कुन्त्यु उवाच:
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः |
१ क
कुन्त्यु उवाच:
विदित्वा अपकर्षेय़ं शक्यं चेदपकर्षितुम् ||
१ ख
व्राह्मण उवाच:
उपपन्नं सतामेतद्यद्व्रवीषि तपोधने |
२ क
व्राह्मण उवाच:
न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ||
२ ख
व्राह्मण उवाच:
समीपे नगरस्यास्य वको वसति राक्षसः |
३ क
व्राह्मण उवाच:
ईशो जनपदस्यास्य पुरस्य च महावलः ||
३ ख
व्राह्मण उवाच:
पुष्टो मानुषमांसेन दुर्वुद्धिः पुरुषादकः |
४ क
व्राह्मण उवाच:
रक्षत्यसुरराण्नित्यमिमं जनपदं वली ||
४ ख
व्राह्मण उवाच:
नगरं चैव देशं च रक्षोवलसमन्वितः |
५ क
व्राह्मण उवाच:
तत्कृते परचक्राच्च भूतेभ्यश्च न नो भय़म् ||
५ ख
व्राह्मण उवाच:
वेतनं तस्य विहितं शालिवाहस्य भोजनम् |
६ क
व्राह्मण उवाच:
महिषौ पुरुषश्चैको यस्तदादाय़ गच्छति ||
६ ख
व्राह्मण उवाच:
एकैकश्चैव पुरुषस्तत्प्रय़च्छति भोजनम् |
७ क
व्राह्मण उवाच:
स वारो वहुभिर्वर्षैर्भवत्यसुतरो नरैः ||
७ ख
व्राह्मण उवाच:
तद्विमोक्षाय़ ये चापि यतन्ते पुरुषाः क्वचित् |
८ क
व्राह्मण उवाच:
सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षय़त्युत ||
८ ख
व्राह्मण उवाच:
वेत्रकीय़गृहे राजा नाय़ं नय़मिहास्थितः |
९ क
व्राह्मण उवाच:
अनामय़ं जनस्यास्य येन स्यादद्य शाश्वतम् ||
९ ख
व्राह्मण उवाच:
एतदर्हा वय़ं नूनं वसामो दुर्वलस्य ये |
१० क
व्राह्मण उवाच:
विषय़े नित्यमुद्विग्नाः कुराजानमुपाश्रिताः ||
१० ख
व्राह्मण उवाच:
व्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः |
११ क
व्राह्मण उवाच:
गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा ||
११ ख
व्राह्मण उवाच:
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् |
१२ क
व्राह्मण उवाच:
त्रय़स्य सञ्चय़े चास्य ज्ञातीन्पुत्रांश्च धारय़ेत् ||
१२ ख
व्राह्मण उवाच:
विपरीतं मय़ा चेदं त्रय़ं सर्वमुपार्जितम् |
१३ क
व्राह्मण उवाच:
त इमामापदं प्राप्य भृशं तप्स्यामहे वय़म् ||
१३ ख
व्राह्मण उवाच:
सोऽय़मस्माननुप्राप्तो वारः कुलविनाशनः |
१४ क
व्राह्मण उवाच:
भोजनं पुरुषश्चैकः प्रदेय़ं वेतनं मय़ा ||
१४ ख
व्राह्मण उवाच:
न च मे विद्यते वित्तं सङ्क्रेतुं पुरुषं क्वचित् |
१५ क
व्राह्मण उवाच:
सुहृज्जनं प्रदातुं च न शक्ष्यामि कथञ्चन |
१५ ख
व्राह्मण उवाच:
गतिं चापि न पश्यामि तस्मान्मोक्षाय़ रक्षसः ||
१५ ग
व्राह्मण उवाच:
सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् |
१६ क
व्राह्मण उवाच:
सहैवैतैर्गमिष्यामि वान्धवैरद्य राक्षसम् |
१६ ख
व्राह्मण उवाच:
ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति ||
१६ ग