भीष्म उवाच:
एवमुक्तः प्रत्युवाच तं मुनिं जनमेजय़ः |
१ क
भीष्म उवाच:
गर्ह्यं भवान्गर्हय़ति निन्द्यं निन्दति मा भवान् ||
१ ख
भीष्म उवाच:
धिक्कार्यं मा धिक्कुरुते तस्मात्त्वाहं प्रसादय़े |
२ क
भीष्म उवाच:
सर्वं हीदं स्वकृतं मे ज्वलाम्यग्नाविवाहितः ||
२ ख
भीष्म उवाच:
स्वकर्माण्यभिसन्धाय़ नाभिनन्दति मे मनः |
३ क
भीष्म उवाच:
प्राप्तं नूनं मय़ा घोरं भय़ं वैवस्वतादपि ||
३ ख
भीष्म उवाच:
तत्तु शल्यमनिर्हृत्य कथं शक्ष्यामि जीवितुम् |
४ क
भीष्म उवाच:
सर्वमन्यून्विनीय़ त्वमभि मा वद शौनक ||
४ ख
भीष्म उवाच:
महानसं व्राह्मणानां भविष्याम्यर्थवान्पुनः |
५ क
भीष्म उवाच:
अस्तु शेषं कुलस्यास्य मा पराभूदिदं कुलम् ||
५ ख
भीष्म उवाच:
न हि नो व्रह्मशप्तानां शेषो भवितुमर्हति |
६ क
भीष्म उवाच:
श्रुतीरलभमानानां संविदं वेदनिश्चय़ात् ||
६ ख
भीष्म उवाच:
निर्विद्यमानः सुभृशं भूय़ो वक्ष्यामि साम्प्रतम् |
७ क
भीष्म उवाच:
भूय़श्चैवाभिनङ्क्षन्ति निर्धर्मा निर्जपा इव ||
७ ख
भीष्म उवाच:
अर्वाक्च प्रतितिष्ठन्ति पुलिन्दशवरा इव |
८ क
भीष्म उवाच:
न ह्ययज्ञा अमुं लोकं प्राप्नुवन्ति कथञ्चन ||
८ ख
भीष्म उवाच:
अविज्ञाय़ैव मे प्रज्ञां वालस्येव सुपण्डितः |
९ क
भीष्म उवाच:
व्रह्मन्पितेव पुत्रेभ्यः प्रति मां वाञ्छ शौनक ||
९ ख
शौनक उवाच:
किमाश्चर्यं यतः प्राज्ञो वहु कुर्याद्धि साम्प्रतम् |
१० क
शौनक उवाच:
इति वै पण्डितो भूत्वा भूतानां नोपतप्यति ||
१० ख
शौनक उवाच:
प्रज्ञाप्रासादमारुह्य अशोच्यः शोचते जनान् |
११ क
शौनक उवाच:
जगतीस्थानिवाद्रिस्थः प्रज्ञय़ा प्रतिपश्यति ||
११ ख
शौनक उवाच:
न चोपलभते तत्र न च कार्याणि पश्यति |
१२ क
शौनक उवाच:
निर्विण्णात्मा परोक्षो वा धिक्कृतः सर्वसाधुषु ||
१२ ख
शौनक उवाच:
विदित्वोभय़तो वीर्यं माहात्म्यं वेद आगमे |
१३ क
शौनक उवाच:
कुरुष्वेह महाशान्तिं व्रह्मा शरणमस्तु ते ||
१३ ख
शौनक उवाच:
तद्वै पारत्रिकं चारु व्राह्मणानामकुप्यताम् |
१४ क
शौनक उवाच:
अथ चेत्तप्यसे पापैर्धर्मं चेदनुपश्यसि ||
१४ ख
जनमेजय़ उवाच:
अनुतप्ये च पापेन न चाधर्मं चराम्यहम् |
१५ क
जनमेजय़ उवाच:
वुभूषुं भजमानं च प्रतिवाञ्छामि शौनक ||
१५ ख
शौनक उवाच:
छित्त्वा स्तम्भं च मानं च प्रीतिमिच्छामि ते नृप |
१६ क
शौनक उवाच:
सर्वभूतहिते तिष्ठ धर्मं चैव प्रतिस्मर ||
१६ ख
शौनक उवाच:
न भय़ान्न च कार्पण्यान्न लोभात्त्वामुपाह्वय़े |
१७ क
शौनक उवाच:
तां मे देवा गिरं सत्यां शृण्वन्तु व्राह्मणैः सह ||
१७ ख
शौनक उवाच:
सोऽहं न केनचिच्चार्थी त्वां च धर्ममुपाह्वय़े |
१८ क
शौनक उवाच:
क्रोशतां सर्वभूतानामहो धिगिति कुर्वताम् ||
१८ ख
शौनक उवाच:
वक्ष्यन्ति मामधर्मज्ञा वक्ष्यन्त्यसुहृदो जनाः |
१९ क
शौनक उवाच:
वाचस्ताः सुहृदः श्रुत्वा सञ्ज्वरिष्यन्ति मे भृशम् ||
१९ ख
शौनक उवाच:
केचिदेव महाप्राज्ञाः परिज्ञास्यन्ति कार्यताम् |
२० क
शौनक उवाच:
जानीहि मे कृतं तात व्राह्मणान्प्रति भारत ||
२० ख
शौनक उवाच:
यथा ते मत्कृते क्षेमं लभेरंस्तत्तथा कुरु |
२१ क
शौनक उवाच:
प्रतिजानीहि चाद्रोहं व्राह्मणानां नराधिप ||
२१ ख
जनमेजय़ उवाच:
नैव वाचा न मनसा न पुनर्जातु कर्मणा |
२२ क
जनमेजय़ उवाच:
द्रोग्धास्मि व्राह्मणान्विप्र चरणावेव ते स्पृशे ||
२२ ख