शौनक उवाच:
तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृत्तचेतसे |
१ क
शौनक उवाच:
श्रीमान्महावलस्तुष्टो यस्त्वं धर्ममवेक्षसे |
१ ख
शौनक उवाच:
पुरस्ताद्दारुणो भूत्वा सुचित्रतरमेव तत् ||
१ ग
शौनक उवाच:
अनुगृह्णन्ति भूतानि स्वेन वृत्तेन पार्थिव |
२ क
शौनक उवाच:
कृत्स्ने नूनं सदसती इति लोको व्यवस्यति |
२ ख
शौनक उवाच:
यत्र त्वं तादृशो भूत्वा धर्ममद्यानुपश्यसि ||
२ ग
शौनक उवाच:
हित्वा सुरुचिरं भक्ष्यं भोगांश्च तप आस्थितः |
३ क
शौनक उवाच:
इत्येतदपि भूतानामद्भुतं जनमेजय़ ||
३ ख
शौनक उवाच:
यो दुर्वलो भवेद्दाता कृपणो वा तपोधनः |
४ क
शौनक उवाच:
अनाश्चर्यं तदित्याहुर्नातिदूरे हि वर्तते ||
४ ख
शौनक उवाच:
एतदेव हि कार्पण्यं समग्रमसमीक्षितम् |
५ क
शौनक उवाच:
तस्मात्समीक्षय़ैव स्याद्भवेत्तस्मिंस्ततो गुणः ||
५ ख
शौनक उवाच:
यज्ञो दानं दय़ा वेदाः सत्यं च पृथिवीपते |
६ क
शौनक उवाच:
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः ||
६ ख
शौनक उवाच:
तदेव राज्ञां परमं पवित्रं जनमेजय़ |
७ क
शौनक उवाच:
तेन सम्यग्गृहीतेन श्रेय़ांसं धर्ममाप्स्यसि ||
७ ख
शौनक उवाच:
पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम् |
८ क
शौनक उवाच:
अपि ह्युदाहरन्तीमा गाथा गीता यय़ातिना ||
८ ख
शौनक उवाच:
यो मर्त्यः प्रतिपद्येत आय़ुर्जीवेत वा पुनः |
९ क
शौनक उवाच:
यज्ञमेकान्ततः कृत्वा तत्संन्यस्य तपश्चरेत् ||
९ ख
शौनक उवाच:
पुण्यमाहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम् |
१० क
शौनक उवाच:
यत्रावगाह्य पीत्वा वा नैवं श्वोमरणं तपेत् ||
१० ख
शौनक उवाच:
महासरः पुष्कराणि प्रभासोत्तरमानसे |
११ क
शौनक उवाच:
कालोदं त्वेव गन्तासि लव्धाय़ुर्जीविते पुनः ||
११ ख
शौनक उवाच:
सरस्वतीदृषद्वत्यौ सेवमानोऽनुसञ्चरेः |
१२ क
शौनक उवाच:
स्वाध्याय़शीलः स्थानेषु सर्वेषु समुपस्पृशेः ||
१२ ख
शौनक उवाच:
त्यागधर्मं पवित्राणां संन्यासं परमव्रवीत् |
१३ क
शौनक उवाच:
अत्राप्युदाहरन्तीमा गाथाः सत्यवता कृताः ||
१३ ख
शौनक उवाच:
यथा कुमारः सत्यो वै न पुण्यो न च पापकृत् |
१४ क
शौनक उवाच:
न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम् ||
१४ ख
शौनक उवाच:
एवं प्रकृतिभूतानां सर्वसंसर्गय़ाय़िनाम् |
१५ क
शौनक उवाच:
त्यजतां जीवितं प्राय़ो विवृते पुण्यपातके ||
१५ ख
शौनक उवाच:
यत्त्वेव राज्ञो ज्याय़ो वै कार्याणां तद्वदामि ते |
१६ क
शौनक उवाच:
वलेन संविभागैश्च जय़ स्वर्गं पुनीष्व च ||
१६ ख
शौनक उवाच:
यस्यैवं वलमोजश्च स धर्मस्य प्रभुर्नरः |
१७ क
शौनक उवाच:
व्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम् ||
१७ ख
शौनक उवाच:
यथैवैनान्पुराक्षैप्सीस्तथैवैनान्प्रसादय़ |
१८ क
शौनक उवाच:
अपि धिक्क्रिय़माणोऽपि त्यज्यमानोऽप्यनेकधा ||
१८ ख
शौनक उवाच:
आत्मनो दर्शनं विद्वन्नाहन्तास्मीति मा क्रुधः |
१९ क
शौनक उवाच:
