सञ्जय़ उवाच:
ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा |
१ क
सञ्जय़ उवाच:
आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः ||
१ ख
सञ्जय़ उवाच:
प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष |
२ क
सञ्जय़ उवाच:
पञ्चभिः साय़कैर्हृष्टस्तिष्ठ तिष्ठेति चाव्रवीत् ||
२ ख
सञ्जय़ उवाच:
तावन्योन्यं शरैः सङ्ख्ये सञ्छाद्य सुमहारथौ |
३ क
सञ्जय़ उवाच:
पुनः पूर्णाय़तोत्सृष्टैर्विव्यधाते परस्परम् ||
३ ख
सञ्जय़ उवाच:
ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संय़ुगे |
४ क
सञ्जय़ उवाच:
सारथिं चतुरश्चाश्वान्कर्णो विव्याध साय़कैः ||
४ ख
सञ्जय़ उवाच:
कार्मुकप्रवरं चास्य प्रचिच्छेद शितैः शरैः |
५ क
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन रथनीडादपातय़त् ||
५ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः |
६ क
सञ्जय़ उवाच:
गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत् ||
६ ख
सञ्जय़ उवाच:
विद्धश्च वहुभिस्तेन शरैराशीविषोपमैः |
७ क
सञ्जय़ उवाच:
ततो युधिष्ठिरानीकं पद्भ्यामेवान्ववर्तत |
७ ख
सञ्जय़ उवाच:
आरुरोह रथं चापि सहदेवस्य मारिष ||
७ ग
सञ्जय़ उवाच:
कर्णस्यापि रथे वाहानन्यान्सूतो न्ययोजय़त् |
८ क
सञ्जय़ उवाच:
शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः ||
८ ख
सञ्जय़ उवाच:
लव्धलक्ष्यस्तु राधेय़ः पाञ्चालानां महारथान् |
९ क
सञ्जय़ उवाच:
अभ्यपीडय़दाय़स्तः शरैर्मेघ इवाचलान् ||
९ ख
सञ्जय़ उवाच:
सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः |
१० क
सञ्जय़ उवाच:
सम्प्राद्रवत्सुसन्त्रस्ता सिंहेनेवार्दिता मृगी ||
१० ख
सञ्जय़ उवाच:
पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले |
११ क
सञ्जय़ उवाच:
रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः ||
११ ख
सञ्जय़ उवाच:
धावमानस्य योधस्य क्षुरप्रैः स महामृधे |
१२ क
सञ्जय़ उवाच:
वाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् ||
१२ ख
सञ्जय़ उवाच:
ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते |
१३ क
सञ्जय़ उवाच:
वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष ||
१३ ख
सञ्जय़ उवाच:
नाज्ञासिषुर्धावमाना वहवश्च महारथाः |
१४ क
सञ्जय़ उवाच:
सञ्छिन्नान्यात्मगात्राणि वाहनानि च संय़ुगे ||
१४ ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे पाञ्चालाः सृञ्जय़ैः सह |
१५ क
सञ्जय़ उवाच:
तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे ||
१५ ख
सञ्जय़ उवाच:
अपि स्वं समरे योधं धावमानं विचेतसः |
१६ क
सञ्जय़ उवाच:
कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते ||
१६ ख
सञ्जय़ उवाच:
तान्यनीकानि भग्नानि द्रवमाणानि भारत |
१७ क
सञ्जय़ उवाच:
अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्शरान् ||
१७ ख
सञ्जय़ उवाच:
अवेक्षमाणास्तेऽन्योन्यं सुसंमूढा विचेतसः |
१८ क
सञ्जय़ उवाच:
नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना ||
१८ ख
सञ्जय़ उवाच:
कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः |
१९ क
सञ्जय़ उवाच:
द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः ||
१९ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् |
२० क
सञ्जय़ उवाच:
अपय़ाने मतिं कृत्वा फल्गुनं वाक्यमव्रवीत् ||
२० ख
सञ्जय़ उवाच:
पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् |
२१ क
सञ्जय़ उवाच:
निशीथे दारुणे काले तपन्तमिव भास्करम् ||
२१ ख
सञ्जय़ उवाच:
कर्णसाय़कनुन्नानां क्रोशतामेष निस्वनः |
२२ क
सञ्जय़ उवाच:
अनिशं श्रूय़ते पार्थ त्वद्वन्धूनामनाथवत् ||
२२ ख
सञ्जय़ उवाच:
यथा विसृजतश्चास्य सन्दधानस्य चाशुगान् |
२३ क
सञ्जय़ उवाच:
पश्यामि जय़विक्रान्तं क्षपय़िष्यति नो ध्रुवम् ||
२३ ख
सञ्जय़ उवाच:
यदत्रानन्तरं कार्यं प्राप्तकालं प्रपश्यसि |
२४ क
सञ्जय़ उवाच:
