chevron_left द्रोण पर्व अध्याय १४८
सञ्जय़ उवाच:
सङ्ग्रामे युध्यमानस्य सततं भीमनन्दन ||
४९ ख
सञ्जय़ उवाच:
पाण्डवानां प्रभग्नानां कर्णेन शितसाय़कैः |
५० क
सञ्जय़ उवाच:
मज्जतां धार्तराष्ट्रेषु भव पारं परन्तप ||
५० ख
सञ्जय़ उवाच:
रात्रौ हि राक्षसा भूय़ो भवन्त्यमितविक्रमाः |
५१ क
सञ्जय़ उवाच:
वलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः ||
५१ ख
सञ्जय़ उवाच:
जहि कर्णं महेष्वासं निशीथे माय़या रणे |
५२ क
सञ्जय़ उवाच:
पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः ||
५२ ख
सञ्जय़ उवाच:
केशवस्य वचः श्रुत्वा वीभत्सुरपि राक्षसम् |
५३ क
सञ्जय़ उवाच:
अभ्यभाषत कौरव्य घटोत्कचमरिन्दमम् ||
५३ ख
सञ्जय़ उवाच:
घटोत्कच भवांश्चैव दीर्घवाहुश्च सात्यकिः |
५४ क
सञ्जय़ उवाच:
मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः ||
५४ ख
सञ्जय़ उवाच:
स भवान्यातु कर्णेन द्वैरथं युध्यतां निशि |
५५ क
सञ्जय़ उवाच:
सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः ||
५५ ख
सञ्जय़ उवाच:
जहि कर्णं रणे शूरं सात्वतेन सहाय़वान् |
५६ क
सञ्जय़ उवाच:
यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान् ||
५६ ख
घटोत्कच उवाच:
अलमेवास्मि कर्णाय़ द्रोणाय़ालं च सत्तम |
५७ क
घटोत्कच उवाच:
अन्येषां क्षत्रिय़ाणां च कृतास्त्राणां महात्मनाम् ||
५७ ख
घटोत्कच उवाच:
अद्य दास्यामि सङ्ग्रामं सूतपुत्राय़ तं निशि |
५८ क
घटोत्कच उवाच:
यं जनाः सम्प्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति ||
५८ ख
घटोत्कच उवाच:
न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन् |
५९ क
घटोत्कच उवाच:
सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः ||
५९ ख
सञ्जय़ उवाच:
एवमुक्त्वा महावाहुर्हैडिम्वः परवीरहा |
६० क
सञ्जय़ उवाच:
अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषय़न् ||
६० ख
सञ्जय़ उवाच:
तमापतन्तं सङ्क्रुद्धं दीप्तास्यमिव पन्नगम् |
६१ क
सञ्जय़ उवाच:
अभ्यस्यन्परमेष्वासः प्रतिजग्राह सूतजः ||
६१ ख
सञ्जय़ उवाच:
तय़ोः समभवद्युद्धं कर्णराक्षसय़ोर्निशि |
६२ क
सञ्जय़ उवाच:
गर्जतो राजशार्दूल शक्रप्रह्रादय़ोरिव ||
६२ ख