भीष्म उवाच:
शृणु पार्थ यथावृत्तमितिहासं पुरातनम् |
१ क
भीष्म उवाच:
गृध्रजम्वुकसंवादं यो वृत्तो वैदिशे पुरा ||
१ ख
भीष्म उवाच:
दुःखिताः केचिदादाय़ वालमप्राप्तय़ौवनम् |
२ क
भीष्म उवाच:
कुलसर्वस्वभूतं वै रुदन्तः शोकविह्वलाः ||
२ ख
भीष्म उवाच:
वालं मृतं गृहीत्वाथ श्मशानाभिमुखाः स्थिताः |
३ क
भीष्म उवाच:
अङ्केनाङ्कं च सङ्क्रम्य रुरुदुर्भूतले तदा ||
३ ख
भीष्म उवाच:
तेषां रुदितशव्देन गृध्रोऽभ्येत्य वचोऽव्रवीत् |
४ क
भीष्म उवाच:
एकात्मकमिमं लोके त्यक्त्वा गच्छत माचिरम् ||
४ ख
भीष्म उवाच:
इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव हि |
५ क
भीष्म उवाच:
समानीतानि कालेन किं ते वै जात्ववान्धवाः ||
५ ख
भीष्म उवाच:
सम्पश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम् |
६ क
भीष्म उवाच:
संय़ोगो विप्रय़ोगश्च पर्याय़ेणोपलभ्यते ||
६ ख
भीष्म उवाच:
गृहीत्वा ये च गच्छन्ति येऽनुय़ान्ति च तान्मृतान् |
७ क
भीष्म उवाच:
तेऽप्याय़ुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः ||
७ ख
भीष्म उवाच:
अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमाय़ुसङ्कुले |
८ क
भीष्म उवाच:
कङ्कालवहुले घोरे सर्वप्राणिभय़ङ्करे ||
८ ख
भीष्म उवाच:
न पुनर्जीवितः कश्चित्कालधर्ममुपागतः |
९ क
भीष्म उवाच:
प्रिय़ो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ||
९ ख
भीष्म उवाच:
सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूय़ता |
१० क
भीष्म उवाच:
कृतान्तविहिते मार्गे को मृतं जीवय़िष्यति ||
१० ख
भीष्म उवाच:
कर्मान्तविहिते लोके चास्तं गच्छति भास्करे |
११ क
भीष्म उवाच:
गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै ||
११ ख
भीष्म उवाच:
ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप |
१२ क
भीष्म उवाच:
वान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले ||
१२ ख
भीष्म उवाच:
विनिश्चित्याथ च ततः सन्त्यजन्तः स्वमात्मजम् |
१३ क
भीष्म उवाच:
निराशा जीविते तस्य मार्गमारुह्य धिष्ठिताः ||
१३ ख
भीष्म उवाच:
ध्वाङ्क्षाभ्रसमवर्णस्तु विलान्निःसृत्य जम्वुकः |
१४ क
भीष्म उवाच:
गच्छमानान्स्म तानाह निर्घृणाः खलु मानवाः ||
१४ ख
भीष्म उवाच:
आदित्योऽय़ं स्थितो मूढाः स्नेहं कुरुत मा भय़म् |
१५ क
भीष्म उवाच:
वहुरूपो मुहूर्तश्च जीवेतापि कदाचन ||
१५ ख
भीष्म उवाच:
यूय़ं भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः |
१६ क
भीष्म उवाच:
श्मशाने पुत्रमुत्सृज्य कस्माद्गच्छथ निर्घृणाः ||
१६ ख
भीष्म उवाच:
न वोऽस्त्यस्मिन्सुते स्नेहो वाले मधुरभाषिणि |
१७ क
भीष्म उवाच:
यस्य भाषितमात्रेण प्रसादमुपगच्छथ ||
१७ ख
भीष्म उवाच:
न पश्यथ सुतस्नेहं यादृशः पशुपक्षिणाम् |
१८ क
भीष्म उवाच:
न येषां धारय़ित्वा तान्कश्चिदस्ति फलागमः ||
१८ ख
भीष्म उवाच:
चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् |
१९ क
भीष्म उवाच:
परलोकगतिस्थानां मुनिय़ज्ञक्रिय़ा इव ||
१९ ख
भीष्म उवाच:
तेषां पुत्राभिरामाणामिह लोके परत्र च |
२० क
भीष्म उवाच:
न गुणो दृश्यते कश्चित्प्रजाः सन्धारय़न्ति च ||
२० ख
भीष्म उवाच:
अपश्यतां प्रिय़ान्पुत्रान्नैषां शोकोऽनुतिष्ठति |
२१ क
भीष्म उवाच:
न च पुष्णन्ति संवृद्धास्ते मातापितरौ क्वचित् ||
२१ ख
भीष्म उवाच:
मानुषाणां कुतः स्नेहो येषां शोको भविष्यति |
२२ क
भीष्म उवाच:
इमं कुलकरं पुत्रं कथं त्यक्त्वा गमिष्यथ ||
२२ ख
भीष्म उवाच:
चिरं मुञ्चत वाष्पं च चिरं स्नेहेन पश्यत |
२३ क
भीष्म उवाच:
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः ||
२३ ख
भीष्म उवाच:
क्षीणस्याथाभिय़ुक्तस्य श्मशानाभिमुखस्य च |
२४ क
भीष्म उवाच:
वान्धवा यत्र तिष्ठन्ति तत्रान्यो नावतिष्ठते ||
२४ ख
भीष्म उवाच:
सर्वस्य दय़िताः प्राणाः सर्वः स्नेहं च विन्दति |
२५ क
भीष्म उवाच:
तिर्यग्योनिष्वपि सतां स्नेहं पश्यत यादृशम् ||
