वैशम्पाय़न उवाच:
एवमुक्तो महावाहुर्भीमसेनः प्रतापवान् |
१ क
वैशम्पाय़न उवाच:
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः |
१ ख
वैशम्पाय़न उवाच:
उवाच श्लक्ष्णय़ा वाचा हनूमन्तं कपीश्वरम् ||
१ ग
वैशम्पाय़न उवाच:
मय़ा धन्यतरो नास्ति यदार्यं दृष्टवानहम् |
२ क
वैशम्पाय़न उवाच:
अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् ||
२ ख
वैशम्पाय़न उवाच:
एवं तु कृतमिच्छामि त्वय़ार्याद्य प्रिय़ं मम |
३ क
वैशम्पाय़न उवाच:
यत्ते तदासीत्प्लवतः सागरं मकरालय़म् |
३ ख
वैशम्पाय़न उवाच:
रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् ||
३ ग
वैशम्पाय़न उवाच:
एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः |
४ क
वैशम्पाय़न उवाच:
एवमुक्तः स तेजस्वी प्रहस्य हरिरव्रवीत् ||
४ ख
वैशम्पाय़न उवाच:
न तच्छक्यं त्वय़ा द्रष्टुं रूपं नान्येन केनचित् |
५ क
वैशम्पाय़न उवाच:
कालावस्था तदा ह्यन्या वर्तते सा न साम्प्रतम् ||
५ ख
वैशम्पाय़न उवाच:
अन्यः कृतय़ुगे कालस्त्रेताय़ां द्वापरेऽपरः |
६ क
वैशम्पाय़न उवाच:
अय़ं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ||
६ ख
वैशम्पाय़न उवाच:
भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षय़ः |
७ क
वैशम्पाय़न उवाच:
कालं समनुवर्तन्ते यथा भावा युगे युगे |
७ ख
वैशम्पाय़न उवाच:
वलवर्ष्मप्रभावा हि प्रहीय़न्त्युद्भवन्ति च ||
७ ग
वैशम्पाय़न उवाच:
तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह |
८ क
वैशम्पाय़न उवाच:
युगं समनुवर्तामि कालो हि दुरतिक्रमः ||
८ ख
भीम उवाच:
युगसङ्ख्यां समाचक्ष्व आचारं च युगे युगे |
९ क
भीम उवाच:
धर्मकामार्थभावांश्च वर्ष्म वीर्यं भवाभवौ ||
९ ख
हनूमानु उवाच:
कृतं नाम युगं तात यत्र धर्मः सनातनः |
१० क
हनूमानु उवाच:
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ||
१० ख
हनूमानु उवाच:
न तत्र धर्माः सीदन्ति न क्षीय़न्ते च वै प्रजाः |
११ क
हनूमानु उवाच:
ततः कृतय़ुगं नाम कालेन गुणतां गतम् ||
११ ख
हनूमानु उवाच:
देवदानवगन्धर्वय़क्षराक्षसपन्नगाः |
१२ क
हनूमानु उवाच:
नासन्कृतय़ुगे तात तदा न क्रय़विक्रय़ाः ||
१२ ख
हनूमानु उवाच:
न सामय़जुऋग्वर्णाः क्रिय़ा नासीच्च मानवी |
१३ क
हनूमानु उवाच:
अभिध्याय़ फलं तत्र धर्मः संन्यास एव च ||
१३ ख
हनूमानु उवाच:
न तस्मिन्युगसंसर्गे व्याधय़ो नेन्द्रिय़क्षय़ः |
१४ क
हनूमानु उवाच:
नासूय़ा नापि रुदितं न दर्पो नापि पैशुनम् ||
१४ ख
हनूमानु उवाच:
न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम् |
१५ क
हनूमानु उवाच:
न भय़ं न च सन्तापो न चेर्ष्या न च मत्सरः ||
१५ ख
हनूमानु उवाच:
ततः परमकं व्रह्म या गतिर्योगिनां परा |
१६ क
हनूमानु उवाच:
आत्मा च सर्वभूतानां शुक्लो नाराय़णस्तदा ||
१६ ख
हनूमानु उवाच:
व्राह्मणाः क्षत्रिय़ा वैश्याः शूद्राश्च कृतलक्षणाः |
१७ क
हनूमानु उवाच:
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ||
१७ ख
हनूमानु उवाच:
समाश्रमं समाचारं समज्ञानमतीवलम् |
१८ क
हनूमानु उवाच:
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् ||
१८ ख
हनूमानु उवाच:
एकवेदसमाय़ुक्ता एकमन्त्रविधिक्रिय़ाः |
१९ क
हनूमानु उवाच:
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ||
