chevron_left वन पर्व अध्याय १४७
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः |
१ क
वैशम्पाय़न उवाच:
भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः ||
१ ख
वैशम्पाय़न उवाच:
को भवान्किंनिमित्तं वा वानरं वपुराश्रितः |
२ क
वैशम्पाय़न उवाच:
व्राह्मणानन्तरो वर्णः क्षत्रिय़स्त्वानुपृच्छति ||
२ ख
वैशम्पाय़न उवाच:
कौरवः सोमवंशीय़ः कुन्त्या गर्भेण धारितः |
३ क
वैशम्पाय़न उवाच:
पाण्डवो वाय़ुतनय़ो भीमसेन इति श्रुतः ||
३ ख
वैशम्पाय़न उवाच:
स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् |
४ क
वैशम्पाय़न उवाच:
हनूमान्वाय़ुतनय़ो वाय़ुपुत्रमभाषत ||
४ ख
वैशम्पाय़न उवाच:
वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् |
५ क
वैशम्पाय़न उवाच:
साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् ||
५ ख
भीम उवाच:
वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर |
६ क
भीम उवाच:
प्रय़च्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम् ||
६ ख
हनूमानु उवाच:
नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम् |
७ क
हनूमानु उवाच:
यद्यवश्यं प्रय़ातव्यं लङ्घय़ित्वा प्रय़ाहि माम् ||
७ ख
भीम उवाच:
निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति |
८ क
भीम उवाच:
तमहं ज्ञानविज्ञेय़ं नावमन्ये न लङ्घय़े ||
८ ख
भीम उवाच:
यद्यागमैर्न विन्देय़ं तमहं भूतभावनम् |
९ क
भीम उवाच:
क्रमेय़ं त्वां गिरिं चेमं हनूमानिव सागरम् ||
९ ख
हनूमानु उवाच:
क एष हनुमान्नाम सागरो येन लङ्घितः |
१० क
हनूमानु उवाच:
पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते ||
१० ख
भीम उवाच:
भ्राता मम गुणश्लाघ्यो वुद्धिसत्त्ववलान्वितः |
११ क
भीम उवाच:
रामाय़णेऽतिविख्यातः शूरो वानरपुङ्गवः ||
११ ख
भीम उवाच:
रामपत्नीकृते येन शतय़ोजनमाय़तः |
१२ क
भीम उवाच:
सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः ||
१२ ख
भीम उवाच:
स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा |
१३ क
भीम उवाच:
वले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ||
१३ ख
भीम उवाच:
उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम् |
१४ क
भीम उवाच:
मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षय़म् ||
१४ ख
वैशम्पाय़न उवाच:
विज्ञाय़ तं वलोन्मत्तं वाहुवीर्येण गर्वितम् |
१५ क
वैशम्पाय़न उवाच:
हृदय़ेनावहस्यैनं हनूमान्वाक्यमव्रवीत् ||
१५ ख
वैशम्पाय़न उवाच:
प्रसीद नास्ति मे शक्तिरुत्थातुं जरय़ानघ |
१६ क
वैशम्पाय़न उवाच:
ममानुकम्पय़ा त्वेतत्पुच्छमुत्सार्य गम्यताम् ||
१६ ख
वैशम्पाय़न उवाच:
सावज्ञमथ वामेन स्मय़ञ्जग्राह पाणिना |
१७ क
वैशम्पाय़न उवाच:
न चाशकच्चालय़ितुं भीमः पुच्छं महाकपेः ||
१७ ख
वैशम्पाय़न उवाच:
उच्चिक्षेप पुनर्दोर्भ्यामिन्द्राय़ुधमिवोच्छ्रितम् |
१८ क
वैशम्पाय़न उवाच:
नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महावलः ||
१८ ख
वैशम्पाय़न उवाच:
उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः |
१९ क
वैशम्पाय़न उवाच:
स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह ||
१९ ख
वैशम्पाय़न उवाच:
यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुतः |
२० क
वैशम्पाय़न उवाच:
कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः ||
२० ख
वैशम्पाय़न उवाच:
प्रणिपत्य च कौन्तेय़ः प्राञ्जलिर्वाक्यमव्रवीत् |
२१ क
वैशम्पाय़न उवाच:
प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ||
