chevron_left द्रोण पर्व अध्याय १४७
सञ्जय़ उवाच:
विद्रुतं स्ववलं दृष्ट्वा वध्यमानं महात्मभिः |
१ क
सञ्जय़ उवाच:
क्रोधेन महताविष्टः पुत्रस्तव विशां पते ||
१ ख
सञ्जय़ उवाच:
अभ्येत्य सहसा कर्णं द्रोणं च जय़तां वरम् |
२ क
सञ्जय़ उवाच:
अमर्षवशमापन्नो वाक्यज्ञो वाक्यमव्रवीत् ||
२ ख
सञ्जय़ उवाच:
भवद्भ्यामिह सङ्ग्रामो क्रुद्धाभ्यां सम्प्रवर्तितः |
३ क
सञ्जय़ उवाच:
आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना ||
३ ख
सञ्जय़ उवाच:
निहन्यमानां पाण्डूनां वलेन मम वाहिनीम् |
४ क
सञ्जय़ उवाच:
भूत्वा तद्विजय़े शक्तावशक्ताविव पश्यतः ||
४ ख
सञ्जय़ उवाच:
यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि |
५ क
सञ्जय़ उवाच:
आवां पाण्डुसुतान्सङ्ख्ये जेष्याव इति मानदौ ||
५ ख
सञ्जय़ उवाच:
तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसंमतम् |
६ क
सञ्जय़ उवाच:
कृतवान्पाण्डवैः सार्धं वैरं योधविनाशनम् ||
६ ख
सञ्जय़ उवाच:
यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ |
७ क
सञ्जय़ उवाच:
युध्येतामनुरूपेण विक्रमेण सुविक्रमौ ||
७ ख
सञ्जय़ उवाच:
वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनय़ेन ते |
८ क
सञ्जय़ उवाच:
प्रावर्तय़ेतां तौ युद्धं घट्टिताविव पन्नगौ ||
८ ख
सञ्जय़ उवाच:
ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ |
९ क
सञ्जय़ उवाच:
शैनेय़प्रमुखान्पार्थानभिदुद्रुवतू रणे ||
९ ख
सञ्जय़ उवाच:
तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः |
१० क
सञ्जय़ उवाच:
अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः ||
१० ख
सञ्जय़ उवाच:
अथ द्रोणो महेष्वासो दशभिः शिनिपुङ्गवम् |
११ क
सञ्जय़ उवाच:
अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः ||
११ ख
सञ्जय़ उवाच:
कर्णश्च दशभिर्वाणैः पुत्रश्च तव सप्तभिः |
१२ क
सञ्जय़ उवाच:
दशभिर्वृषसेनश्च सौवलश्चापि सप्तभिः |
१२ ख
सञ्जय़ उवाच:
एते कौरव सङ्क्रन्दे शैनेय़ं पर्यवारय़न् ||
१२ ग
सञ्जय़ उवाच:
दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम् |
१३ क
सञ्जय़ उवाच:
विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः ||
१३ ख
सञ्जय़ उवाच:
ततो द्रोणोऽहरत्प्राणान्क्षत्रिय़ाणां विशां पते |
१४ क
सञ्जय़ उवाच:
रश्मिभिर्भास्करो राजंस्तमसामिव भारत ||
१४ ख
सञ्जय़ उवाच:
द्रोणेन वध्यमानानां पाञ्चालानां विशां पते |
१५ क
सञ्जय़ उवाच:
शुश्रुवे तुमुलः शव्दः क्रोशतामितरेतरम् ||
१५ ख
सञ्जय़ उवाच:
पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान् |
१६ क
सञ्जय़ उवाच:
भागिनेय़ान्वय़स्यांश्च तथा सम्वन्धिवान्धवान् |
१६ ख
सञ्जय़ उवाच:
उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः ||
१६ ग
सञ्जय़ उवाच:
अपरे मोहिता मोहात्तमेवाभिमुखा यय़ुः |
१७ क
सञ्जय़ उवाच:
पाण्डवानां रणे योधाः परलोकं तथापरे ||
१७ ख
सञ्जय़ उवाच:
सा तथा पाण्डवी सेना वध्यमाना महात्मभिः |
१८ क
सञ्जय़ उवाच:
निशि सम्प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ||
१८ ख
सञ्जय़ उवाच:
पश्यतो भीमसेनस्य विजय़स्याच्युतस्य च |
