युधिष्ठिर उवाच:
नाभागधेय़ः प्राप्नोति धनं सुवलवानपि |
१ क
युधिष्ठिर उवाच:
भागधेय़ान्वितस्त्वर्थान्कृशो वालश्च विन्दति ||
१ ख
युधिष्ठिर उवाच:
नालाभकाले लभते प्रय़त्नेऽपि कृते सति |
२ क
युधिष्ठिर उवाच:
लाभकालेऽप्रय़त्नेन लभते विपुलं धनम् |
२ ख
युधिष्ठिर उवाच:
कृतय़त्नाफलाश्चैव दृश्यन्ते शतशो नराः ||
२ ग
युधिष्ठिर उवाच:
यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुय़ात् |
३ क
युधिष्ठिर उवाच:
नालभ्यं चोपलभ्येत नृणां भरतसत्तम ||
३ ख
युधिष्ठिर उवाच:
यदा प्रय़त्नं कृतवान्दृश्यते ह्यफलो नरः |
४ क
युधिष्ठिर उवाच:
मार्गन्नय़शतैरर्थानमार्गंश्चापरः सुखी ||
४ ख
युधिष्ठिर उवाच:
अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः |
५ क
युधिष्ठिर उवाच:
धनय़ुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः ||
५ ख
युधिष्ठिर उवाच:
अधीत्य नीतिं यस्माच्च नीतिय़ुक्तो न दृश्यते |
६ क
युधिष्ठिर उवाच:
अनभिज्ञश्च साचिव्यं गमितः केन हेतुना |
६ ख
युधिष्ठिर उवाच:
विद्याय़ुक्तो ह्यविद्यश्च धनवान्दुर्गतस्तथा ||
६ ग
युधिष्ठिर उवाच:
यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुय़ात् |
७ क
युधिष्ठिर उवाच:
न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रय़ेत् ||
७ ख
युधिष्ठिर उवाच:
यथा पिपासां जय़ति पुरुषः प्राप्य वै जलम् |
८ क
युधिष्ठिर उवाच:
दृष्टार्थो विद्ययाप्येवमविद्यां प्रजहेन्नरः ||
८ ख
युधिष्ठिर उवाच:
नाप्राप्तकालो म्रिय़ते विद्धः शरशतैरपि |
९ क
युधिष्ठिर उवाच:
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ||
९ ख
भीष्म उवाच:
ईहमानः समारम्भान्यदि नासादय़ेद्धनम् |
१० क
भीष्म उवाच:
उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति ||
१० ख
भीष्म उवाच:
दानेन भोगी भवति मेधावी वृद्धसेवय़ा |
११ क
भीष्म उवाच:
अहिंसय़ा च दीर्घाय़ुरिति प्राहुर्मनीषिणः ||
११ ख
भीष्म उवाच:
तस्माद्दद्यान्न याचेत पूजय़ेद्धार्मिकानपि |
१२ क
भीष्म उवाच:
स्वाभाषी प्रिय़कृच्छुद्धः सर्वसत्त्वाविहिंसकः ||
१२ ख
भीष्म उवाच:
यदा प्रमाणप्रभवः स्वभावश्च सुखासुखे |
१३ क
भीष्म उवाच:
मशकीटपिपीलानां स्थिरो भव युधिष्ठिर ||
१३ ख