chevron_left उद्योग पर्व अध्याय १४८
वासुदेव उवाच:
एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च |
१ क
वासुदेव उवाच:
गान्धार्या धृतराष्ट्रेण न च मन्दोऽन्ववुध्यत ||
१ ख
वासुदेव उवाच:
अवधूय़ोत्थितः क्रुद्धो रोषात्संरक्तलोचनः |
२ क
वासुदेव उवाच:
अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः ||
२ ख
वासुदेव उवाच:
अज्ञापय़च्च राज्ञस्तान्पार्थिवान्दुष्टचेतसः |
३ क
वासुदेव उवाच:
प्रय़ाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः ||
३ ख
वासुदेव उवाच:
ततस्ते पृथिवीपालाः प्रय़युः सहसैनिकाः |
४ क
वासुदेव उवाच:
भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः ||
४ ख
वासुदेव उवाच:
अक्षौहिण्यो दशैका च पार्थिवानां समागताः |
५ क
वासुदेव उवाच:
तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत |
५ ख
वासुदेव उवाच:
यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशां पते ||
५ ग
वासुदेव उवाच:
उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च |
६ क
वासुदेव उवाच:
गान्धार्या धृतराष्ट्रेण समक्षं मम भारत |
६ ख
वासुदेव उवाच:
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ||
६ ग
वासुदेव उवाच:
साम आदौ प्रय़ुक्तं मे राजन्सौभ्रात्रमिच्छता |
७ क
वासुदेव उवाच:
अभेदात्कुरुवंशस्य प्रजानां च विवृद्धय़े ||
७ ख
वासुदेव उवाच:
पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते |
८ क
वासुदेव उवाच:
कर्मानुकीर्तनं चैव देवमानुषसंहितम् ||
८ ख
वासुदेव उवाच:
यदा नाद्रिय़ते वाक्यं सामपूर्वं सुय़ोधनः |
९ क
वासुदेव उवाच:
तदा मय़ा समानीय़ भेदिताः सर्वपार्थिवाः ||
९ ख
वासुदेव उवाच:
अद्भुतानि च घोराणि दारुणानि च भारत |
१० क
वासुदेव उवाच:
अमानुषाणि कर्माणि दर्शितानि च मे विभो ||
१० ख
वासुदेव उवाच:
भर्त्सय़ित्वा तु राज्ञस्तांस्तृणीकृत्य सुय़ोधनम् |
११ क
वासुदेव उवाच:
राधेय़ं भीषय़ित्वा च सौवलं च पुनः पुनः ||
११ ख
वासुदेव उवाच:
न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः |
१२ क
वासुदेव उवाच:
भेदय़ित्वा नृपान्सर्वान्वाग्भिर्मन्त्रेण चासकृत् ||
१२ ख
वासुदेव उवाच:
पुनः सामाभिसंय़ुक्तं सम्प्रदानमथाव्रुवम् |
१३ क
वासुदेव उवाच:
अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च ||
१३ ख
वासुदेव उवाच:
ते वाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च |
१४ क
वासुदेव उवाच:
तिष्ठेय़ुः पाण्डवाः सर्वे हित्वा मानमधश्चराः ||
१४ ख
वासुदेव उवाच:
प्रय़च्छन्तु च ते राज्यमनीशास्ते भवन्तु च |
१५ क
वासुदेव उवाच:
यथाह राजा गाङ्गेय़ो विदुरश्च तथास्तु तत् ||
१५ ख
वासुदेव उवाच:
सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय़ |
१६ क
वासुदेव उवाच:
अवश्यं भरणीय़ा हि पितुस्ते राजसत्तम ||
१६ ख
वासुदेव उवाच:
एवमुक्तस्तु दुष्टात्मा नैव भावं व्यमुञ्चत |
१७ क
वासुदेव उवाच:
दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा ||
१७ ख
वासुदेव उवाच:
निर्याताश्च विनाशाय़ कुरुक्षेत्रं नराधिपाः |
१८ क
वासुदेव उवाच:
एतत्ते कथितं सर्वं यद्वृत्तं कुरुसंसदि ||
१८ ख
वासुदेव उवाच:
न ते राज्यं प्रय़च्छन्ति विना युद्धेन पाण्डव |
१९ क
वासुदेव उवाच:
विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः ||
१९ ख