१९ क
सञ्जय़ उवाच:
यमय़ोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः ||
१९ ख
सञ्जय़ उवाच:
तमसा संवृते लोके न प्राज्ञाय़त किञ्चन |
२० क
सञ्जय़ उवाच:
कौरवाणां प्रकाशेन दृश्यन्ते तु द्रुताः परे ||
२० ख
सञ्जय़ उवाच:
द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ |
२१ क
सञ्जय़ उवाच:
जघ्नतुः पृष्ठतो राजन्किरन्तौ साय़कान्वहून् ||
२१ ख
सञ्जय़ उवाच:
पाञ्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः |
२२ क
सञ्जय़ उवाच:
जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम् ||
२२ ख
सञ्जय़ उवाच:
द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी |
२३ क
सञ्जय़ उवाच:
पाञ्चालांश्चैव सहितौ जघ्नतुः साय़कैर्भृशम् ||
२३ ख
सञ्जय़ उवाच:
एतय़ोः शरवर्षेण प्रभग्ना नो महारथाः |
२४ क
सञ्जय़ उवाच:
वार्यमाणापि कौन्तेय़ पृतना नावतिष्ठते ||
२४ ख
सञ्जय़ उवाच:
एतावावां सर्वसैन्यैर्व्यूढैः सम्यगुदाय़ुधैः |
२५ क
सञ्जय़ उवाच:
द्रोणं च सूतपुत्रं च प्रय़तावः प्रवाधितुम् ||
२५ ख
सञ्जय़ उवाच:
एतौ हि वलिनौ शूरौ कृतास्त्रौ जितकाशिनौ |
२६ क
सञ्जय़ उवाच:
उपेक्षितौ वलं क्रुद्धौ नाशय़ेतां निशामिमाम् |
२६ ख
सञ्जय़ उवाच:
एष भीमोऽभिय़ात्युग्रः पुनरावर्त्य वाहिनीम् ||
२६ ग
सञ्जय़ उवाच:
वृकोदरं तथाय़ान्तं दृष्ट्वा तत्र जनार्दनः |
२७ क
सञ्जय़ उवाच:
पुनरेवाव्रवीद्राजन्हर्षय़न्निव पाण्डवम् ||
२७ ख
सञ्जय़ उवाच:
एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः |
२८ क
सञ्जय़ उवाच:
रुषितोऽभ्येति वेगेन द्रोणकर्णौ महावलौ ||
२८ ख
सञ्जय़ उवाच:
एतेन सहितो युध्य पाञ्चालैश्च महारथैः |
२९ क
सञ्जय़ उवाच:
आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन ||
२९ ख
सञ्जय़ उवाच:
ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ |
३० क
सञ्जय़ उवाच:
द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि ||
३० ख
सञ्जय़ उवाच:
ततस्तत्पुनरावृत्तं युधिष्ठिरवलं महत् |
३१ क
सञ्जय़ उवाच:
ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि ||
३१ ख
सञ्जय़ उवाच:
स सम्प्रहारस्तुमुलो निशि प्रत्यभवन्महान् |
३२ क
सञ्जय़ उवाच:
यथा सागरय़ो राजंश्चन्द्रोदय़विवृद्धय़ोः ||
३२ ख
सञ्जय़ उवाच:
तत उत्सृज्य पाणिभ्यः प्रदीपांस्तव वाहिनी |
३३ क
सञ्जय़ उवाच:
युय़ुधे पाण्डवैः सार्धमुन्मत्तवदहःक्षय़े ||
३३ ख
सञ्जय़ उवाच:
रजसा तमसा चैव संवृते भृशदारुणे |
३४ क
सञ्जय़ उवाच:
केवलं नामगोत्रेण प्राय़ुध्यन्त जय़ैषिणः ||
३४ ख
सञ्जय़ उवाच:
अश्रूय़न्त हि नामानि श्राव्यमाणानि पार्थिवैः |
३५ क
सञ्जय़ उवाच:
प्रहरद्भिर्महाराज स्वय़ंवर इवाहवे ||
३५ ख
सञ्जय़ उवाच:
निःशव्दमासीत्सहसा पुनः शव्दो महानभूत् |
३६ क
सञ्जय़ उवाच:
क्रुद्धानां युध्यमानानां जय़तां जीय़तामपि ||
३६ ख
सञ्जय़ उवाच:
यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम |
३७ क
सञ्जय़ उवाच:
तत्र तत्र स्म ते शूरा निपतन्ति पतङ्गवत् ||
३७ ख
सञ्जय़ उवाच:
तथा संय़ुध्यमानानां विगाढाभून्महानिशा |
३८ क
सञ्जय़ उवाच:
पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः ||
३८ ख