chevron_left उद्योग पर्व अध्याय १४९
वैशम्पाय़न उवाच:
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः |
१ क
वैशम्पाय़न उवाच:
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह ||
१ ख
वैशम्पाय़न उवाच:
श्रुतं भवद्भिर्यद्वृत्तं सभाय़ां कुरुसंसदि |
२ क
वैशम्पाय़न उवाच:
केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् ||
२ ख
वैशम्पाय़न उवाच:
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः |
३ क
वैशम्पाय़न उवाच:
अक्षौहिण्यस्तु सप्तैताः समेता विजय़ाय़ वै ||
३ ख
वैशम्पाय़न उवाच:
तासां मे पतय़ः सप्त विख्यातास्तान्निवोधत |
४ क
वैशम्पाय़न उवाच:
द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ ||
४ ख
वैशम्पाय़न उवाच:
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् |
५ क
वैशम्पाय़न उवाच:
एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ||
५ ख
वैशम्पाय़न उवाच:
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः |
६ क
वैशम्पाय़न उवाच:
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः |
६ ख
वैशम्पाय़न उवाच:
इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रय़ोधिनः ||
६ ग
वैशम्पाय़न उवाच:
सप्तानामपि यो नेता सेनानां प्रविभागवित् |
७ क
वैशम्पाय़न उवाच:
यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् ||
७ ख
वैशम्पाय़न उवाच:
त्वं तावत्सहदेवात्र प्रव्रूहि कुरुनन्दन |
८ क
वैशम्पाय़न उवाच:
स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ||
८ ख
सहदेव उवाच:
संय़ुक्त एकदुःखश्च वीर्यवांश्च महीपतिः |
९ क
सहदेव उवाच:
यं समाश्रित्य धर्मज्ञं स्वमंशमनुय़ुञ्ज्महे ||
९ ख
सहदेव उवाच:
मत्स्यो विराटो वलवान्कृतास्त्रो युद्धदुर्मदः |
१० क
सहदेव उवाच:
प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् ||
१० ख
वैशम्पाय़न उवाच:
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः |
११ क
वैशम्पाय़न उवाच:
नकुलोऽनन्तरं तस्मादिदं वचनमाददे ||
११ ख
वैशम्पाय़न उवाच:
वय़सा शास्त्रतो धैर्यात्कुलेनाभिजनेन च |
१२ क
वैशम्पाय़न उवाच:
ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः ||
१२ ख
वैशम्पाय़न उवाच:
वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसङ्गरः |
१३ क
वैशम्पाय़न उवाच:
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महावलम् ||
१३ ख
वैशम्पाय़न उवाच:
श्लाघ्यः पार्थिवसङ्घस्य प्रमुखे वाहिनीपतिः |
१४ क
वैशम्पाय़न उवाच:
पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः ||
१४ ख
वैशम्पाय़न उवाच:
यस्तताप तपो घोरं सदारः पृथिवीपतिः |
१५ क
वैशम्पाय़न उवाच:
रोषाद्द्रोणविनाशाय़ वीरः समितिशोभनः ||
१५ ख
वैशम्पाय़न उवाच:
पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः |
१६ क
वैशम्पाय़न उवाच:
श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु ||
१६ ख
वैशम्पाय़न उवाच:
स द्रोणभीष्मावाय़ान्तौ सहेदिति मतिर्मम |
१७ क
वैशम्पाय़न उवाच:
स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः ||
१७ ख
वैशम्पाय़न उवाच:
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः |
१८ क
वैशम्पाय़न उवाच:
वासविर्वासवसमः सव्यसाच्यव्रवीद्वचः ||
१८ ख
वैशम्पाय़न उवाच:
योऽय़ं तपःप्रभावेन ऋषिसन्तोषणेन च |
१९ क
वैशम्पाय़न उवाच:
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महावलः ||
१९ ख
वैशम्पाय़न उवाच:
धनुष्मान्कवची खड्गी रथमारुह्य दंशितः |
२० क
वैशम्पाय़न उवाच:
दिव्यैर्हय़वरैर्युक्तमग्निकुण्डात्समुत्थितः ||
२० ख
वैशम्पाय़न उवाच:
गर्जन्निव महामेघो रथघोषेण वीर्यवान् |
२१ क
वैशम्पाय़न उवाच:
सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः ||
२१ ख
वैशम्पाय़न उवाच:
सिंहोरस्को महावाहुः सिंहवक्षा महावलः |
२२ क
वैशम्पाय़न उवाच:
सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः ||
२२ ख
वैशम्पाय़न उवाच:
सुभ्रूः सुदंष्ट्रः सुहनुः सुवाहुः सुमुखोऽकृशः |
२३ क
वैशम्पाय़न उवाच:
सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ||
२३ ख
वैशम्पाय़न उवाच:
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः |
२४ क
वैशम्पाय़न उवाच:
जज्ञे द्रोणविनाशाय़ सत्यवादी जितेन्द्रिय़ः ||
२४ ख
वैशम्पाय़न उवाच:
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य साय़कान् |
२५ क
वैशम्पाय़न उवाच:
वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव ||
२५ ख
वैशम्पाय़न उवाच:
यमदूतसमान्वेगे निपाते पावकोपमान् |
२६ क
वैशम्पाय़न उवाच:
रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान् ||
२६ ख
वैशम्पाय़न उवाच:
पुरुषं तं न पश्यामि यः सहेत महाव्रतम् |
२७ क
वैशम्पाय़न उवाच:
धृष्टद्युम्नमृते राजन्निति मे धीय़ते मतिः ||
२७ ख
वैशम्पाय़न उवाच:
क्षिप्रहस्तश्चित्रय़ोधी मतः सेनापतिर्मम |
२८ क
वैशम्पाय़न उवाच:
अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः ||
२८ ख
भीम उवाच:
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः |
२९ क
भीम उवाच:
वदन्ति सिद्धा राजेन्द्र ऋषय़श्च समागताः ||
२९ ख
भीम उवाच:
यस्य सङ्ग्राममध्येषु दिव्यमस्त्रं विकुर्वतः |
३० क
भीम उवाच:
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ||
३० ख
भीम उवाच:
न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम् |
३१ क
भीम उवाच:
शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम् ||
३१ ख
भीम उवाच:
द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम् |
३२ क
भीम उवाच:
शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ||
३२ ख
युधिष्ठिर उवाच:
सर्वस्य जगतस्तात सारासारं वलावलम् |
३३ क
युधिष्ठिर उवाच:
सर्वं जानाति धर्मात्मा गतमेष्यच्च केशवः ||
३३ ख
युधिष्ठिर उवाच:
यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः |
३४ क
युधिष्ठिर उवाच:
कृतास्त्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ||
३४ ख
युधिष्ठिर उवाच:
एष नो विजय़े मूलमेष तात विपर्यये |
३५ क
युधिष्ठिर उवाच:
अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ||
३५ ख
युधिष्ठिर उवाच:
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता |
३६ क
युधिष्ठिर उवाच:
यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः |
३६ ख
युधिष्ठिर उवाच:
व्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते ||
३६ ग
युधिष्ठिर उवाच:
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् |
३७ क
युधिष्ठिर उवाच:
रात्रिशेषे व्यतिक्रान्ते प्रय़ास्यामो रणाजिरम् |
३७ ख
युधिष्ठिर उवाच:
अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ||
३७ ग
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः |
३८ क
वैशम्पाय़न उवाच:
अव्रवीत्पुण्डरीकाक्षो धनञ्जय़मवेक्ष्य ह ||
३८ ख
वैशम्पाय़न उवाच:
ममाप्येते महाराज भवद्भिर्य उदाहृताः |
३९ क
वैशम्पाय़न उवाच:
नेतारस्तव सेनाय़ाः शूरा विक्रान्तय़ोधिनः |
३९ ख
वैशम्पाय़न उवाच:
सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम् ||
३९ ग
वैशम्पाय़न उवाच:
इन्द्रस्यापि भय़ं ह्येते जनय़ेय़ुर्महाहवे |
४० क
वैशम्पाय़न उवाच:
किं पुनर्धार्तराष्ट्राणां लुव्धानां पापचेतसाम् ||
४० ख
वैशम्पाय़न उवाच:
मय़ापि हि महावाहो त्वत्प्रिय़ार्थमरिन्दम |
४१ क
वैशम्पाय़न उवाच:
कृतो यत्नो महांस्तत्र शमः स्यादिति भारत |
४१ ख
वैशम्पाय़न उवाच:
धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ||
४१ ग
वैशम्पाय़न उवाच:
कृतार्थं मन्यते वालः सोऽऽत्मानमविचक्षणः |
४२ क
वैशम्पाय़न उवाच:
धार्तराष्ट्रो वलस्थं च मन्यतेऽऽत्मानमातुरः ||
४२ ख
वैशम्पाय़न उवाच:
युज्यतां वाहिनी साधु वधसाध्या हि ते मताः |
४३ क
वैशम्पाय़न उवाच:
न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जय़म् ||
४३ ख
वैशम्पाय़न उवाच:
भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ |
४४ क
वैशम्पाय़न उवाच:
युय़ुधानद्वितीय़ं च धृष्टद्युम्नममर्षणम् ||
४४ ख
वैशम्पाय़न उवाच:
अभिमन्युं द्रौपदेय़ान्विराटद्रुपदावपि |
४५ क
वैशम्पाय़न उवाच:
अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान् ||
४५ ख
वैशम्पाय़न उवाच:
सारवद्वलमस्माकं दुष्प्रधर्षं दुरासदम् |
४६ क
वैशम्पाय़न उवाच:
धार्तराष्ट्रवलं सङ्ख्ये वधिष्यति न संशय़ः ||
४६ ख
वैशम्पाय़न उवाच:
एवमुक्ते तु कृष्णेन सम्प्रहृष्यन्नरोत्तमाः |
४७ क
वैशम्पाय़न उवाच:
तेषां प्रहृष्टमनसां नादः समभवन्महान् ||
४७ ख
वैशम्पाय़न उवाच:
योग इत्यथ सैन्यानां त्वरतां सम्प्रधावताम् |
४८ क