१९ ख
हनूमानु उवाच:
चातुराश्रम्ययुक्तेन कर्मणा कालय़ोगिना |
२० क
हनूमानु उवाच:
अकामफलसंय़ोगात्प्राप्नुवन्ति परां गतिम् ||
२० ख
हनूमानु उवाच:
आत्मय़ोगसमाय़ुक्तो धर्मोऽय़ं कृतलक्षणः |
२१ क
हनूमानु उवाच:
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ||
२१ ख
हनूमानु उवाच:
एतत्कृतय़ुगं नाम त्रैगुण्यपरिवर्जितम् |
२२ क
हनूमानु उवाच:
त्रेतामपि निवोध त्वं यस्मिन्सत्रं प्रवर्तते ||
२२ ख
हनूमानु उवाच:
पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः |
२३ क
हनूमानु उवाच:
सत्यप्रवृत्ताश्च नराः क्रिय़ाधर्मपराय़णाः ||
२३ ख
हनूमानु उवाच:
ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रिय़ाः |
२४ क
हनूमानु उवाच:
त्रेताय़ां भावसङ्कल्पाः क्रिय़ादानफलोदय़ाः ||
२४ ख
हनूमानु उवाच:
प्रचलन्ति न वै धर्मात्तपोदानपराय़णाः |
२५ क
हनूमानु उवाच:
स्वधर्मस्थाः क्रिय़ावन्तो जनास्त्रेताय़ुगेऽभवन् ||
२५ ख
हनूमानु उवाच:
द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते |
२६ क
हनूमानु उवाच:
विष्णुर्वै पीततां याति चतुर्धा वेद एव च ||
२६ ख
हनूमानु उवाच:
ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे |
२७ क
हनूमानु उवाच:
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे ||
२७ ख
हनूमानु उवाच:
एवं शास्त्रेषु भिन्नेषु वहुधा नीय़ते क्रिय़ा |
२८ क
हनूमानु उवाच:
तपोदानप्रवृत्ता च राजसी भवति प्रजा ||
२८ ख
हनूमानु उवाच:
एकवेदस्य चाज्ञानाद्वेदास्ते वहवः कृताः |
२९ क
हनूमानु उवाच:
सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः ||
२९ ख
हनूमानु उवाच:
सत्यात्प्रच्यवमानानां व्याधय़ो वहवोऽभवन् |
३० क
हनूमानु उवाच:
कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः ||
३० ख
हनूमानु उवाच:
यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः |
३१ क
हनूमानु उवाच:
कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ||
३१ ख
हनूमानु उवाच:
एवं द्वापरमासाद्य प्रजाः क्षीय़न्त्यधर्मतः |
३२ क
हनूमानु उवाच:
पादेनैकेन कौन्तेय़ धर्मः कलिय़ुगे स्थितः ||
३२ ख
हनूमानु उवाच:
तामसं युगमासाद्य कृष्णो भवति केशवः |
३३ क
हनूमानु उवाच:
वेदाचाराः प्रशाम्यन्ति धर्मय़ज्ञक्रिय़ास्तथा ||
३३ ख
हनूमानु उवाच:
ईतय़ो व्याधय़स्तन्द्री दोषाः क्रोधादय़स्तथा |
३४ क
हनूमानु उवाच:
उपद्रवाश्च वर्तन्ते आधय़ो व्याधय़स्तथा ||
३४ ख
हनूमानु उवाच:
युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः |
३५ क
हनूमानु उवाच:
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः ||
३५ ख
हनूमानु उवाच:
लोके क्षीणे क्षय़ं यान्ति भावा लोकप्रवर्तकाः |
३६ क
हनूमानु उवाच:
युगक्षय़कृता धर्माः प्रार्थनानि विकुर्वते ||
३६ ख
हनूमानु उवाच:
एतत्कलिय़ुगं नाम अचिराद्यत्प्रवर्तते |
३७ क
हनूमानु उवाच:
युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ||
३७ ख
हनूमानु उवाच:
यच्च ते मत्परिज्ञाने कौतूहलमरिन्दम |
३८ क
हनूमानु उवाच:
अनर्थकेषु को भावः पुरुषस्य विजानतः ||
३८ ख
हनूमानु उवाच:
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि |
३९ क
हनूमानु उवाच:
युगसङ्ख्यां महावाहो स्वस्ति प्राप्नुहि गम्यताम् ||
३९ ख