chevron_left उद्योग पर्व अध्याय १४७
वासुदेव उवाच:
एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः |
१ क
वासुदेव उवाच:
दुर्योधनमुवाचेदं नृपमध्ये जनाधिप ||
१ ख
वासुदेव उवाच:
दुर्योधन निवोधेदं यत्त्वां वक्ष्यामि पुत्रक |
२ क
वासुदेव उवाच:
तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् ||
२ ख
वासुदेव उवाच:
सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः |
३ क
वासुदेव उवाच:
सोमाद्वभूव षष्ठो वै यय़ातिर्नहुषात्मजः ||
३ ख
वासुदेव उवाच:
तस्य पुत्रा वभूवुश्च पञ्च राजर्षिसत्तमाः |
४ क
वासुदेव उवाच:
तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः ||
४ ख
वासुदेव उवाच:
पूरुर्यवीय़ांश्च ततो योऽस्माकं वंशवर्धनः |
५ क
वासुदेव उवाच:
शर्मिष्ठाय़ाः सम्प्रसूतो दुहितुर्वृषपर्वणः ||
५ ख
वासुदेव उवाच:
यदुश्च भरतश्रेष्ठ देवय़ान्याः सुतोऽभवत् |
६ क
वासुदेव उवाच:
दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः ||
६ ख
वासुदेव उवाच:
यादवानां कुलकरो वलवान्वीर्यसंमतः |
७ क
वासुदेव उवाच:
अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः ||
७ ख
वासुदेव उवाच:
न चातिष्ठत्पितुः शास्त्रे वलदर्पविमोहितः |
८ क
वासुदेव उवाच:
अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ||
८ ख
वासुदेव उवाच:
पृथिव्यां चतुरन्ताय़ां यदुरेवाभवद्वली |
९ क
वासुदेव उवाच:
वशे कृत्वा स नृपतीनवसन्नागसाह्वय़े ||
९ ख
वासुदेव उवाच:
तं पिता परमक्रुद्धो यय़ातिर्नहुषात्मजः |
१० क
वासुदेव उवाच:
शशाप पुत्रं गान्धारे राज्याच्च व्यपरोपय़त् ||
१० ख
वासुदेव उवाच:
य चैनमन्ववर्तन्त भ्रातरो वलदर्पितम् |
११ क
वासुदेव उवाच:
शशाप तानपि क्रुद्धो यय़ातिस्तनय़ानथ ||
११ ख
वासुदेव उवाच:
यवीय़ांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् |
१२ क
वासुदेव उवाच:
राज्ये निवेशय़ामास विधेय़ं नृपसत्तमः ||
१२ ख
वासुदेव उवाच:
एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजाय़ते |
१३ क
वासुदेव उवाच:
यवीय़ांसोऽभिजाय़न्ते राज्यं वृद्धोपसेवय़ा ||
१३ ख
वासुदेव उवाच:
तथैव सर्वधर्मज्ञः पितुर्मम पितामहः |
१४ क
वासुदेव उवाच:
प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ||
१४ ख
वासुदेव उवाच:
तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः |
१५ क
वासुदेव उवाच:
त्रय़ः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ||
१५ ख
वासुदेव उवाच:
देवापिरभवज्ज्येष्ठो वाह्लीकस्तदनन्तरम् |
१६ क
वासुदेव उवाच:
तृतीय़ः शन्तनुस्तात धृतिमान्मे पितामहः ||
१६ ख
वासुदेव उवाच:
देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः |
१७ क
वासुदेव उवाच:
धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ||
१७ ख
वासुदेव उवाच:
पौरजानपदानां च संमतः साधुसत्कृतः |
१८ क
वासुदेव उवाच:
सर्वेषां वालवृद्धानां देवापिर्हृदय़ङ्गमः ||
१८ ख
वासुदेव उवाच:
प्राज्ञश्च सत्यसन्धश्च सर्वभूतहिते रतः |
१९ क
