वासुदेव उवाच:
एवमुक्त्वा रौक्मिणेय़ो यादवान्भरतर्षभ |
१ क
वासुदेव उवाच:
दंशितैर्हरिभिर्युक्तं रथमास्थाय़ काञ्चनम् ||
१ ख
वासुदेव उवाच:
उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम् |
२ क
वासुदेव उवाच:
उत्पतद्भिरिवाकाशं तैर्हय़ैरन्वय़ात्परान् ||
२ ख
वासुदेव उवाच:
विक्षिपन्नादय़ंश्चापि धनुःश्रेष्ठं महावलः |
३ क
वासुदेव उवाच:
तूणखड्गधरः शूरो वद्धगोधाङ्गुलित्रवान् ||
३ ख
वासुदेव उवाच:
स विद्युच्चलितं चापं विहरन्वै तलात्तलम् |
४ क
वासुदेव उवाच:
मोहय़ामास दैतेय़ान्सर्वान्सौभनिवासिनः ||
४ ख
वासुदेव उवाच:
नास्य विक्षिपतश्चापं सन्दधानस्य चासकृत् |
५ क
वासुदेव उवाच:
अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे ||
५ ख
वासुदेव उवाच:
मुखस्य वर्णो न विकल्पतेऽस्य; चेलुश्च गात्राणि न चापि तस्य |
६ क
वासुदेव उवाच:
सिंहोन्नतं चाप्यभिगर्जतोऽस्य; शुश्राव लोकोऽद्भुतरूपमग्र्यम् ||
६ ख
वासुदेव उवाच:
जलेचरः काञ्चनय़ष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी |
७ क
वासुदेव उवाच:
वित्रासय़न्राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ||
७ ख
वासुदेव उवाच:
ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः |
८ क
वासुदेव उवाच:
शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप ||
८ ख
वासुदेव उवाच:
अभिय़ानं तु वीरेण प्रद्युम्नेन महाहवे |
९ क
वासुदेव उवाच:
नामर्षय़त सङ्क्रुद्धः शाल्वः कुरुकुलोद्वह ||
९ ख
वासुदेव उवाच:
स रोषमदमत्तो वै कामगादवरुह्य च |
१० क
वासुदेव उवाच:
प्रद्युम्नं योधय़ामास शाल्वः परपुरञ्जय़ः ||
१० ख
वासुदेव उवाच:
तय़ोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरय़ोः |
११ क
वासुदेव उवाच:
समेता ददृशुर्लोका वलिवासवय़ोरिव ||
११ ख
वासुदेव उवाच:
तस्य माय़ामय़ो वीर रथो हेमपरिष्कृतः |
१२ क
वासुदेव उवाच:
सध्वजः सपताकश्च सानुकर्षः सतूणवान् ||
१२ ख
वासुदेव उवाच:
स तं रथवरं श्रीमान्समारुह्य किल प्रभो |
१३ क
वासुदेव उवाच:
मुमोच वाणान्कौरव्य प्रद्युम्नाय़ महावलः ||
१३ ख
वासुदेव उवाच:
ततो वाणमय़ं वर्षं व्यसृजत्तरसा रणे |
१४ क
वासुदेव उवाच:
प्रद्युम्नो भुजवेगेन शाल्वं संमोहय़न्निव ||
१४ ख
वासुदेव उवाच:
स तैरभिहतः सङ्ख्ये नामर्षय़त सौभराट् |
१५ क
वासुदेव उवाच:
शरान्दीप्ताग्निसङ्काशान्मुमोच तनय़े मम ||
१५ ख
वासुदेव उवाच:
स शाल्ववाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः |
१६ क
वासुदेव उवाच:
मुमोच वाणं त्वरितो मर्मभेदिनमाहवे ||
१६ ख
वासुदेव उवाच:
तस्य वर्म विभिद्याशु स वाणो मत्सुतेरितः |
१७ क
वासुदेव उवाच:
विभेद हृदय़ं पत्री स पपात मुमोह च ||
१७ ख
वासुदेव उवाच:
तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि |
१८ क
वासुदेव उवाच:
सम्प्राद्रवन्दानवेन्द्रा दारय़न्तो वसुन्धराम् ||
१८ ख
वासुदेव उवाच:
हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते |
१९ क
वासुदेव उवाच:
नष्टसञ्ज्ञे निपतिते तदा सौभपतौ नृप ||
१९ ख
वासुदेव उवाच:
तत उत्थाय़ कौरव्य प्रतिलभ्य च चेतनाम् |
२० क
वासुदेव उवाच:
मुमोच वाणं तरसा प्रद्युम्नाय़ महावलः ||
२० ख
वासुदेव उवाच:
तेन विद्धो महावाहुः प्रद्युम्नः समरे स्थितः |
२१ क
वासुदेव उवाच:
जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा ||
२१ ख
वासुदेव उवाच:
तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम् |
२२ क
वासुदेव उवाच:
ननाद सिंहनादं वै नादेनापूरय़न्महीम् ||
२२ ख
वासुदेव उवाच:
ततो मोहं समापन्ने तनय़े मम भारत |
२३ क
वासुदेव उवाच:
मुमोच वाणांस्त्वरितः पुनरन्यान्दुरासदान् ||
२३ ख
वासुदेव उवाच:
स तैरभिहतो वाणैर्वहुभिस्तेन मोहितः |
२४ क
वासुदेव उवाच:
निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ||
२४ ख