chevron_left शान्ति पर्व अध्याय १४९
गृध्र उवाच:
मृता गर्भेषु जाय़न्ते म्रिय़न्ते जातमात्रकाः |
५१ क
गृध्र उवाच:
विक्रमन्तो म्रिय़न्ते च यौवनस्थास्तथापरे ||
५१ ख
गृध्र उवाच:
अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि |
५२ क
गृध्र उवाच:
जङ्गमाजङ्गमानां चाप्याय़ुरग्रेऽवतिष्ठते ||
५२ ख
गृध्र उवाच:
इष्टदारविय़ुक्ताश्च पुत्रशोकान्वितास्तथा |
५३ क
गृध्र उवाच:
दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यदा ||
५३ ख
गृध्र उवाच:
अनिष्टानां सहस्राणि तथेष्टानां शतानि च |
५४ क
गृध्र उवाच:
उत्सृज्येह प्रय़ाता वै वान्धवा भृशदुःखिताः ||
५४ ख
गृध्र उवाच:
त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः |
५५ क
गृध्र उवाच:
अन्यदेहविषक्तो हि शावं काष्ठमुपासते ||
५५ ख
गृध्र उवाच:
भ्रान्तजीवस्य वै वाष्पं कस्माद्धित्वा न गच्छथ |
५६ क
गृध्र उवाच:
निरर्थको ह्ययं स्नेहो निरर्थश्च परिग्रहः ||
५६ ख
गृध्र उवाच:
न चक्षुर्भ्यां न कर्णाभ्यां संशृणोति समीक्षते |
५७ क
गृध्र उवाच:
तस्मादेनं समुत्सृज्य स्वगृहान्गच्छताशु वै ||
५७ ख
गृध्र उवाच:
मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः |
५८ क
गृध्र उवाच:
मय़ोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम् ||
५८ ख
गृध्र उवाच:
प्रज्ञाविज्ञानय़ुक्तेन वुद्धिसञ्ज्ञाप्रदाय़िना |
५९ क
गृध्र उवाच:
वचनं श्राविता रूक्षं मानुषाः संनिवर्तत ||
५९ ख
जम्वुक उवाच:
इमं कनकवर्णाभं भूषणैः समलङ्कृतम् |
६० क
जम्वुक उवाच:
गृध्रवाक्यात्कथं पुत्रं त्यजध्वं पितृपिण्डदम् ||
६० ख
जम्वुक उवाच:
न स्नेहस्य विरोधोऽस्ति विलापरुदितस्य वै |
६१ क
जम्वुक उवाच:
मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम् ||
६१ ख
जम्वुक उवाच:
श्रूय़ते शम्वुके शूद्रे हते व्राह्मणदारकः |
६२ क
जम्वुक उवाच:
जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात् ||
६२ ख
जम्वुक उवाच:
तथा श्वेतस्य राजर्षेर्वालो दिष्टान्तमागतः |
६३ क
जम्वुक उवाच:
श्वोऽभूते धर्मनित्येन मृतः सञ्जीवितः पुनः ||
६३ ख
जम्वुक उवाच:
तथा कश्चिद्भवेत्सिद्धो मुनिर्वा देवतापि वा |
६४ क
जम्वुक उवाच:
कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह ||
६४ ख
भीष्म उवाच:
इत्युक्ताः संन्यवर्तन्त शोकार्ताः पुत्रवत्सलाः |
६५ क
भीष्म उवाच:
अङ्के शिरः समाधाय़ रुरुदुर्वहुविस्तरम् ||
६५ ख
गृध्र उवाच:
अश्रुपातपरिक्लिन्नः पाणिस्पर्शनपीडितः |
६६ क
गृध्र उवाच:
धर्मराजप्रय़ोगाच्च दीर्घां निद्रां प्रवेशितः ||
६६ ख
गृध्र उवाच:
तपसापि हि संय़ुक्तो न काले नोपहन्यते |