कर्णस्य वधसंय़ुक्तं तत्कुरुष्व धनञ्जय़ ||
२४ ख
सञ्जय़ उवाच:
एवमुक्तो महावाहुः पार्थः कृष्णमथाव्रवीत् |
२५ क
सञ्जय़ उवाच:
भीतः कुन्तीसुतो राजा राधेय़स्यातिविक्रमात् ||
२५ ख
सञ्जय़ उवाच:
एवं गते प्राप्तकालं कर्णानीके पुनः पुनः |
२६ क
सञ्जय़ उवाच:
भवान्व्यवस्यतां क्षिप्रं द्रवते हि वरूथिनी ||
२६ ख
सञ्जय़ उवाच:
द्रोणसाय़कनुन्नानां भग्नानां मधुसूदन |
२७ क
सञ्जय़ उवाच:
कर्णेन त्रास्यमानानामवस्थानं न विद्यते ||
२७ ख
सञ्जय़ उवाच:
पश्यामि च तथा कर्णं विचरन्तमभीतवत् |
२८ क
सञ्जय़ उवाच:
द्रवमाणान्रथोदारान्किरन्तं विशिखैः शितैः ||
२८ ख
सञ्जय़ उवाच:
नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि |
२९ क
सञ्जय़ उवाच:
प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः ||
२९ ख
सञ्जय़ उवाच:
स भवानत्र यात्वाशु यत्र कर्णो महारथः |
३० क
सञ्जय़ उवाच:
अहमेनं वधिष्यामि मां वैष मधुसूदन ||
३० ख
वासुदेव उवाच:
पश्यामि कर्णं कौन्तेय़ देवराजमिवाहवे |
३१ क
वासुदेव उवाच:
विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् ||
३१ ख
वासुदेव उवाच:
नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनञ्जय़ |
३२ क
वासुदेव उवाच:
ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् ||
३२ ख
वासुदेव उवाच:
न तु तावदहं मन्ये प्राप्तकालं तवानघ |
३३ क
वासुदेव उवाच:
समागमं महावाहो सूतपुत्रेण संय़ुगे ||
३३ ख
वासुदेव उवाच:
दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी |
३४ क
वासुदेव उवाच:
त्वदर्थं हि महावाहो रौद्ररूपं विभर्ति च ||
३४ ख
वासुदेव उवाच:
घटोत्कचस्तु राधेय़ं प्रत्युद्यातु महावलः |
३५ क
वासुदेव उवाच:
स हि भीमेन वलिना जातः सुरपराक्रमः ||
३५ ख
वासुदेव उवाच:
तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च |
३६ क
वासुदेव उवाच:
सततं चानुरक्तो वो हितैषी च घटोत्कचः |
३६ ख
वासुदेव उवाच:
विजेष्यति रणे कर्णमिति मे नात्र संशय़ः ||
३६ ग
सञ्जय़ उवाच:
एवमुक्त्वा महावाहुः पार्थं पुष्करलोचनः |
३७ क
सञ्जय़ उवाच:
आजुहावाथ तद्रक्षः तच्चासीत्प्रादुरग्रतः ||
३७ ख
सञ्जय़ उवाच:
कवची स शरी खड्गी सधन्वा च विशां पते |
३८ क
सञ्जय़ उवाच:
अभिवाद्य ततः कृष्णं पाण्डवं च धनञ्जय़म् |
३८ ख
सञ्जय़ उवाच:
अव्रवीत्तं तदा हृष्टस्त्वय़मस्म्यनुशाधि माम् ||
३८ ग
सञ्जय़ उवाच:
ततस्तं मेघसङ्काशं दीप्तास्यं दीप्तकुण्डलम् |
३९ क
सञ्जय़ उवाच:
अभ्यभाषत हैडिम्वं दाशार्हः प्रहसन्निव ||
३९ ख
सञ्जय़ उवाच:
घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक |
४० क
सञ्जय़ उवाच:
प्राप्तो विक्रमकालोऽय़ं तव नान्यस्य कस्यचित् ||
४० ख
सञ्जय़ उवाच:
स भवान्मज्जमानानां वन्धूनां त्वं प्लवो यथा |
४१ क
सञ्जय़ उवाच:
विविधानि तवास्त्राणि सन्ति माय़ा च राक्षसी ||
४१ ख
सञ्जय़ उवाच:
पश्य कर्णेन हैडिम्व पाण्डवानामनीकिनी |
४२ क
सञ्जय़ उवाच:
काल्यमाना यथा गावः पालेन रणमूर्धनि ||
४२ ख
सञ्जय़ उवाच:
एष कर्णो महेष्वासो मतिमान्दृढविक्रमः |
४३ क
सञ्जय़ उवाच:
पाण्डवानामनीकेषु निहन्ति क्षत्रिय़र्षभान् ||
४३ ख
सञ्जय़ उवाच:
किरन्तः शरवर्षाणि महान्ति दृढधन्विनः |
४४ क
सञ्जय़ उवाच:
न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा ||
४४ ख
सञ्जय़ उवाच:
निशीथे सूतपुत्रेण शरवर्षेण पीडिताः |
४५ क
सञ्जय़ उवाच:
एते द्रवन्ति पाञ्चालाः सिंहस्येव भय़ान्मृगाः ||
४५ ख
सञ्जय़ उवाच:
एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संय़ुगे |
४६ क
सञ्जय़ उवाच:
निषेद्धा विद्यते नान्यस्त्वदृते भीमविक्रम ||
४६ ख
सञ्जय़ उवाच:
स त्वं कुरु महावाहो कर्म युक्तमिहात्मनः |
४७ क
सञ्जय़ उवाच:
मातुलानां पितॄणां च तेजसोऽस्त्रवलस्य च ||
४७ ख
सञ्जय़ उवाच:
एतदर्थं हि हैडिम्व पुत्रानिच्छन्ति मानवाः |
४८ क
सञ्जय़ उवाच:
कथं नस्तारय़ेद्दुःखात्स त्वं तारय़ वान्धवान् ||
४८ ख
सञ्जय़ उवाच:
तव ह्यस्त्रवलं भीमं माय़ाश्च तव दुस्तराः |
४९ क