घटमानः स्वकार्येषु कुरु नैःश्रेय़सं परम् ||
१९ ख
शौनक उवाच:
हिमाग्निघोरसदृशो राजा भवति कश्चन |
२० क
शौनक उवाच:
लाङ्गलाशनिकल्पो वा भवत्यन्यः परन्तप ||
२० ख
शौनक उवाच:
न निःशेषेण मन्तव्यमचिकित्स्येन वा पुनः |
२१ क
शौनक उवाच:
न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु ||
२१ ख
शौनक उवाच:
विकर्मणा तप्यमानः पादात्पापस्य मुच्यते |
२२ क
शौनक उवाच:
नैतत्कार्यं पुनरिति द्वितीय़ात्परिमुच्यते |
२२ ख
शौनक उवाच:
चरिष्ये धर्ममेवेति तृतीय़ात्परिमुच्यते ||
२२ ग
शौनक उवाच:
कल्याणमनुमन्तव्यं पुरुषेण वुभूषता |
२३ क
शौनक उवाच:
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते |
२३ ख
शौनक उवाच:
ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ते ||
२३ ग
शौनक उवाच:
तपश्चर्यापरः सद्यः पापाद्धि परिमुच्यते |
२४ क
शौनक उवाच:
संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते |
२४ ख
शौनक उवाच:
त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते ||
२४ ग
शौनक उवाच:
यावतः प्राणिनो हन्यात्तज्जातीय़ान्स्वभावतः |
२५ क
शौनक उवाच:
प्रमीय़माणानुन्मोच्य भ्रूणहा विप्रमुच्यते ||
२५ ख
शौनक उवाच:
अपि वाप्सु निमज्जेत त्रिर्जपन्नघमर्षणम् |
२६ क
शौनक उवाच:
यथाश्वमेधावभृथस्तथा तन्मनुरव्रवीत् ||
२६ ख
शौनक उवाच:
क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा |
२७ क
शौनक उवाच:
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् ||
२७ ख
शौनक उवाच:
वृहस्पतिं देवगुरुं सुरासुराः; समेत्य सर्वे नृपतेऽन्वय़ुञ्जन् |
२८ क
शौनक उवाच:
धर्मे फलं वेत्थ कृते महर्षे; तथेतरस्मिन्नरके पापलोके ||
२८ ख
शौनक उवाच:
उभे तु यस्य सुकृते भवेतां; किं स्वित्तय़ोस्तत्र जय़ोत्तरं स्यात् |
२९ क
शौनक उवाच:
आचक्ष्व नः कर्मफलं महर्षे; कथं पापं नुदते पुण्यशीलः ||
२९ ख
वृहस्पतिरु उवाच:
कृत्वा पापं पूर्वमवुद्धिपूर्वं; पुण्यानि यः कुरुते वुद्धिपूर्वम् |
३० क
वृहस्पतिरु उवाच:
स तत्पापं नुदते पुण्यशीलो; वासो यथा मलिनं क्षारय़ुक्त्या ||
३० ख
वृहस्पतिरु उवाच:
पापं कृत्वा न मन्येत नाहमस्मीति पूरुषः |
३१ क
वृहस्पतिरु उवाच:
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूय़कः ||
३१ ख
वृहस्पतिरु उवाच:
छिद्राणि वसनस्येव साधुना विवृणोति यः |
३२ क
वृहस्पतिरु उवाच:
यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते ||
३२ ख
वृहस्पतिरु उवाच:
यथादित्यः पुनरुद्यंस्तमः सर्वं व्यपोहति |
३३ क
वृहस्पतिरु उवाच:
कल्याणमाचरन्नेवं सर्वं पापं व्यपोहति ||
३३ ख
भीष्म उवाच:
एवमुक्त्वा स राजानमिन्द्रोतो जनमेजय़म् |
३४ क
भीष्म उवाच:
याजय़ामास विधिवद्वाजिमेधेन शौनकः ||
३४ ख
भीष्म उवाच:
ततः स राजा व्यपनीतकल्मषः; श्रिय़ा युतः प्रज्वलिताग्निरूपय़ा |
३५ क
भीष्म उवाच:
विवेश राज्यं स्वममित्रकर्शनो; दिवं यथा पूर्णवपुर्निशाकरः ||
३५ ख