वासुदेव उवाच:
वर्तमानः पितुः शास्त्रे व्राह्मणानां तथैव च ||
१९ ख
वासुदेव उवाच:
वाह्लीकस्य प्रिय़ो भ्राता शन्तनोश्च महात्मनः |
२० क
वासुदेव उवाच:
सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ||
२० ख
वासुदेव उवाच:
अथ कालस्य पर्याय़े वृद्धो नृपतिसत्तमः |
२१ क
वासुदेव उवाच:
सम्भारानभिषेकार्थं कारय़ामास शास्त्रतः |
२१ ख
वासुदेव उवाच:
मङ्गलानि च सर्वाणि कारय़ामास चाभिभूः ||
२१ ग
वासुदेव उवाच:
तं व्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह |
२२ क
वासुदेव उवाच:
सर्वे निवारय़ामासुर्देवापेरभिषेचनम् ||
२२ ख
वासुदेव उवाच:
स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम् |
२३ क
वासुदेव उवाच:
अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् ||
२३ ख
वासुदेव उवाच:
एवं वदान्यो धर्मज्ञः सत्यसन्धश्च सोऽभवत् |
२४ क
वासुदेव उवाच:
प्रिय़ः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ||
२४ ख
वासुदेव उवाच:
हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः |
२५ क
वासुदेव उवाच:
इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः ||
२५ ख
वासुदेव उवाच:
ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः |
२६ क
वासुदेव उवाच:
ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् ||
२६ ख
वासुदेव उवाच:
वाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः |
२७ क
वासुदेव उवाच:
पितृभ्रातॄन्परित्यज्य प्राप्तवान्पुरमृद्धिमत् ||
२७ ख
वासुदेव उवाच:
वाह्लीकेन त्वनुज्ञातः शन्तनुर्लोकविश्रुतः |
२८ क
वासुदेव उवाच:
पितर्युपरते राजन्राजा राज्यमकारय़त् ||
२८ ख
वासुदेव उवाच:
तथैवाहं मतिमता परिचिन्त्येह पाण्डुना |
२९ क
वासुदेव उवाच:
ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ||
२९ ख
वासुदेव उवाच:
पाण्डुस्तु राज्यं सम्प्राप्तः कनीय़ानपि सन्नृपः |
३० क
वासुदेव उवाच:
विनाशे तस्य पुत्राणामिदं राज्यमरिन्दम |
३० ख
वासुदेव उवाच:
मय़्यभागिनि राज्याय़ कथं त्वं राज्यमिच्छसि ||
३० ग
वासुदेव उवाच:
युधिष्ठिरो राजपुत्रो महात्मा; न्याय़ागतं राज्यमिदं च तस्य |
३१ क
वासुदेव उवाच:
स कौरवस्यास्य जनस्य भर्ता; प्रशासिता चैव महानुभावः ||
३१ ख
वासुदेव उवाच:
स सत्यसन्धः सतताप्रमत्तः; शास्त्रे स्थितो वन्धुजनस्य साधुः |
३२ क
वासुदेव उवाच:
प्रिय़ः प्रजानां सुहृदानुकम्पी; जितेन्द्रिय़ः साधुजनस्य भर्ता ||
३२ ख
वासुदेव उवाच:
क्षमा तितिक्षा दम आर्जवं च; सत्यव्रतत्वं श्रुतमप्रमादः |
३३ क
वासुदेव उवाच:
भूतानुकम्पा ह्यनुशासनं च; युधिष्ठिरे राजगुणाः समस्ताः ||
३३ ख
वासुदेव उवाच:
अराजपुत्रस्त्वमनार्यवृत्तो; लुव्धस्तथा वन्धुषु पापवुद्धिः |
३४ क
वासुदेव उवाच:
क्रमागतं राज्यमिदं परेषां; हर्तुं कथं शक्ष्यसि दुर्विनीतः ||
३४ ख
वासुदेव उवाच:
प्रय़च्छ राज्यार्धमपेतमोहः; सवाहनं त्वं सपरिच्छदं च |
३५ क
वासुदेव उवाच:
ततोऽवशेषं तव जीवितस्य; सहानुजस्यैव भवेन्नरेन्द्र ||
३५ ख