६७ क
गृध्र उवाच:
सर्वस्नेहावसानं तदिदं तत्प्रेतपत्तनम् ||
६७ ख
गृध्र उवाच:
वालवृद्धसहस्राणि सदा सन्त्यज्य वान्धवाः |
६८ क
गृध्र उवाच:
दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले ||
६८ ख
गृध्र उवाच:
अलं निर्वन्धमागम्य शोकस्य परिवारणम् |
६९ क
गृध्र उवाच:
अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम् ||
६९ ख
गृध्र उवाच:
नैष जम्वुकवाक्येन पुनः प्राप्स्यति जीवितम् |
७० क
गृध्र उवाच:
मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते ||
७० ख
गृध्र उवाच:
न वै मूर्तिप्रदानेन न जम्वुकशतैरपि |
७१ क
गृध्र उवाच:
शक्यो जीवय़ितुं ह्येष वालो वर्षशतैरपि ||
७१ ख
गृध्र उवाच:
अपि रुद्रः कुमारो वा व्रह्मा वा विष्णुरेव वा |
७२ क
गृध्र उवाच:
वरमस्मै प्रय़च्छेय़ुस्ततो जीवेदय़ं शिशुः ||
७२ ख
गृध्र उवाच:
न च वाष्पविमोक्षेण न चाश्वासकृतेन वै |
७३ क
गृध्र उवाच:
न दीर्घरुदितेनेह पुनर्जीवो भविष्यति ||
७३ ख
गृध्र उवाच:
अहं च क्रोष्टुकश्चैव यूय़ं चैवास्य वान्धवाः |
७४ क
गृध्र उवाच:
धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि ||
७४ ख
गृध्र उवाच:
अप्रिय़ं परुषं चापि परद्रोहं परस्त्रिय़म् |
७५ क
गृध्र उवाच:
अधर्ममनृतं चैव दूरात्प्राज्ञो निवर्तय़ेत् ||
७५ ख
गृध्र उवाच:
सत्यं धर्मं शुभं न्याय़्यं प्राणिनां महतीं दय़ाम् |
७६ क
गृध्र उवाच:
अजिह्मत्वमशाठ्यं च यत्नतः परिमार्गत ||
७६ ख
गृध्र उवाच:
मातरं पितरं चैव वान्धवान्सुहृदस्तथा |
७७ क
गृध्र उवाच:
जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः ||
७७ ख
गृध्र उवाच:
यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथञ्चन |
७८ क
गृध्र उवाच:
तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ ||
७८ ख
भीष्म उवाच:
इत्युक्तास्तं सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः |
७९ क
भीष्म उवाच:
दह्यमानाः सुतस्नेहात्प्रय़युर्वान्धवा गृहान् ||
७९ ख
जम्वुक उवाच:
दारुणो मर्त्यलोकोऽय़ं सर्वप्राणिविनाशनः |
८० क
जम्वुक उवाच:
इष्टवन्धुविय़ोगश्च तथैवाल्पं च जीवितम् ||
८० ख
जम्वुक उवाच:
वह्वलीकमसत्यं च प्रतिवादाप्रिय़ंवदम् |
८१ क
जम्वुक उवाच:
इमं प्रेक्ष्य पुनर्भावं दुःखशोकाभिवर्धनम् ||
८१ ख
जम्वुक उवाच:
न मे मानुषलोकोऽय़ं मुहूर्तमपि रोचते |
८२ क
जम्वुक उवाच:
अहो धिग्गृध्रवाक्येन संनिवर्तथ मानुषाः ||
८२ ख
जम्वुक उवाच:
प्रदीप्ताः पुत्रशोकेन यथैवावुद्धय़स्तथा |
८३ क
जम्वुक उवाच:
कथं गच्छथ सस्नेहाः सुतस्नेहं विसृज्य च |
८३ ख
जम्वुक उवाच:
