वैशम्पाय़न उवाच:
इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने |
१ क
वैशम्पाय़न उवाच:
भीष्मं शान्तनवं भूय़ः पर्यपृच्छद्युधिष्ठिरः ||
१ ख
वैशम्पाय़न उवाच:
निर्णय़े वा महावुद्धे सर्वधर्मभृतां वर |
२ क
वैशम्पाय़न उवाच:
प्रत्यक्षमागमो वेति किं तय़ोः कारणं भवेत् ||
२ ख
भीष्म उवाच:
नास्त्यत्र संशय़ः कश्चिदिति मे वर्तते मतिः |
३ क
भीष्म उवाच:
शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि ||
३ ख
भीष्म उवाच:
संशय़ः सुगमो राजन्निर्णय़स्त्वत्र दुर्गमः |
४ क
भीष्म उवाच:
दृष्टं श्रुतमनन्तं हि यत्र संशय़दर्शनम् ||
४ ख
भीष्म उवाच:
प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः |
५ क
भीष्म उवाच:
नास्तीत्येवं व्यवस्यन्ति सत्यं संशय़मेव च |
५ ख
भीष्म उवाच:
तदय़ुक्तं व्यवस्यन्ति वालाः पण्डितमानिनः ||
५ ग
भीष्म उवाच:
अथ चेन्मन्यसे चैकं कारणं किं भवेदिति |
६ क
भीष्म उवाच:
शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च |
६ ख
भीष्म उवाच:
प्राणय़ात्रामनेकां च कल्पय़ानेन भारत ||
६ ग
भीष्म उवाच:
तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम् |
७ क
भीष्म उवाच:
हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् |
७ ख
भीष्म उवाच:
ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते ||
७ ग
भीष्म उवाच:
तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा |
८ क
भीष्म उवाच:
अग्राह्यमनिवद्धं च वाचः सम्परिवर्जनम् ||
८ ख
युधिष्ठिर उवाच:
प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः |
९ क
युधिष्ठिर उवाच:
शिष्टाचारो वहुविधो व्रूहि तन्मे पितामह ||
९ ख
भीष्म उवाच:
धर्मस्य ह्रिय़माणस्य वलवद्भिर्दुरात्मभिः |
१० क
भीष्म उवाच:
संस्था यत्नैरपि कृता कालेन परिभिद्यते ||
१० ख
भीष्म उवाच:
अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः |
११ क
भीष्म उवाच:
ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर ||
११ ख
भीष्म उवाच:
अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपराय़णाः |
१२ क
भीष्म उवाच:
धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशय़ः ||
१२ ख
भीष्म उवाच:
अतृप्यन्तस्तु साधूनां य एवागमवुद्धय़ः |
१३ क
भीष्म उवाच:
परमित्येव सन्तुष्टास्तानुपास्स्व च पृच्छ च ||
१३ ख
भीष्म उवाच:
कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ |
१४ क
भीष्म उवाच:
धर्म इत्येव सम्वुद्धास्तानुपास्स्व च पृच्छ च ||
१४ ख
भीष्म उवाच:
न तेषां भिद्यते वृत्तं यज्ञस्वाध्याय़कर्मभिः |
१५ क
भीष्म उवाच:
आचारः कारणं चैव धर्मश्चैव त्रय़ं पुनः ||
१५ ख
युधिष्ठिर उवाच:
पुनरेवेह मे वुद्धिः संशय़े परिमुह्यते |
१६ क
युधिष्ठिर उवाच:
अपारे मार्गमाणस्य परं तीरमपश्यतः ||
१६ ख
युधिष्ठिर उवाच:
वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रय़ं यदि |
१७ क
युधिष्ठिर उवाच:
पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रय़ं कथम् ||
१७ ख
भीष्म उवाच:
धर्मस्य ह्रिय़माणस्य वलवद्भिर्दुरात्मभिः |
१८ क
भीष्म उवाच:
यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा ||
१८ ख
भीष्म उवाच:
एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम् |
१९ क
भीष्म उवाच:
पृथक्त्वे चैव मे वुद्धिस्त्रय़ाणामपि वै तथा ||
१९ ख
भीष्म उवाच:
उक्तो मार्गस्त्रय़ाणां च तत्तथैव समाचर |
२० क
भीष्म उवाच:
जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात् ||
२० ख
भीष्म उवाच:
सदैव भरतश्रेष्ठ मा ते भूदत्र संशय़ः |
२१ क
भीष्म उवाच:
अन्धो जड इवाशङ्को यद्व्रवीमि तदाचर ||
२१ ख
भीष्म उवाच:
अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टय़म् |
२२ क
भीष्म उवाच:
अजातशत्रो सेवस्व धर्म एष सनातनः ||
२२ ख
भीष्म उवाच:
व्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता |
२३ क
भीष्म उवाच:
तामन्वेहि महावाहो स्वर्गस्यैते हि देशिकाः ||
२३ ख
भीष्म उवाच:
प्रमाणमप्रमाणं वै यः कुर्यादवुधो नरः |
२४ क
भीष्म उवाच:
न स प्रमाणतामर्हो विवादजननो हि सः ||
२४ ख
भीष्म उवाच:
व्राह्मणानेव सेवस्व सत्कृत्य वहुमन्य च |
२५ क
भीष्म उवाच:
एतेष्वेव त्विमे लोकाः कृत्स्ना इति निवोध तान् ||
२५ ख