदय़न्तस्तथापरे |
४० क
सञ्जय़ उवाच:
सम्भ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे ||
४० ख
सञ्जय़ उवाच:
विजित्य समरे योधांस्तावकान्भरतर्षभ |
४१ क
सञ्जय़ उवाच:
दध्मतुर्मुदितौ शङ्खौ वासुदेवधनञ्जय़ौ ||
४१ ख
सञ्जय़ उवाच:
धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः |
४२ क
सञ्जय़ उवाच:
चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह ||
४२ ख
सञ्जय़ उवाच:
तन्निधाय़ धनुर्नीडे द्रोणः क्षत्रिय़मर्दनः |
४३ क
सञ्जय़ उवाच:
आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् ||
४३ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः |
४४ क
सञ्जय़ उवाच:
सारथिं पञ्चभिर्वाणै राजन्विव्याध संय़ुगे ||
४४ ख
सञ्जय़ उवाच:
तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः |
४५ क
सञ्जय़ उवाच:
व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः ||
४५ ख
सञ्जय़ उवाच:
वध्यमाने वले तस्मिंस्तव पुत्रस्य मारिष |
४६ क
सञ्जय़ उवाच:
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी ||
४६ ख
सञ्जय़ उवाच:
उभय़ोः सेनय़ोर्मध्ये नराश्वद्विपवाहिनी |
४७ क
सञ्जय़ उवाच:
यथा वैतरणी राजन्यमराष्ट्रपुरं प्रति ||
४७ ख
सञ्जय़ उवाच:
द्रावय़ित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् |
४८ क
सञ्जय़ उवाच:
अत्यराजत तेजस्वी शक्रो देवगणेष्विव ||
४८ ख
सञ्जय़ उवाच:
अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ |
४९ क
सञ्जय़ उवाच:
यमौ च युय़ुधानश्च पाण्डवश्च वृकोदरः ||
४९ ख