श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः ||
८३ ग
जम्वुक उवाच:
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् |
८४ क
जम्वुक उवाच:
सुखदुःखान्विते लोके नेहास्त्येकमनन्तकम् ||
८४ ख
जम्वुक उवाच:
इमं क्षितितले न्यस्य वालं रूपसमन्वितम् |
८५ क
जम्वुक उवाच:
कुलशोकाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ ||
८५ ख
जम्वुक उवाच:
रूपय़ौवनसम्पन्नं द्योतमानमिव श्रिय़ा |
८६ क
जम्वुक उवाच:
जीवन्तमेनं पश्यामि मनसा नात्र संशय़ः ||
८६ ख
जम्वुक उवाच:
विनाशश्चाप्यनर्होऽस्य सुखं प्राप्स्यथ मानुषाः |
८७ क
जम्वुक उवाच:
पुत्रशोकाग्निदग्धानां मृतमप्यद्य वः क्षमम् ||
८७ ख
जम्वुक उवाच:
दुःखसम्भावनां कृत्वा धारय़ित्वा स्वय़ं सुखम् |
८८ क
जम्वुक उवाच:
त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पवुद्धिवत् ||
८८ ख
भीष्म उवाच:
तथा धर्मविरोधेन प्रिय़मिथ्याभिध्याय़िना |
८९ क
भीष्म उवाच:
श्मशानवासिना नित्यं रात्रिं मृगय़ता तदा ||
८९ ख
भीष्म उवाच:
ततो मध्यस्थतां नीता वचनैरमृतोपमैः |
९० क
भीष्म उवाच:
जम्वुकेन स्वकार्यार्थं वान्धवास्तस्य धिष्ठिताः ||
९० ख
गृध्र उवाच:
अय़ं प्रेतसमाकीर्णो यक्षराक्षससेवितः |
९१ क
गृध्र उवाच:
दारुणः काननोद्देशः कौशिकैरभिनादितः ||
९१ ख
गृध्र उवाच:
भीमः सुघोरश्च तथा नीलमेघसमप्रभः |
९२ क
गृध्र उवाच:
अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत ||
९२ ख
गृध्र उवाच:
भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः |
९३ क
गृध्र उवाच:
तावदेनं परित्यज्य प्रेतकार्याण्युपासत ||
९३ ख
गृध्र उवाच:
नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणाः |
९४ क
गृध्र उवाच:
मृगेन्द्राः प्रतिनन्दन्ति रविरस्तं च गच्छति ||
९४ ख
गृध्र उवाच:
चिताधूमेन नीलेन संरज्यन्ते च पादपाः |
९५ क
गृध्र उवाच:
श्मशाने च निराहाराः प्रतिनन्दन्ति देहिनः ||
९५ ख
गृध्र उवाच:
सर्वे विक्रान्तवीर्याश्च अस्मिन्देशे सुदारुणाः |
९६ क
गृध्र उवाच:
युष्मान्प्रधर्षय़िष्यन्ति विकृता मांसभोजनाः ||
९६ ख
गृध्र उवाच:
दूराच्चाय़ं वनोद्देशो भय़मत्र भविष्यति |
९७ क
गृध्र उवाच:
त्यज्यतां काष्ठभूतोऽय़ं मृष्यतां जाम्वुकं वचः ||
९७ ख
गृध्र उवाच:
यदि जम्वुकवाक्यानि निष्फलान्यनृतानि च |
९८ क
गृध्र उवाच:
श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ ||
९८ ख
जम्वुक उवाच:
स्थीय़तां नेह भेतव्यं यावत्तपति भास्करः |
९९ क
जम्वुक उवाच:
तावदस्मिन्सुतस्नेहादनिर्वेदेन वर्तत ||
९९ ख
जम्वुक उवाच:
स्वैरं रुदत विस्रव्धाः स्वैरं स्नेहेन पश्यत |
१०० क