chevron_left उद्योग पर्व अध्याय १४९
वैशम्पाय़न उवाच:
हय़वारणशव्दश्च नेमिघोषश्च सर्वशः |
४८ ख
वैशम्पाय़न उवाच:
शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् ||
४८ ग
वैशम्पाय़न उवाच:
प्रय़ास्यतां पाण्डवानां ससैन्यानां समन्ततः |
४९ क
वैशम्पाय़न उवाच:
गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी ||
४९ ख
वैशम्पाय़न उवाच:
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ |
५० क
वैशम्पाय़न उवाच:
सौभद्रो द्रौपदेय़ाश्च धृष्टद्युम्नश्च पार्षतः |
५० ख
वैशम्पाय़न उवाच:
प्रभद्रकाश्च पाञ्चाला भीमसेनमुखा यय़ुः ||
५० ग
वैशम्पाय़न उवाच:
ततः शव्दः समभवत्समुद्रस्येव पर्वणि |
५१ क
वैशम्पाय़न उवाच:
हृष्टानां सम्प्रय़ातानां घोषो दिवमिवास्पृशत् ||
५१ ख
वैशम्पाय़न उवाच:
प्रहृष्टा दंशिता योधाः परानीकविदारणाः |
५२ क
वैशम्पाय़न उवाच:
तेषां मध्ये यय़ौ राजा कुन्तीपुत्रो युधिष्ठिरः ||
५२ ख
वैशम्पाय़न उवाच:
शकटापणवेशाश्च यानय़ुग्यं च सर्वशः |
५३ क
वैशम्पाय़न उवाच:
कोशय़न्त्राय़ुधं चैव ये च वैद्याश्चिकित्सकाः ||
५३ ख
वैशम्पाय़न उवाच:
फल्गु यच्च वलं किञ्चित्तथैव कृशदुर्वलम् |
५४ क
वैशम्पाय़न उवाच:
तत्सङ्गृह्य यय़ौ राजा ये चापि परिचारकाः ||
५४ ख
वैशम्पाय़न उवाच:
उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी |
५५ क
वैशम्पाय़न उवाच:
सह स्त्रीभिर्निववृते दासीदाससमावृता ||
५५ ख
वैशम्पाय़न उवाच:
कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः |
५६ क
वैशम्पाय़न उवाच:
स्कन्धावारेण महता प्रय़युः पाण्डुनन्दनाः ||
५६ ख
वैशम्पाय़न उवाच:
ददतो गां हिरण्यं च व्राह्मणैरभिसंवृताः |
५७ क
वैशम्पाय़न उवाच:
स्तूय़माना यय़ू राजन्रथैर्मणिविभूषितैः ||
५७ ख
वैशम्पाय़न उवाच:
केकय़ा धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः |
५८ क
वैशम्पाय़न उवाच:
श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः ||
५८ ख
वैशम्पाय़न उवाच:
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः |
५९ क
वैशम्पाय़न उवाच:
राजानमन्वय़ुः सर्वे परिवार्य युधिष्ठिरम् ||
५९ ख
वैशम्पाय़न उवाच:
जघनार्धे विराटश्च यज्ञसेनश्च सोमकिः |
६० क
वैशम्पाय़न उवाच:
सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ||
६० ख
वैशम्पाय़न उवाच:
रथाय़ुतानि चत्वारि हय़ाः पञ्चगुणास्ततः |
६१ क
वैशम्पाय़न उवाच:
पत्तिसैन्यं दशगुणं सादिनामय़ुतानि षट् ||
६१ ख
वैशम्पाय़न उवाच:
अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः |
६२ क
वैशम्पाय़न उवाच:
परिवार्य यय़ुः सर्वे वासुदेवधनञ्जय़ौ ||
६२ ख
वैशम्पाय़न उवाच:
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः |
६३ क
वैशम्पाय़न उवाच:
पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ||
६३ ख
वैशम्पाय़न उवाच:
तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिन्दमाः |
६४ क
वैशम्पाय़न उवाच:
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जय़ौ ||
६४ ख
वैशम्पाय़न उवाच:
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः |
६५ क
वैशम्पाय़न उवाच:
निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः ||