२५ ख
भीष्म उवाच:
त्यक्त्वा कथं गच्छेथेमं पद्मलोलाय़ताक्षकम् |
२६ क
भीष्म उवाच:
यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् ||
२६ ख
भीष्म उवाच:
जम्वुकस्य वचः श्रुत्वा कृपणं परिदेवतः |
२७ क
भीष्म उवाच:
न्यवर्तन्त तदा सर्वे शवार्थं ते स्म मानुषाः ||
२७ ख
गृध्र उवाच:
अहो धिक्सुनृशंसेन जम्वुकेनाल्पमेधसा |
२८ क
गृध्र उवाच:
क्षुद्रेणोक्ता हीनसत्त्वा मानुषाः किं निवर्तथ ||
२८ ख
गृध्र उवाच:
पञ्चभूतपरित्यक्तं शून्यं काष्ठत्वमागतम् |
२९ क
गृध्र उवाच:
कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ ||
२९ ख
गृध्र उवाच:
तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्विषात् |
३० क
गृध्र उवाच:
तपसा लभ्यते सर्वं विलापः किं करिष्यति ||
३० ख
गृध्र उवाच:
अनिष्टानि च भाग्यानि जानीत सह मूर्तिभिः |
३१ क
गृध्र उवाच:
येन गच्छति लोकोऽय़ं दत्त्वा शोकमनन्तकम् ||
३१ ख
गृध्र उवाच:
धनं गाश्च सुवर्णं च मणिरत्नमथापि च |
३२ क
गृध्र उवाच:
अपत्यं च तपोमूलं तपोय़ोगाच्च लभ्यते ||
३२ ख
गृध्र उवाच:
यथाकृता च भूतेषु प्राप्यते सुखदुःखता |
३३ क
गृध्र उवाच:
गृहीत्वा जाय़ते जन्तुर्दुःखानि च सुखानि च ||
३३ ख
गृध्र उवाच:
न कर्मणा पितुः पुत्रः पिता वा पुत्रकर्मणा |
३४ क
गृध्र उवाच:
मार्गेणान्येन गच्छन्ति त्यक्त्वा सुकृतदुष्कृते ||
३४ ख
गृध्र उवाच:
धर्मं चरत यत्नेन तथाधर्मान्निवर्तत |
३५ क
गृध्र उवाच:
वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च ||
३५ ख
गृध्र उवाच:
शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत |
३६ क
गृध्र उवाच:
त्यज्यतामय़माकाशे ततः शीघ्रं निवर्तत ||
३६ ख
गृध्र उवाच:
यत्करोति शुभं कर्म तथाधर्मं सुदारुणम् |
३७ क
गृध्र उवाच:
तत्कर्तैव समश्नाति वान्धवानां किमत्र हि ||
३७ ख
गृध्र उवाच:
इह त्यक्त्वा न तिष्ठन्ति वान्धवा वान्धवं प्रिय़म् |
३८ क
गृध्र उवाच:
स्नेहमुत्सृज्य गच्छन्ति वाष्पपूर्णाविलेक्षणाः ||
३८ ख
गृध्र उवाच:
प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा |
३९ क
गृध्र उवाच:
सर्वः कालवशं याति शुभाशुभसमन्वितः ||
३९ ख
गृध्र उवाच:
किं करिष्यथ शोचित्वा मृतं किमनुशोचथ |
४० क
गृध्र उवाच:
सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः ||
४० ख
गृध्र उवाच:
यौवनस्थांश्च वालांश्च वृद्धान्गर्भगतानपि |
४१ क
गृध्र उवाच:
सर्वानाविशते मृत्युरेवम्भूतमिदं जगत् ||
४१ ख
जम्वुक उवाच:
अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पमेधसा |
४२ क
जम्वुक उवाच:
पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् ||
४२ ख
जम्वुक उवाच:
समैः सम्यक्प्रय़ुक्तैश्च वचनैः प्रश्रय़ोत्तरैः |
४३ क
जम्वुक उवाच:
यद्गच्छथ जलस्थाय़ं स्नेहमुत्सृज्य दुस्त्यजम् ||
४३ ख
जम्वुक उवाच:
अहो पुत्रविय़ोगेन मृतशून्योपसेवनात् |
४४ क
जम्वुक उवाच:
क्रोशतां वै भृशं दुःखं विवत्सानां गवामिव ||
४४ ख
जम्वुक उवाच:
अद्य शोकं विजानामि मानुषाणां महीतले |
४५ क
जम्वुक उवाच:
स्नेहं हि करुणं दृष्ट्वा ममाप्यश्रूण्यथागमन् ||
४५ ख
जम्वुक उवाच:
यत्नो हि सततं कार्यः कृतो दैवेन सिध्यति |
४६ क
जम्वुक उवाच:
दैवं पुरुषकारश्च कृतान्तेनोपपद्यते ||
४६ ख
जम्वुक उवाच:
अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम् |
४७ क
जम्वुक उवाच:
प्रय़त्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दय़ाः ||
४७ ख
जम्वुक उवाच:
आत्ममांसोपवृत्तं च शरीरार्धमय़ीं तनुम् |
४८ क
जम्वुक उवाच:
पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ ||
४८ ख
जम्वुक उवाच:
अथ वास्तं गते सूर्ये सन्ध्याकाल उपस्थिते |
४९ क
जम्वुक उवाच:
ततो नेष्यथ वा पुत्रमिहस्था वा भविष्यथ ||
४९ ख
गृध्र उवाच:
अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः |
५० क
गृध्र उवाच:
न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम् ||
५० ख