सञ्जय़ उवाच:
ततः सैन्यास्तव विभो मद्रराजपुरस्कृताः |
१ क
सञ्जय़ उवाच:
पुनरभ्यद्रवन्पार्थान्वेगेन महता रणे ||
१ ख
सञ्जय़ उवाच:
पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः |
२ क
सञ्जय़ उवाच:
क्षणेनैव च पार्थांस्ते वहुत्वात्समलोडय़न् ||
२ ख
सञ्जय़ उवाच:
ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे |
३ क
सञ्जय़ उवाच:
निवार्यमाणा भीमेन पश्यतोः कृष्णपार्थय़ोः ||
३ ख
सञ्जय़ उवाच:
ततो धनञ्जय़ः क्रुद्धः कृपं सह पदानुगैः |
४ क
सञ्जय़ उवाच:
अवाकिरच्छरौघेण कृतवर्माणमेव च ||
४ ख
सञ्जय़ उवाच:
शकुनिं सहदेवस्तु सहसैन्यमवारय़त् |
५ क
सञ्जय़ उवाच:
नकुलः पार्श्वतः स्थित्वा मद्रराजमवैक्षत ||
५ ख
सञ्जय़ उवाच:
द्रौपदेय़ा नरेन्द्रांश्च भूय़िष्ठं समवारय़न् |
६ क
सञ्जय़ उवाच:
द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारय़त् ||
६ ख
सञ्जय़ उवाच:
भीमसेनस्तु राजानं गदापाणिरवारय़त् |
७ क
सञ्जय़ उवाच:
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः ||
७ ख
सञ्जय़ उवाच:
ततः समभवद्युद्धं संसक्तं तत्र तत्र ह |
८ क
सञ्जय़ उवाच:
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ||
८ ख
सञ्जय़ उवाच:
तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे |
९ क
सञ्जय़ उवाच:
यदेकः सर्वसैन्यानि पाण्डवानामय़ुध्यत ||
९ ख
सञ्जय़ उवाच:
व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः |
१० क
सञ्जय़ उवाच:
रणे चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः ||
१० ख
सञ्जय़ उवाच:
पीडय़ित्वा तु राजानं शरैराशीविषोपमैः |
११ क
सञ्जय़ उवाच:
अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत् ||
११ ख
सञ्जय़ उवाच:
तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् |
१२ क
सञ्जय़ उवाच:
अपूजय़न्ननीकानि परेषां तावकानि च ||
१२ ख
सञ्जय़ उवाच:
पीड्यमानास्तु शल्येन पाण्डवा भृशविक्षताः |
१३ क
सञ्जय़ उवाच:
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे ||
१३ ख
सञ्जय़ उवाच:
वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः |
१४ क
सञ्जय़ उवाच:
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः |
१४ ख
सञ्जय़ उवाच:
ततः पौरुषमास्थाय़ मद्रराजमपीडय़त् ||
१४ ग
सञ्जय़ उवाच:
जय़ो वास्तु वधो वेति कृतवुद्धिर्महारथः |
१५ क
सञ्जय़ उवाच:
समाहूय़ाव्रवीत्सर्वान्भ्रातॄन्कृष्णं च माधवम् ||
१५ ख
सञ्जय़ उवाच:
भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः |
१६ क
सञ्जय़ उवाच:
कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः ||
१६ ख
सञ्जय़ उवाच:
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः |
१७ क
सञ्जय़ उवाच:
भागोऽवशिष्ट एकोऽय़ं मम शल्यो महारथः ||
१७ ख
सञ्जय़ उवाच:
सोऽहमद्य युधा जेतुमाशंसे मद्रकेश्वरम् |
१८ क
सञ्जय़ उवाच:
तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः ||
१८ ख
सञ्जय़ उवाच:
चक्ररक्षाविमौ शूरौ मम माद्रवतीसुतौ |
१९ क
सञ्जय़ उवाच:
अजेय़ौ वासवेनापि समरे वीरसंमतौ ||
१९ ख
सञ्जय़ उवाच:
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ |
२० क
सञ्जय़ उवाच:
मदर्थं प्रतिय़ुध्येतां मानार्हौ सत्यसङ्गरौ ||
२० ख
सञ्जय़ उवाच:
मां वा शल्यो रणे हन्ता तं वाहं भद्रमस्तु वः |
२१ क
सञ्जय़ उवाच:
इति सत्यामिमां वाणीं लोकवीरा निवोधत ||
२१ ख
सञ्जय़ उवाच:
योत्स्येऽहं मातुलेनाद्य क्षत्रधर्मेण पार्थिवाः |
२२ क
सञ्जय़ उवाच:
स्वय़ं समभिसन्धाय़ विजय़ाय़ेतराय़ वा ||
२२ ख
सञ्जय़ उवाच:
तस्य मेऽभ्यधिकं शस्त्रं सर्वोपकरणानि च |
२३ क
सञ्जय़ उवाच:
संय़ुञ्जन्तु रणे क्षिप्रं शास्त्रवद्रथय़ोजकाः ||
२३ ख
सञ्जय़ उवाच:
शैनेय़ो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम् |
२४ क
सञ्जय़ उवाच:
पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जय़ः ||
२४ ख
सञ्जय़ उवाच:
पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः |
२५ क
सञ्जय़ उवाच:
एवमभ्यधिकः शल्याद्भविष्यामि महामृधे ||
२५ ख
सञ्जय़ उवाच:
एवमुक्तास्तथा चक्रुः सर्वे राज्ञः प्रिय़ैषिणः |
२६ क
सञ्जय़ उवाच:
ततः प्रहर्षः सैन्यानां पुनरासीत्तदा नृप ||
२६ ख
सञ्जय़ उवाच:
पाञ्चालानां सोमकानां मत्स्यानां च विशेषतः |
२७ क
सञ्जय़ उवाच:
प्रतिज्ञां तां च सङ्ग्रामे धर्मराजस्य पूरय़न् ||
२७ ख
सञ्जय़ उवाच:
ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान् |
२८ क
सञ्जय़ उवाच:
अवादय़न्त पाञ्चालाः सिंहनादांश्च नेदिरे ||
२८ ख
सञ्जय़ उवाच:
तेऽभ्यधावन्त संरव्धा मद्रराजं तरस्विनः |
२९ क
सञ्जय़ उवाच:
महता हर्षजेनाथ नादेन कुरुपुङ्गवाः ||
२९ ख
सञ्जय़ उवाच:
ह्रादेन गजघण्टानां शङ्खानां निनदेन च |
३० क
सञ्जय़ उवाच:
तूर्यशव्देन महता नादय़न्तश्च मेदिनीम् ||
३० ख
सञ्जय़ उवाच:
तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान् |
३१ क
सञ्जय़ उवाच:
महामेघानिव वहूञ्शैलावस्तोदय़ावुभौ ||
३१ ख
सञ्जय़ उवाच:
शल्यस्तु समरश्लाघी धर्मराजमरिन्दमम् |
३२ क
सञ्जय़ उवाच:
ववर्ष शरवर्षेण वर्षेण मघवानिव ||
३२ ख
सञ्जय़ उवाच:
तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः |
३३ क
सञ्जय़ उवाच:
द्रोणोपदेशान्विविधान्दर्शय़ानो महामनाः ||
३३ ख
सञ्जय़ उवाच:
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च |
३४ क
सञ्जय़ उवाच:
न चास्य विवरं कश्चिद्ददर्श चरतो रणे ||
३४ ख
सञ्जय़ उवाच:
तावुभौ विविधैर्वाणैस्ततक्षाते परस्परम् |
३५ क
सञ्जय़ उवाच:
शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे ||
३५ ख
सञ्जय़ उवाच:
भीमस्तु तव पुत्रेण रणशौण्डेन सङ्गतः |
३६ क
सञ्जय़ उवाच:
पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ |
३६ ख
सञ्जय़ उवाच:
शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः ||
३६ ग
सञ्जय़ उवाच:
तदासीत्तुमुलं युद्धं पुनरेव जय़ैषिणाम् |
३७ क
सञ्जय़ उवाच:
तावकानां परेषां च राजन्दुर्मन्त्रिते तव ||
३७ ख
सञ्जय़ उवाच:
दुर्योधनस्तु भीमस्य शरेणानतपर्वणा |
३८ क
सञ्जय़ उवाच:
चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमविभूषितम् ||
३८ ख
सञ्जय़ उवाच:
सकिङ्किणीकजालेन महता चारुदर्शनः |
३९ क
सञ्जय़ उवाच:
पपात रुचिरः सिंहो भीमसेनस्य नानदन् ||
३९ ख
सञ्जय़ उवाच:
पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् |
४० क
सञ्जय़ उवाच:
क्षुरेण शितधारेण प्रचकर्त नराधिपः ||
४० ख
सञ्जय़ उवाच:
स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव |
४१ क
सञ्जय़ उवाच:
विभेदोरसि विक्रम्य स रथोपस्थ आविशत् ||
४१ ख
सञ्जय़ उवाच:
तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः |
४२ क
सञ्जय़ उवाच:
यन्तुरेव शिरः काय़ात्क्षुरप्रेणाहरत्तदा ||
४२ ख
सञ्जय़ उवाच:
हतसूता हय़ास्तस्य रथमादाय़ भारत |
४३ क
सञ्जय़ उवाच:
व्यद्रवन्त दिशो राजन्हाहाकारस्तदाभवत् ||
४३ ख
सञ्जय़ उवाच:
तमभ्यधावत्त्राणार्थं द्रोणपुत्रो महारथः |
४४ क
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च पुत्रं तेऽभिपरीप्सवः ||
४४ ख
सञ्जय़ उवाच:
तस्मिन्विलुलिते सैन्ये त्रस्तास्तस्य पदानुगाः |
४५ क
सञ्जय़ उवाच:
गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः ||
४५ ख
सञ्जय़ उवाच:
युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः |
४६ क
सञ्जय़ उवाच:
स्वय़ं सञ्चोदय़न्नश्वान्दन्तवर्णान्मनोजवान् ||
४६ ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम कुन्तीपुत्रे युधिष्ठिरे |
४७ क
सञ्जय़ उवाच:
पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् ||
४७ ख
सञ्जय़ उवाच:
विवृताक्षश्च कौन्तेय़ो वेपमानश्च मन्युना |
४८ क
सञ्जय़ उवाच:
चिच्छेद योधान्निशितैः शरैः शतसहस्रशः ||
४८ ख
सञ्जय़ उवाच:
यां यां प्रत्युद्ययौ सेनां तां तां ज्येष्ठः स पाण्डवः |
४९ क
सञ्जय़ उवाच:
शरैरपातय़द्राजन्गिरीन्वज्रैरिवोत्तमैः ||
४९ ख