६५ ख
वैशम्पाय़न उवाच:
शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम् |
६६ क
वैशम्पाय़न उवाच:
पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादय़त् ||
६६ ख
वैशम्पाय़न उवाच:
ततो देशे समे स्निग्धे प्रभूतय़वसेन्धने |
६७ क
वैशम्पाय़न उवाच:
निवेशय़ामास तदा सेनां राजा युधिष्ठिरः ||
६७ ख
वैशम्पाय़न उवाच:
परिहृत्य श्मशानानि देवताय़तनानि च |
६८ क
वैशम्पाय़न उवाच:
आश्रमांश्च महर्षीणां तीर्थान्याय़तनानि च ||
६८ ख
वैशम्पाय़न उवाच:
मधुरानूषरे देशे शिवे पुण्ये महीपतिः |
६९ क
वैशम्पाय़न उवाच:
निवेशं कारय़ामास कुन्तीपुत्रो युधिष्ठिरः ||
६९ ख
वैशम्पाय़न उवाच:
ततश्च पुनरुत्थाय़ सुखी विश्रान्तवाहनः |
७० क
वैशम्पाय़न उवाच:
प्रय़यौ पृथिवीपालैर्वृतः शतसहस्रशः ||
७० ख
वैशम्पाय़न उवाच:
विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् |
७१ क
वैशम्पाय़न उवाच:
पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ||
७१ ख
वैशम्पाय़न उवाच:
शिविरं मापय़ामास धृष्टद्युम्नश्च पार्षतः |
७२ क
वैशम्पाय़न उवाच:
सात्यकिश्च रथोदारो युय़ुधानः प्रतापवान् ||
७२ ख
वैशम्पाय़न उवाच:
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् |
७३ क
वैशम्पाय़न उवाच:
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ||
७३ ख
वैशम्पाय़न उवाच:
खानय़ामास परिखां केशवस्तत्र भारत |
७४ क
वैशम्पाय़न उवाच:
गुप्त्यर्थमपि चादिश्य वलं तत्र न्यवेशय़त् ||
७४ ख
वैशम्पाय़न उवाच:
विधिर्यः शिविरस्यासीत्पाण्डवानां महात्मनाम् |
७५ क
वैशम्पाय़न उवाच:
तद्विधानि नरेन्द्राणां कारय़ामास केशवः ||
७५ ख
वैशम्पाय़न उवाच:
प्रभूतजलकाष्ठानि दुराधर्षतराणि च |
७६ क
वैशम्पाय़न उवाच:
भक्ष्यभोज्योपपन्नानि शतशोऽथ सहस्रशः ||
७६ ख
वैशम्पाय़न उवाच:
शिविराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् |
७७ क
वैशम्पाय़न उवाच:
विमानानीव राजेन्द्र निविष्टानि महीतले ||
७७ ख
वैशम्पाय़न उवाच:
तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः |
७८ क
वैशम्पाय़न उवाच:
सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः ||
७८ ख
वैशम्पाय़न उवाच:
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः |
७९ क
वैशम्पाय़न उवाच:
ससर्ज रसपांसूनां राशय़ः पर्वतोपमाः ||
७९ ख
वैशम्पाय़न उवाच:
वहूदकं सुय़वसं तुषाङ्गारसमन्वितम् |
८० क
वैशम्पाय़न उवाच:
शिविरे शिविरे राजा सञ्चकार युधिष्ठिरः ||
८० ख
वैशम्पाय़न उवाच:
महाय़न्त्राणि नाराचास्तोमरर्ष्टिपरश्वधाः |
८१ क
वैशम्पाय़न उवाच:
धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा ||
८१ ख
वैशम्पाय़न उवाच:
गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः |
८२ क
वैशम्पाय़न उवाच:
अदृश्यंस्तत्र गिर्याभाः सहस्रशतय़ोधिनः ||
८२ ख
वैशम्पाय़न उवाच:
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत |
८३ क
वैशम्पाय़न उवाच:
अभिसस्रुर्यथोद्देशं सवलाः सहवाहनाः ||
८३ ख
वैशम्पाय़न उवाच:
चरितव्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः |
८४ क
वैशम्पाय़न उवाच:
जय़ाय़ पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ||
८४ ख