२१ ख
वैशम्पाय़न उवाच:
सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः |
२२ क
वैशम्पाय़न उवाच:
पृष्टः सन्कामय़ा व्रूहि कस्त्वं वानररूपधृक् ||
२२ ख
हनूमानु उवाच:
यत्ते मम परिज्ञाने कौतूहलमरिन्दम |
२३ क
हनूमानु उवाच:
तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन ||
२३ ख
हनूमानु उवाच:
अहं केसरिणः क्षेत्रे वाय़ुना जगदाय़ुषा |
२४ क
हनूमानु उवाच:
जातः कमलपत्राक्ष हनूमान्नाम वानरः ||
२४ ख
हनूमानु उवाच:
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् |
२५ क
हनूमानु उवाच:
सर्ववानरराजानौ सर्ववानरय़ूथपाः ||
२५ ख
हनूमानु उवाच:
उपतस्थुर्महावीर्या मम चामित्रकर्शन |
२६ क
हनूमानु उवाच:
सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा ||
२६ ख
हनूमानु उवाच:
निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे |
२७ क
हनूमानु उवाच:
ऋश्यमूके मय़ा सार्धं सुग्रीवो न्यवसच्चिरम् ||
२७ ख
हनूमानु उवाच:
अथ दाशरथिर्वीरो रामो नाम महावलः |
२८ क
हनूमानु उवाच:
विष्णुर्मानुषरूपेण चचार वसुधामिमाम् ||
२८ ख
हनूमानु उवाच:
स पितुः प्रिय़मन्विच्छन्सहभार्यः सहानुजः |
२९ क
हनूमानु उवाच:
सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः ||
२९ ख
हनूमानु उवाच:
तस्य भार्या जनस्थानाद्रावणेन हृता वलात् |
३० क
हनूमानु उवाच:
वञ्चय़ित्वा महावुद्धिं मृगरूपेण राघवम् ||
३० ख
हनूमानु उवाच:
हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः |
३१ क
हनूमानु उवाच:
दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ||
३१ ख
हनूमानु उवाच:
तेन तस्याभवत्सख्यं राघवस्य महात्मनः |
३२ क
हनूमानु उवाच:
स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादय़त् |
३२ ख
हनूमानु उवाच:
स हरीन्प्रेषय़ामास सीताय़ाः परिमार्गणे ||
३२ ग
हनूमानु उवाच:
ततो वानरकोटीभिर्यां वय़ं प्रस्थिता दिशम् |
३३ क
हनूमानु उवाच:
तत्र प्रवृत्तिः सीताय़ा गृध्रेण प्रतिपादिता ||
३३ ख
हनूमानु उवाच:
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः |
३४ क
हनूमानु उवाच:
शतय़ोजनविस्तीर्णमर्णवं सहसाप्लुतः ||
३४ ख
हनूमानु उवाच:
दृष्टा सा च मय़ा देवी रावणस्य निवेशने |
३५ क
हनूमानु उवाच:
प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै ||
३५ ख
हनूमानु उवाच:
ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान् |
३६ क
हनूमानु उवाच:
पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा ||
३६ ख
हनूमानु उवाच:
ततः प्रतिष्ठिते रामे वीरोऽय़ं याचितो मय़ा |
३७ क
हनूमानु उवाच:
यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन् |
३७ ख
हनूमानु उवाच:
तावज्जीवेय़मित्येवं तथास्त्विति च सोऽव्रवीत् ||
३७ ग
हनूमानु उवाच:
दश वर्षसहस्राणि दश वर्षशतानि च |
३८ क
हनूमानु उवाच:
राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः ||
३८ ख
हनूमानु उवाच:
तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ |
३९ क
हनूमानु उवाच:
तस्य वीरस्य चरितं गाय़न्त्यो रमय़न्ति माम् ||
३९ ख
हनूमानु उवाच:
अय़ं च मार्गो मर्त्यानामगम्यः कुरुनन्दन |
४० क
हनूमानु उवाच:
ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् |
४० ख
हनूमानु उवाच:
धर्षय़ेद्वा शपेद्वापि मा कश्चिदिति भारत ||
४० ग
हनूमानु उवाच:
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः |
४१ क
हनूमानु उवाच:
यदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि ||
४१ ख